________________
तत्त्वार्थश्लोकवार्तिके
[सू० ८ एवं जीवस्य खतत्त्वं व्याख्याय लक्षणं व्याचिख्यासुरिदं सूत्रमाह;
उपयोगो लक्षणम् ॥ ८॥ जीवस्येत्यनुवर्तते । कः पुनः खतत्त्वलक्षणयोर्विशेषः ? खतत्त्वं लक्ष्यं स्यालक्षणं च लक्षणं । लक्षणं तु न लक्ष्यं इति तयोर्विशेषः ॥
यद्येवं किमत्र जीवस्य खतत्त्वं लक्षणमित्याह;तत्र क्षयोद्भवो भावः क्षयोपशमजश्च यः। तद्यक्तिव्यापि सामान्यमुपयोगोस्य लक्षणं ॥१॥
क्षयोद्भवो भावः क्षायिको भावस्तस्य व्यक्ती केवलज्ञानदर्शने गृह्येते, क्षयोपशमजो मिश्रस्तस्य च व्यक्तयो मत्यादिज्ञानानि चत्वारि मत्यज्ञानादीनि त्रीणि चक्षुर्दर्शनादीनि च गृह्यते तत्रैवोपयोगसामान्यस्य वृत्तेरन्यत्रावर्तनात् । तद्व्यापि सामान्यमुपयोगोस्य जीवस्य लक्षणमिति विवक्षितत्वात् , तद्व्यक्तेलक्षणत्वे लक्षणस्याव्यातिप्रसंगात् । बाह्याभ्यंतरहेतुद्वयसन्निधाने यथासंभवमुपलब्धश्चैतन्यानुविधायी परिणाम उपयोग इति वचनात् । अत्र हि न चैतन्यमात्रमुपयोगो यतस्तदेव जीवस्य लक्षणं स्यात् । किं तर्हि ? चैतन्यानुविधायी परिणामः स चोपलव्धुरात्मनो न पुनः प्रधानादेः चैतन्यानुविधायित्वाभावप्रसंगात् । न चासावहेतुको बाह्यस्याभ्यंतरस्य च हेतोयस्योपात्तानुपात्तविकल्पस्य सन्निधाने सति भावात् । न चैवं परिणामविशेष उपयोगो मतिज्ञानादिव्यक्तिरूपः प्रतिपादितो भवति यथासंभवमिति वचनात् । ततो दर्शनज्ञानसामान्यमुपयोग इति सूक्तं । किं पुनर्लक्षणं? परस्परव्यतिकरे सति येनान्यत्वं लक्ष्यते तल्लक्षणं । हेमश्यामिकयोर्वर्णादिविशेषवत् । तद्विविधं आत्मभूतानात्मभूतविकल्पात् । तत्रात्मभूतं लक्षणमनेरुष्णगुणवत् , अनात्मभूतं देवदत्तस्य दंडवत् । तत्रेहात्मभूतं लक्षणमुपयोगो जीवस्येति प्रतिपत्तव्यं । नात्मभूतो जीवस्योपयोगी गुणत्वादग्नेरुष्णवदिति चेन्न, एकांतभेदनिराकरणस्योक्तत्वाद्गुणगुणिनोः, गुणिनः कथंचिदभिन्नस्यैव गुणत्वोपपत्तेरन्यथा गुणगुणिभाव विरोधात् । घटपटादिवत् सर्वथा भिन्नमेव लक्ष्याल्लक्षणं दंडादिवत् इतिचेन्न, अनवस्थाप्रसंगात् । लक्षणाद्विभिन्नं लक्ष्यं कुतः सिद्ध्येत् ? लक्षणांतराचेत्ततोऽपि यदि तद्भिन्नं तदा लक्षणांतरादेव सिद्ध्येदित्यनवस्था । सुदूरमपि गत्वा यद्यभिन्नालक्षणात्कुतश्चित्तत्सिद्ध्येत् तदा न सर्व लक्षणं लक्ष्याद्भिन्नमेव । तथा यदि प्रसिद्धं तल्लक्षणं लक्ष्यस्य प्रज्ञापकं तदा कुतस्तत्प्रसिद्धं ? स्खलक्षणांतरादितिचेत्तदपि स्खलक्षणांतरादित्यनवस्था । सुदूरमप्यनुसृत्य यदि लक्षणं स्वरूपत एव प्रसिद्ध्येतदा न सकलं भिन्नमेव लक्षणं लक्षणस्य खात्मभूतलक्षणत्वात् । न वा प्रसिद्धं किंचित्कस्यचिल्लक्षणमिति प्रयोगात् । तद्यभिन्नमेव लक्ष्याल्लक्षणमनेरुष्णादिवदिति चेन्न, विपर्ययप्रसंगात् । तादात्म्याविशेषेप्यात्मोपयोगयोरम्यौष्णयोर्वोपयोगादिरेव लक्षणमात्मादेः न पुनरात्मादिरुपयोगादेरिति नियमहेत्वभावात् । प्रसिद्धत्वादुपयोगादिलक्षणमिति चेत् , किं पुनरात्मादिरप्रसिद्धः तथोपयोगमेकं कथमात्मोपयोगयोरम्युष्णयोर्वा तादात्म्यं प्रसिद्धाप्रसिद्धयोः सर्वथा तादात्म्यविरोधात् । न चैकांतेनाप्रसिद्धस्य लक्ष्यत्वं खरविषाणवत् । नापि प्रसिद्धस्यैव । लक्षणवत् कथंचित्प्रसिद्धस्यैव लक्ष्यत्वोपपत्तेः द्रव्यत्वेन प्रसिद्धस्य हि वन्हेरग्नित्वेनाप्रसिद्धस्य लक्ष्यत्वमुपलब्धं द्रव्यस्य च सत्त्वेन प्रसिद्धस्य द्रव्यत्वेनाप्रसिद्ध स्य लक्ष्यत्वमुपपद्यते सतोपि वस्तुत्वेन प्रसिद्धस्यासत्त्वव्यतिरेकेणाप्रसिद्धस्य लक्षणत्वमुपलक्ष्यते नान्यथा । न चैवमनवस्था कस्यचित्कचिनिर्णयोपलब्धेः । सर्वत्रानिर्णयस्य व्याहतत्वात् तस्यैव वरूपेण निर्णयात् । तदनिर्णये वा कथं सर्वत्रानिर्णयसिद्धिः । सर्वथा प्रसिद्धं लक्षणमित्यप्ययुक्तं, वृत्तद्राधिमादिना प्रसिद्धस्य दंडस्य कैश्चिदुरुपलक्ष्यैर्विशेषैरप्रसिद्धस्यापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org