________________
द्वितीयोऽध्यायः ।
३१७ कुतः पुनरनादिः परिणामः कर्मोदयाद्युपाधिनिरपेक्षो जीवस्य सिद्ध इत्यारेकायामाह;अनादिपरिणामोस्ति तत्रोपाधिपरामुखः । सोपाधिपरिणामानामन्यथातत्त्वहानितः॥१॥
न हि स्फटिकादेरसति स्वाभाविकपरिणामे खच्छत्वे जपाकुसुमाग्रंपाधिसान्निध्यभावानुजन्मा रक्तत्वादिपरिणामः प्रतीयते तद्वदात्मनोप्यौपाधिकाः परिणामा औपशमिकादयो नानादिपरिणाममंतरेणो• पपद्यते शशविषाणादेरपि स्वाभाविकपरिणामरहितस्यौपाधिकपरिणामप्रसंगात् । ततोस्ति जीवस्यानादिनिरुपाधिकः परिणामः कर्मोपशमादिपरिणामवत् । तथासति--
एतत्समुद्भवा भावा यादिभेदा यथाक्रमम् । जीवस्यैवोपपद्यते चित्स्वभावसमन्वयात् ॥२॥
कर्मणामुपशमक्षयक्षयोपशमोदयप्रयोजना औपशमिकक्षायिकक्षायोपशमिकौदयिका भावाः कर्मण एवेति न मंतव्यं, कर्मोपशमादिभिः प्रयुज्यमानादौपशमिकादीनां जीवपरिणामत्वोपपत्तेः । चेतनासंबंधत्वाच्च प्रधानस्यैवैते परिणामा, इत्यप्यनालोचिताभिधानं तत एव । न हि ब्यादिभेदेषु यथाक्रममौपशमिकादिषु भावेषु चित्समन्वयोऽसिद्धस्तेषामहंकारास्पदत्वेन प्रतीतेरात्मोपभोगवत् । न चाहंकारोपि प्रधानपरिणामः पुरुषतादात्म्येन खयं संवेदनात् । प्रांतं ततथा संवेदनमितिचेत् न, बाधकाभावात् । अहंकारादयोऽचेतना एवानित्यत्वात् कलशादिवत्येतदनुमानं बाधकमितिचेन्न, पुरुषानुभवेनानैकांतिकत्वात् तस्यापि परापेक्षितया कादाचित्कत्वेनानित्यत्वसिद्धेरित्युक्तत्वादुपयोगसिद्धौ ॥ किं च
क्षायिका नव भावाः स्युः पुरुषस्यैव तत्त्वतः। क्षायिकत्वाद्यथा तस्य सिद्धत्वमिति निश्चयः३ कृत्स्नकर्मक्षयात्तावत् सिद्धत्वं क्षायिकं मतं । सर्वेषामात्मरूपं चेत्यप्रसिद्धं न साधनम् ॥४॥ द्वावौपशमिको भावो जीवस्य भवतो ध्रुवं । मोक्षहेतुत्वतः कर्मक्षयजन्मगादिवत् ॥५॥ क्षायोपशमिका दृष्टिज्ञानचारित्रलक्षणाः । भावाः पुंसोऽत एव स्युरन्यथानुपपत्तितः ॥६॥ प्रधानाद्यात्मका ह्येषा सम्यग्दृष्टयादिभावना । न पुंसो मोक्षहेतुः स्यात्सर्वथातिप्रसंगतः ॥७ क्षायोपशमिकाः शेषा भावाः पुंवन्मता भृतः। क्षायोपशमिकत्वात्स्युः सम्यग्दृग्बोधवृत्तवत् ८ जीवस्यौदयिकाः सर्वे भावा गत्यादयः स्मृताः । जीवे सत्येव सद्भावादसत्यनुपपत्तितः ॥९॥ कर्मोदये च तस्यैव तथा परिणमत्वतः । तेषां तत्परिणामत्वं कथंचिन्न विरुध्यते ॥ १० ॥ भव्याभव्यत्वयोर्जीवस्वभावत्वं विभाव्यते । पारिणामिकतायोगाचेतनत्वविवर्तवत् ॥ ११ ॥ चेतनत्वस्वभावत्वमात्मनोऽसिद्धमित्यसत् । स्वोपयोगस्वभावत्वसिद्धेः प्रागभिधानतः ॥१२॥ नन्वौपशमिकादीनां त्यागश्चेन्निवृतात्मनः । निःस्वभावत्वमासक्तं नैरात्म्यं सर्वथा ततः॥१३ तदत्यागे तु मोक्षस्याभावः स्यादात्मनः सदा । ततो न तत्स्वभावत्वं जीवस्येत्यपरे विदुः १४ तदसंगतमादेशवचनादेव देहिनः । तेषां तद्रूपताभीष्टेरत्यागाच कथंचन ॥ १५॥ चित्स्वभावतया तावन्नैषां त्यागः कथंचन । क्षायोपशमिकत्वोपशमिकत्वेन तत्क्षये ॥ १६ ॥ तेषामौदयिकत्वेन नैव स्यानिःस्वभावता । मोक्षाभावोपि चापुंसः क्षायिकाद्यविनाशतः॥१७ न चौपशमिकादीनां नाशाजीवास्वभावता । प्रतिक्षणविवर्तानां तत्स्वभावत्वहानितः ॥१८॥ कूटस्थात्मकतापत्तेः सर्वथार्थक्रियाक्षतेः । वस्तुत्वहानितो जीवतत्त्वाभावप्रसंगतः ॥ १९ ॥ तथा च नाशिनो भावाः स्वभावा नात्मनस्तथा। अनात्मनोपि ते न स्युरिति तद्वस्तुता कुतः एवं निःशेषतत्त्वानामभावः केन वार्यते । नास्तिभावस्वभावत्वाभावः साधनवादिनाम् ॥२१॥ ततः स्याद्वादिनां सिद्धः शाश्वतोऽशाश्वतोपि च । स्वभावः सर्ववस्तूनामिति नुस्तत्स्वभावता॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org