________________
तथाहि ;
&&
सम्यग्दृक्तत्त्वार्थश्रद्धानं तस्याः गोचरो विषयो जीवो निरूपितस्तावदजीवादिवत् तस्य खमसाधारणं तत्त्वमौपशमिकादयः पंच भावाः स्युर्न पुनः पारिणामिक एव भावश्चैतन्यमात्रं यतश्चैतन्यं पुरुषस्य स्वं रूपमिति दर्शनं केषांचिद्यवतिष्ठते । बुद्ध्यादयो न चैवात्मनो विशेषगुणा इति वा, आनंदमात्रं ब्रह्मरूपमिति वा प्रभाकरमेवेदं चित्तमिति वा प्रमाणाभावात् । प्रमाणोपपन्नास्तु जीवस्यासाधारणाः खभावाः पंचौपशमिकादयस्ते सप्तसूत्र्या निरूपिताः सूत्रकारेण लक्षणतः संख्यातः प्रभेदतश्च ॥
--
अथ द्वितीयोऽध्यायः ।
तत्र तेषां लक्षणतो निरूपणार्थमिदमाद्यं सूत्रमुपलक्ष्यते;
औपशमिकक्षायिक भावौ मिश्रश्र जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥ १ ॥
अत्रौपशमिकादिशब्दनिरुक्तित एवोपशमिकादिभावानां लक्षणमुपदर्शितं तस्यास्तदव्यभिचारात् ॥
सम्यग्ग्गोचरो जीवस्तस्योपशमिकादयः ।
स्वं तत्त्वं पंच भावाः स्युः सप्तसूत्र्या निरूपिताः ॥ १ ॥
Jain Education International
अनुद्भूतस्वसामर्थ्यं वृत्तितोपशमो मतः । कर्मणां पुंसि तोयादावधः प्रापितपङ्कवत् ॥ २ ॥ तेषामात्यंतिकी हानिः क्षयस्तदुभयात्मकः । क्षयोपशम उद्गीतः क्षीणाक्षीणबलत्वतः ॥ ३ ॥ उदयः फलकारित्वं द्रव्यादिप्रत्ययद्वयात् । द्रव्यात्मलाभ हेतुः स्यात् परिणामोनपेक्षिणः ॥ ४ ॥ एतत्प्रयोजना भावाः सर्वोपशमिकादयः । इत्यौपशमिकादीनां शब्दानामुपवर्णिता ।। ५ ।। निरुक्तिरर्थसामर्थ्याद् ज्ञातुमव्यभिचारिणी । ततोन्यत्राप्रवृत्तत्वात् ज्ञानचारित्रशब्दवत् ॥ ६ ॥ प्रागौपशमिकस्योक्तिर्भव्यस्यानादिसंसृतौ । वर्तमानस्य सम्यक्त्वग्रहणे तस्य संभवात् ॥ ७ ॥ स्तोकत्वात्सर्वभावेभ्यः स्तोककालत्वतोपि वा । शेषेभ्यः क्षायिकादिभ्यः कथंचित्तद्विरुध्यते८ ततस्तु क्षायिकस्योक्तिरसंख्येयगुणत्वतः । भव्यजीव स्वभावत्वख्यापनार्थत्वतोपि च ॥ ९ ॥ क्षायोपशमिकस्यातो या संख्येयगुणत्वतः । युक्तास्ति तद्वयात्मत्वाद्भव्येतरसमत्वतः ॥ १० ॥ उक्तिरौदयिकस्यातस्तेन जीवावबोधतः । पारिणामिकभावस्य ततोंते सर्वनृस्थितेः ॥ ११ ॥ न चैषां द्वन्द्वनिर्देशः सर्वेषां सूरिणा कृतः । क्षायोपशमिकस्यैव मिश्रस्य प्रतिपत्तये ॥ १२ ॥ नार्थक शब्दौ तौ मध्ये सूत्रस्य लक्ष्यते । नाप्यंते व्यादिसंयोगजन्मभावोपसंग्रहात् ॥ १३ ॥ क्षायोपशमिकं चांते नोक्तं मध्येत्र युज्यते । ग्रंथस्य गौरवाभावादन्यथा तत्प्रसंगतः ॥ १४ ॥ निरवद्यमतः सूत्रं भावपंचकलक्षणम् । प्रख्यापयति निःशेषदुरारेकाविवेकतः ॥ १५ ॥
४०
For Private & Personal Use Only
www.jainelibrary.org