________________
३१६ तत्त्वार्थश्लोकवार्तिके
[सू०७ यात् , अज्ञानमेकभेदं असंयतत्वमेकभेदं लिंगे हास्यरत्याद्यतर्भावः सहचारित्वात् । गतिग्रहणमघात्युपलक्षणमिति न कस्यचिदौदयिकभेदस्यासंग्रहः ॥ कुतः पुनर्गतिनामादिकर्मणामुदयः सिद्धो यतोऽमीषामेकविंशतिभावानामौदयिकत्वं सिद्ध्यतीत्याह;-- अन्यथाभावहेतूनां केषांचिदुदयः स्थितः । कालुष्यवित्तितस्तद्वद्गतिनामादयस्तु ते ॥१॥
खयमगतिखभावस्य पुंसो नरकादिगतिपरिणामविशेषः कालुप्यमन्यथाभावाद्वेद्यते तद्वदकषायलिंगमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याखभावस्य सतस्तस्य कषायादिपरिणामकालुष्याभाव एव तद्वित्तिरेव वात्मनोन्यथाभावहेतूनां केषांचिदुदयं साधयति, तदभावे सर्वथानुपपद्यमानत्वात् परिदृष्टहेतूनां तत्र व्यभिचारात् । तथा सति येषामुदयाद्गत्यादयः परिणाम विशेषाः कादाचित्कास्ते गतिनामादयः कर्मप्रकृतिभेदा इति परिशेषादवसीयते ॥
गतिनामोदयादेव गतिरौदयिकी मता । तद्विशेषोदयात्सैव चतुर्धा तु विशिष्यते ॥ २ ॥ तयोपलक्षिताघातिकर्मोदयनिबंधनं । सुखाद्यौदायिकं सर्वमेतेनैवोपवर्णितम् ॥ ३॥ तथा क्रोधादिभेदस्य कषायस्योदयान्नृणाम् । चतुर्भेदः कषायः स्यादन्यथाभावसाधनः ॥४॥ लिंगं वेदोदयात्रेधा हास्यायुदयतोपि च । हास्यादिस्तेन जीवस्य मुनिना प्रतिवर्णितः ॥५॥ दृष्टिमोहोदयात्पुंसो मिथ्यादर्शनमिष्यते । दृगावरणसामान्योदयाचादर्शनं तथा ॥६॥ सासादनं च सम्यक्त्वं यदानंतानुबंधिनः । कषायस्योदयाज्जातं तदप्येतेन वर्णितम् ॥७॥ सम्यग्मिथ्यात्वमेकेषां तत्कर्मोदयजन्मकं । मतमौदयिक कैश्चित्क्षायोपशमिकं स्मृतम् ॥ ८॥ ज्ञानावरणसामान्यस्योदयादुपवर्णितं । जीवस्याज्ञानसामान्यमन्यथानुपपत्तितः ॥ ९॥ वृत्तिमोहोदयात्पुंसोऽसंयतत्वं प्रचक्ष्यते । कर्ममात्रोदयादेवासिद्धत्वं प्रणिगम्यते ॥ १० ॥ कषायोदयतो योगप्रवृत्तिरुपदर्शिता । लेश्या जीवस्य कृष्णादिः षड्भेदा भावतोनधैः॥ ११ अथ पारिणामिकभावभेदप्रतिपादनार्थ सप्तममिदं सूत्रमाह;---
जीवभव्याभव्यत्वानि च ॥ ७॥ पारिणामिकस्य भावस्य त्रयोऽसाधारणा भेदा इत्यभिसंबंधः । चशब्दसमुच्चितास्तु साधारणाः असाधारणाश्चास्तित्वान्यत्वकर्तृत्वहरत्वपर्यायवत्त्वासर्वगतत्वानादिसंततिबंधत्वप्रदेशवत्त्वारूपत्वनित्यत्वादयः । तादिग्रहणमत्र न्याय्यमितिचेन्न, त्रिविधपारिणामिकभावप्रतिज्ञाहानिप्रसंगात् । समुच्चयार्थेपि चशब्दे सति तुल्यो दोष इति चेन्न, प्रधानापेक्षत्वात्रित्वप्रतिज्ञायाः । समुच्चीयमानास्तु चशब्देनाप्रधानभूता एवास्तित्वादय इति न दोषः । कुतः पुनः पारिणामिका जीवत्वादयो भावा इति चेत् , कर्मोपशमक्षयक्षयोपशमोदयानपेक्षत्वात् । न ह्यायुरुदयापेक्षं जीवत्वं सिद्धस्याजीवत्वप्रसंगात् । तस्य जीवितपूर्वकत्वाज्जीवत्वमिति चेन्न, उपचारतो जीवत्वप्रसंगात् । मुख्यं तु जीवत्वं तस्येप्यते, ततो न ह्यौदयिकं । ननु च ज्ञानादेर्भावप्राणस्य धारणात् सिद्धस्य मुख्यं जीवत्वमित्यभ्युपगमे क्षायिकमेतत्स्यादनंतज्ञानादेः क्षायिकत्वादिति चेत् न, जीवनक्रियायाः शब्दनिष्पत्त्यर्थत्वात् तदेकार्थसमवेतस्य जीवत्वसामान्यस्य जीवशब्दप्रवृत्तिनिमित्तत्वोपपत्तेः । अथवा न त्रिकालविषयजीवनामभवनं जीवत्वं । किं तर्हि ? चित्तत्वं न च तदायुरुदयापेक्षं, न चापि कर्मक्षयापेक्षं सर्वदाभावात् । एतेन सम्यग्दर्शनज्ञानचारित्रपरिणामेन सिद्धभवनयोग्यत्वं भव्यत्वं तद्विपरीतमभव्यत्वं च पारिणामिकमुन्नेयं तस्यापि कर्मोदयाद्यनपेक्षत्वसिद्धेः सर्वदा भावात् । अनादिपरिणाममात्रनिमित्तत्वात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org