SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थश्लोकवार्तिके अथौपशमिकादिभेदसंख्याख्यापनार्थं द्वितीयं सूत्रम् ; ३.१४ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २ ॥ यादीनां भेदशब्देन वृत्तिरन्यपदार्थका । द्वंद्वभाजां भवेदत्र स्वाभिप्रेतार्थसिद्धितः ॥ १ ॥ प्रत्येकं भेदशब्दस्य समाप्तिर्भुजिवन्मता । यथाक्रममिति ख्यातेप्यक्रमस्य निराक्रिया ॥ २ ॥ तथा च सत्येतदुक्तं भवति औपशमिको भावो द्विभेदः क्षायिको नवभेदः मिश्रोष्टादशभेद: औदयिक एकविंशतिभेदः पारिणामिकस्त्रिभेद इति ॥ तत्रौपशमिकभेदद्वयप्रचिख्यापयिषया तृतीयसूत्रमाह; - ―――― सम्यक्त्वचारित्रे ॥ ३ ॥ औपशमिकस्य द्वौ भेदावित्यभिसंबंध ः सामर्थ्यात् । तत्र दर्शनमोहस्योपशमादौपशमिकसम्यक्त्वं, चारित्रमोहोपशमादौ पशमिकचारित्रं ॥ दर्शनमोहस्य चारित्रमोहस्य चोपशमः कथं कचिदात्मनि सिद्ध इति चेदुच्यते ; पुंसि सम्यक्त्वचारित्रमोहस्योपशमः कचित् । शांतप्रसत्तिसिद्धेर्यथा पंकस्य वारिणि ॥ १ ॥ यथैव हि जले सपंके कुतश्चित्प्रसन्नता सा च साध्यमाना पंकस्योपशमे सति भवति नानुपशमे, कालुष्यप्रतीतेः; नापि क्षये, शांतत्वविरोधात् । तथात्मनि सम्यक्त्वचारित्रलक्षणा प्रसन्नता सत्येव दर्शनचारित्र मोहस्योपशमे भवति नानुपशमे, मिथ्यात्वा संयम लक्षणकालुष्योपलब्धेः । न क्षये, तस्याः शांतत्वविरोधादिति युक्तं पश्यामः ॥ [सू० ४ कुतः पुनः प्रसन्नता तादृशी प्रसिद्धात्मन इति चेदिमे ब्रूमहे ; यो यत्कालुष्यहेतुः स्यात्स कुतश्रित् प्रशाम्यति । तत्र तोये यथा पंकः कतकादिनिमित्ततः २ न चाभव्यादिकालुष्य हेतुना व्यभिचारिता । कुतश्चित्कारणात्तस्य प्रशमः साध्यते यतः ॥ ३ ॥ न च तत्प्रशमे किंचिदभव्यस्यास्ति कारणं । तद्भावे तस्य भव्यत्वप्रसंगाद विपक्षता ॥ ४ ॥ स्वयं संविद्यमाना वा सम्यक्त्वादिप्रसन्नता । सिद्धात्र साधयत्येव तन्मोहस्योपशांतताम् ॥५॥ ततो युक्ति मानोपशमिको भावो द्विभेदतः । तथा क्षायिको नवभेदः ॥ कथमिति प्रतिपादनार्थं चतुर्थं सूत्रमाह; - ज्ञानदर्शनदान लाभभोगोपभोगवीर्याणि च ॥ ४॥ चशब्देन सम्यक्त्वचारित्रे समुच्चीयेते । ज्ञानावरणक्षयात् क्षायिकज्ञानं केवलं, दर्शनावरणक्षयात्केवलदर्शनं, दानांतरायक्षयादभयदानं लाभांतरायक्षयाल्लाभः परमशुभपुद्गलादानलक्षणः परमौदारिकशरीर स्थितिहेतुः भोगांतरायक्षयाद्भोगः, उपभोगांतरायक्षयादुपभोग, वीर्यात रायक्षयादनंतवीर्ये, दर्शनमोहक्षयात्सम्यक्त्वं, चारित्रमोहक्षयाच्चारित्रमिति नवैते क्षायिकभावस्य भेदाः || " Jain Education International कुतः पुनर्ज्ञानावरणादीनां क्षयः सिद्ध इत्याह ; आत्यंतिकः क्षयो ज्ञानदर्शनावरणस्य च । सांतरायप्रपंचस्यानंतशुद्धिप्रसिद्धितः ॥ १ ॥ ज्ञानावरणस्य दर्शनावरणस्य चशब्दादर्शनमोहस्य चारित्रमोहस्य चांतराय पंचकसहितस्यात्यंतः क्षयः क्वचिदस्ति अनंतशुद्धिप्रसिद्धेः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy