________________
२६८ तत्त्वार्थश्लोकवार्तिके
[सू० ३३ प्रधानभावत एव युक्तः । स च नय एव स्वार्थैकदेशव्यवसायात्मकत्वादित्युक्तं । नन्वेवं दृष्टेष्टविरुद्धेनापि रूपेण तस्य व्यंजको नयः स्यादिति न शंकनीयं, “सधर्मणैव शाब्दस्य साधादविरोधतः” इति वचनात् । समानो हि धर्मो यस्य दृष्टांतस्य तेन साधर्म्य साध्यस्य धर्मिणो मनागपि वैधाभावात् । ततोस्याविरोधेनैव व्यंजक इति निश्चीयते दृष्टांतसाधाददृष्टांतोत्सरणादित्यनेन दृष्टविरोधस्य निवर्तनात् । ननु कथंचिदपि दृष्टांतवैधाद् दृष्टवैपरीत्यादित्यनेनेष्टविरोधस्य परिहरणात् दृष्टविपरीतस्य । सर्वथानिष्टत्वात् खयमुदाहृतश्चैवं लक्षणो नयः खामिसमंतभद्राचार्यैः । “सदेव सर्व को नेच्छेत्खरूपादिचतुष्टयात्" इति सर्वस्य वस्तुनः स्याद्वादप्रविभक्तस्य विशेषः सत्त्वं तस्य व्यंजको बोधः खरू. पादिचतुष्टयाद् दृष्टसाधर्म्यस्य स्वरूपादिचतुष्टयात् सन्निश्चितं न पररूपादिचतुष्टयेन तद्वत्सर्व विवादापन्नं सत् को नेच्छेत् ? कस्यात्र विप्रतिपत्तिरिति व्याख्यानात् ॥
संक्षेपतो नयविभागमामर्शयति;संक्षेपावौ विशेषेण द्रव्यपर्यायगोचरौ । द्रव्यार्थो व्यवहारांतः पर्यायार्थस्ततोपरः ॥३॥
विशेषतः संक्षेपाद् द्वौ नयौ द्रव्यार्थः पर्यायार्थश्च । द्रव्यविषयो द्रव्यार्थः पर्यायविषयः पर्यायार्थः प्रथमो नैगमसंग्रहव्यवहारविकल्पः । ततोपरश्चतुर्धा ऋजुसूत्रशब्दसमभिरूद्वैवंभूत विकल्पात् ॥ विस्तरेणेति सप्तैते विज्ञेया नैगमादयः । तथातिविस्तरेणैतद्भेदाः संख्यातविग्रहाः ॥ ४ ॥ कुत एवमतः सूत्राल्लक्ष्यत इत्याह;नयो नयौ नयाश्चेति वाक्यभेदेन योजिताः । नैगमादय इत्येवं सर्वसंख्याभिसूचनात् ॥ ५॥
नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवंभूता नयाः इत्यत्र नय इत्येकं वाक्यं, ते नयौ द्रव्यार्थिकपर्यायार्थिको इति द्वितीयमेते नयाः सप्तेति तृतीयं, पुनरपि ते नयाः संख्याता शब्दत इति चतुर्थ । संक्षेपपरायां वाक्प्रवृत्तौ यौगपद्याश्रयणात् । नयश्च नयौ च नयाश्च नया इत्येकशेषस्य खाभाविकस्याभिधाने दर्शनात् । केषांचित्तथा वचनोपलंभाच्च न विरुध्यते । अत्र वाक्यभेदौ नैगमादिरेकस्य द्वयोश्च सामानाधिकरण्याविरोधाच्च गृहा ग्रामः देवमनुष्या उभौ राशी इति यथा । नन्वेवमेकत्वद्वित्वादिसंख्यागतावपि कथं नयस्य सामान्यलक्षणं द्विधा विभक्तस्य तद्विशेषणं विज्ञायत इत्याशंकायामाह;नयानां लक्षणं लक्ष्यं तत्सामान्यविशेषतः । नीयते गम्यते येन श्रुतार्थाशो नयो हि सः॥६॥ तदंशौ द्रव्यपर्यायलक्षणौ साध्यपक्षिणौ । नीयेते तु यकाभ्यां तौ नयाविति विनिश्चितौ।।७।।
नीयतेऽनेनेति नय इत्युक्ते तस्य विषयः सामर्थ्यादाक्षिप्यते । स च श्रुताख्यप्रमाणविषयीकृतस्यांश इति तदपेक्षा निरुक्तिर्नयसामान्यलक्षणे लक्षयति, तथा नीयेते यकाभ्यां तौ नयावित्युक्ते तु द्रव्यार्थिकपर्यायार्थिको नयौ द्वौ तौ च द्रव्यपर्यायाविति तदपेक्षं निर्वचनं नयविशेषद्वयलक्षणं प्रकाशयति ।
ननु च गुणविषयो गुणार्थिकोपि तृतीयो वक्तव्य इत्यत्राह;गुणः पर्याय एवात्र सहभावी विभावितः । इति तद्गोचरो नान्यस्तृतीयोस्ति गुणार्थिकः॥८॥ पर्यायो हि द्विविधः, क्रमभावी सहभावी च । द्रव्यमपि द्विविधं शुद्धमशुद्धं च । तत्र संक्षेपशुद्धवचने द्वित्वमेव युज्यते, पर्यायशब्देन पर्यायसामान्यस्य खव्यक्तिव्यापिनोभिधानात् । द्रव्यशब्देन च द्रव्यसामान्यस्य स्वशक्तिव्यापिनः कथनात् । ततो न गुणः सहभावी पर्यायस्तृतीयः शुद्धद्रव्यवत् । संक्षेपाविवक्षायां तु विशेषवचनस्य चत्वारो नयाः स्युः, पर्याय विशेषगुणं च द्रव्यविशेषशुद्धद्रव्यस्य पृथगुपादानप्रसंगात् । ननु च द्रव्यपर्याययोस्तद्वांस्तृतीयोस्ति तद्विषयतृतीयो मूलनयोस्तीति चेत् न,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org