________________
द्वितीयोऽध्यायः । देवदत्तलक्षणत्वप्रतीतेः । न हि प्रतिक्षणपरिणामः खर्गप्रापणशक्त्यादि सर्वथा सर्वस्य केनचिदुपलक्षयितुं शक्यते । यदि पुनर्येन रूपेण प्रसिद्धो दंडादिस्तेन लक्षणं, देवदत्तश्च येन रूपेणाप्रसिद्धस्तेन लक्ष्य इति प्रतीतेः प्रसिद्धस्य लक्षणत्वमप्रसिद्धस्य तु लक्ष्यत्वमिति मतं; तदा कथं लक्ष्यसंलक्षणयोस्तदानैकांतः स्याविरुद्धधर्माध्यासात् । ततः कथंचिद्भिन्नयोरभिन्नयोश्च लक्ष्यलक्षणभावः, प्रतीतिस.द्भावात् सर्वथा विरोधाभावात्, अन्यथा लक्ष्यलक्षणशून्यतापत्तेः । संवृत्त्या लक्ष्यलक्षणभाव इति चेन्न, संवृत्तेरुपचारत्वे मुख्याभावेऽनुपपत्तेः । मृषात्वेन संवृत्तिर्नाम यया तद्भावः सिद्ध्येत् । विचारतोनुपपद्यमाना विकल्पबुद्धिः संवृत्तिरितिचेत् , कथं तया लक्ष्यलक्षणभावस्तस्य तत्रावभासनादिति चेत् सिद्धस्तर्हि बौद्धो लक्ष्यलक्षणभावः तद्वदबौद्धोपि किं न सिद्ध्येत् ? विकल्पाद्वहिर्भूतस्यासंभवात् इति चेन्न, तस्यासंभवे विकल्पविषयत्वायोगात् । न च सर्वो विकल्पविषयः संभवन्नेव संभवतोऽपि विकल्पविषयत्वोपपत्तेः प्रत्यक्षविषयवत् सर्वो विकल्पः संभवद्विषयो विकल्पत्वान्मनोराज्यादिविकल्पवदितिचेत् , सर्व प्रत्यक्षमसंभवद्विषयं प्रत्यक्षत्वात् केशोंडुकप्रत्यक्षवदिति किं न स्यात् । प्रत्यक्षाभासोऽसंभवद्विषयो दृष्टो न प्रत्यक्षमितिचेत् तर्हि विकल्पाभासोसंभवद्विषयो न विकल्प इति समानः परिहारः । कः पुनः सत्यो विकल्पः प्रत्यक्षं किं सत्यमिति समः पर्यनुयोगः । यतः प्रवर्तमानोर्थक्रियायां न विसंवाद्यते तत्सम्यक् प्रत्यक्षमितिचेत् , यतो विकल्पादथै परिच्छिद्य प्रवर्तमानोर्थक्रियायां न विसंवाद्यते स सत्यमिति किं नानुमन्यसे ? किं पुनर्विकल्पस्यार्थपरिच्छेदकत्वं प्रत्यक्षस्य किं अविचलितस्पष्टाविभासित्वमितिचेत् , कस्यचिद्विकल्पस्यापि तदेव, कस्यचित्तु बाधकविधुरास्पष्टार्थावभासित्वमपीति मन्यामहे । अस्पष्टोर्थ एव न भवतीतिचेत् कुतस्तस्यानर्थत्वं पुनरस्पष्टतयानवभासनादितिचेत् , स्पष्टोप्येवमनर्थः स्यात् पुनः स्पष्टतयानवभासनात् । यथैव हि दूरात्पादपादिसामान्यस्पष्टतया प्रतिभातं पुनर्निकटदेशवर्तितायां तदेवास्पष्टं न प्रतिभाति तद्विशेषस्य तदा प्रतिभासनात् । तथैव हि सन्निहितस्य पादपादिविशिष्टं रूपं स्पष्टतया प्रतिभातं पुनर्दूरतरदेशवर्तितायां न तदेव स्पष्टं प्रतिभासते । यदि पुनः सन्निहितज्ञानग्राह्यमेव तद्रूपं विशिष्टमिति मतिः तदा दविष्ठादिज्ञानग्राह्यमेव तद्रूपं सामान्यमिति किं न मतं । यथा विशिष्टं पादपादिरूपं स्वामर्थक्रियां निवर्तयति तथा पादपादिसामान्यरूपमपि प्रतिपत्तुः परितोषकरणं हि यद्यर्थक्रिया तदा तत्सामान्यस्यापि सास्त्येव कस्यचित्तावता परितोवात् । अथ खविषयज्ञानजनकत्वं तदपि सामान्यस्यास्ति सजातीयार्थकरणमर्थक्रियेतिचेत् , सोपि सदृशपरिणामस्यास्ति विसदृशपरिणामस्येव सदृशेतरपरिणामात्मकाद्धि बालपादपात् सदृशेतरपरिणामात्मक एव तरुणपादपादयः प्रादुर्भावमुपलभ्यते । तत्र यथा विसदृशपरिणामाद्विशेषाद्वा विसदृशपरिणामस्तथा सदृशपरिणामात्सामान्यात् सदृशपरिणाम इति सजातीयार्थकरणमर्थक्रिया सिद्धा सामान्यस्य । एतेन विजातीयस्था यद्यर्थकरणमर्थक्रिया सामान्यस्य प्रतिपादिता पादपविशेषस्येव पादपसामान्यस्यापि तद् व्यापारात् । एकत्र पादपव्यक्तौ सदृशपरिणामः कथं तस्य द्विष्ठत्वादितिचेत् , किं पुनर्विसदृशपरिणामो न द्विष्ठः । द्वितीयाद्यपेक्षामात्रादेकत्रैव विसदृशपरिणाम इतिचेत् , किं पुनर्न सदृशपरिणामोपि तस्यैवमापेक्षिकत्वादवस्तुत्वमितिचेत् न, विसदृशपरिणामस्याप्यवस्तुत्वप्रसंगात् । प्रत्यक्षबुद्धौ प्रतिभासमानो विसदृशपरिणामो नापेक्षिक इतिचेत् , सदृशपरिणामोपि तत्र प्रतिभासमानः परापेक्षिको मा भूत् । सदृशपरिणामः प्रत्यक्ष प्रतिभातीति कुतो व्यवस्थाप्यते इतिचेत् , विसदृशपरिणामस्तत्र प्रतिभातीति कुतः ? प्रत्यक्षपृष्टभाविनो विसदृशविकल्पादितिचेत् तथाविधात्सदृशविकल्पात्सादृश्यप्रतिभासव्यवस्थास्तु । कथमन्यथा यत्रैव जनयेदेनां तत्रैवास्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org