________________
·
द्वितीयोऽध्यायः ।
तथाहि ;
शुद्धिः प्रकर्षमायाति परमं कचिदात्मनि । प्रकृष्यमाणवृद्धित्वात्कनकादि विशुद्धिवत् ॥ २ ॥ शुद्धिर्ज्ञानादिकस्यात्र जीवस्यास्त्यतिशायिनी । भव्यस्य बाधकाभावादित्यसिद्धात्र साधना ३ 'नानैकांतिकमप्येतत्तदस्तु या विभाव्यते । तस्या अपि कचित्सिद्धेः प्रकर्षस्य परस्य च ||४|| प्राक्साधितात्र सर्वज्ञज्ञानवृद्धिः प्रमाणतः । दर्शनस्य विशुद्धिर्वा तत एवाविनाभुवः ॥ ५ ॥ ततो युक्तः क्षायिको भावो नवभेदः ॥
क्षायोपशमिकोष्टादशभेद: । कथमिति तत्प्रतिपादनार्थं पंचमं सूत्रमाह ;
-
ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपंचभेदाः सम्यक्त्वचारित्रसंयमासंयमाच ॥ ५ ॥
चत्वारश्च त्रयश्च पंच चतुस्त्रिपंचभेदा यासां ताश्चतुस्त्रित्रिपंचभेदाः । कास्ता: ? ज्ञानदर्शनलब्धयः । यथाक्रममित्यनुवर्तते तेनैवमभिसंबंध: कर्तव्यः । ज्ञानं चतुर्भेदं, अज्ञानं त्रिभेदं, दर्शनं त्रिभेदं, लब्धिः पंचभेदा, सम्यक्त्व चारित्रसंयमासंयमाश्च त्रयः क्षायोपशमिकभावस्याष्टादश भेदा इति । मत्यादिज्ञानावरणचतुष्टयमत्यज्ञानाद्यावरणत्रयस्य चक्षुर्दर्शनाद्यावरणत्रयस्य च दानांतराया दिपंचकस्य दर्शनमोहस्य चारित्रमोहस्य संयममोहस्य च क्षयोपशमादुपजायमानत्वात् । कुतः पुनरयं मिश्रो भावः स्यादिति चेत्, मतिज्ञानावरण।दिसर्वघातिस्पर्धकानामुदयक्षयात्तेषामेव सदुपशमात्तद्देशघातिस्पर्धकानामुदयात् क्षायोपशमिको भावः । किं पुनः स्पर्धका नाम ? अविभागपरिच्छिन्न कर्मप्रदेशर सभागप्रचयपंक्तेः क्रमवृद्धिः *महानिः स्पर्धकं कर्मस्कंधशक्तिविशेषः । संज्ञित्वसम्यग्मिथ्यात्वयोगानां ज्ञानसम्यक्त्वलब्धिप्वंतर्भावान्न पृथगुपादानं ॥
कुतः पुनः क्षयोपशमः कर्मणां सिद्ध इत्याह ;
क्षीणाक्षीणात्मनां घातिकर्मणामवसीयते । शुद्धाशुद्धात्मतासिद्धिरन्यथानुपपत्तितः ॥ १ ॥ स्वसंवेदनादेवात्मनः शुद्धाशुद्धात्मतायाः सिद्धिरप्रतिबंधा सती घातिकर्मणां क्षीणोपशांतखभावतां साधयति तदभावे तदनुपपत्तेः, पयसि पंकस्य क्षीणोपशांततामंतरेण शुद्धात्मतानुपपत्तिवत् ॥
३१५
ततो मत्यादिविज्ञानचतुष्टयमिह स्मृतं । शुद्धाशुद्धात्मकं लिंगं तदावरणकर्मणाम् ॥ २ ॥ क्षयोपशमसद्भावे मत्यज्ञानादि च त्रयं । दर्शनत्रितयं चापि निजावरणकर्मणां ॥ ३ ॥ लब्धयः पंच तादृश्यः स्वांतरायस्य कर्मणः । सम्यक्त्वं दृष्टिमोहस्य वृत्तं वृत्तमुहस्तथा ॥ ४ ॥ संयमासंयमपीति घातिक्षीणोपशांतता । सिद्धा तद्भवभावानां तथा भावं प्रसाधयेत् ॥ ५ ॥ एवं च सिद्धोष्टादशभेदो मिश्रो भावः ॥
यः पुनरौदयिको भाव एकविंशति भेदोत्रोद्दिष्टस्तस्य निर्देशार्थ षष्ठमिदं सूत्रम् ;
गतिकषायलिंग मिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुचतुरूयेकैकैकैकपड्डेदाः ॥ ६॥
Jain Education International
चतुरादीनां कृतद्वंद्वानां भेदशब्देनान्यपदार्था वृत्तिः पूर्ववत् । यथाक्रममिति चानुवर्तते तेनैवमभिसंबंधः क्रियते- गतिश्चतुर्भेदा कषायश्चतुर्भेदो लिंगं त्रिभेदं मिथ्यादर्शनमेकभेदमदर्शनस्य तत्रैवांतर्भा
For Private & Personal Use Only
www.jainelibrary.org