________________
प्रथमोऽध्यायः ।
२६९ तत्परिकल्पनेऽनवस्थाप्रसंगात् द्रव्यपर्यायस्तद्वतामपि तद्वदंतरपरिकल्पनानुषक्तेर्दुर्निवारत्वात् । यदि तु यथा तंतवोवयवास्तद्वानवयवी पटस्तयोरपि तंतुपटयो न्योस्ति तद्वांस्तस्याप्रतीयमानत्वात् । तथा पर्यायाः खभावास्तद्वद् द्रव्यं तयोरपि नान्यस्तद्वानस्ति प्रतीतिविरोधादिति मतिस्तदा प्रधानभावेन वपर्यायात्मकवस्तुप्रमाणविषयस्तवोपोद्धृतं । द्रव्यमानं द्रव्यार्थिकविषयः पर्यायमानं पर्यायार्थिकविषय इति न तृतीयो • नयविशेषोस्ति यतो मूलनयस्तृतीयः स्यात् । तदेवम्
प्रमाणगोचरार्थीशा नीयंते यैरनेकधा । ते नया इति व्याख्याता जाता मूलनयद्वयात् ॥९॥ द्रव्यपर्यायसामान्यविशेषपरिबोधिकाः । न मूलं नैगमादीनां नयाश्चत्वार एव तत् ॥ १०॥ सामान्यस्य पृथक्त्वेन द्रव्यादनुपपत्तितः । सादृश्यपरिणामस्य तथा व्यंजनपर्ययात् ॥ ११ ॥ वैसदृश्यविवर्तस्य विशेषस्य च पर्यये । अंतर्भावाद्विभाव्येत द्वौ तन्मूलं नयाविति ॥ १२॥ नामादयोपि चत्वारस्तन्मूलं नेत्यतो गतं । द्रव्यक्षेत्रादयश्चैषां द्रव्यपर्यायगत्वतः ॥१३॥ भावान्विता न पंचैते स्कंधा वा परिकीर्तिताः । रूपादयो त एवेह तेपि हि द्रव्यपर्ययौ।।१४ तथा द्रव्यगुणादीनां पोढात्वं न व्यवस्थितं । षट् स्युर्मूलनया येन द्रव्यपर्यायग्राहिते ॥१५॥ ये प्रमाणादयो भावा प्रधानादय एव वा । ते नैगमादिभेदानामथो नापरनीतयः ॥१६॥ प्रमाणप्रमेयसंशयप्रयोजनदृष्टांतसिद्धांतावयवतर्कनिर्णयवादजल्पवितंडाहेत्वाभासच्छलजातिनिग्रह स्थानाख्याः षोडश पदार्थाः कैश्चिदुपदिष्टाः, तेपि द्रव्यगुणकर्मसामान्यविशेषसमवायेभ्यो न जात्यंतरत्वं प्रतिपद्यते, गुणादयश्च पर्यायान्नार्थीतरमित्युक्तप्रायं । ततो द्रव्यपर्यायावेव तैरिष्टौ स्यातां, तयोरेव तेषामंतर्भावान्नामादिवत् । येप्याहुः । “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥” इति पंचविंशतिस्तत्त्वानीति । तैरपि द्रव्यपर्यायावेवांगीकरणीयौ मूलप्रकृतेः पुरुषस्य च द्रव्यत्वात् , महदादीनां परिणामत्वेन पर्यायत्वात् रूपादिस्कंधसंतानक्षणवत् । ततो नैगमादिभेदानामेवार्थास्ते न पुनरपरानीतयः । अपरानीतिर्येषु त एव छपरानीतयः इति गम्यते, न चैतेषु द्रव्यार्थिकपर्यायार्थिकाभ्यां नैगमादिभेदाभ्यां अपरानीतिः प्रवर्तत इति तावेव मूलनयौ, नैगमादीनां तत एव जातत्वात् ॥ तत्र नैगमं व्याचष्टे:तत्र संकल्पमात्रस्य ग्राहको नैगमो नयः । सोपाधिरित्यशुद्धस्य द्रव्यार्थस्याभिधानतः॥१७॥ संकल्पो निगमस्तत्र भवोयं तत्प्रयोजनः । तथा प्रस्थादिसंकल्पः तदभिप्राय इष्यते ॥१८॥ नन्वयं भाविनी संज्ञां समाश्रित्योपचर्यते । अप्रस्थादिषु तद्भावस्तंडुलेष्वोदनादिवत् ॥ १९॥ इत्यसद्वहिरर्थेषु तथानध्यवसानतः । स्ववेद्यमानसंकल्पे सत्येवास्य प्रवृत्तितः ॥ २० ॥ यद्वा नैकं गमो योत्र स सतां नैगमो मतः । धर्मयोर्धर्मिणो वापि विवक्षा धर्मधर्मिणोः॥२१॥ प्रमाणात्मक एवायमुभयग्राहकत्वतः । इत्ययुक्तं इह ज्ञप्तेः प्रधानगुणभावतः ॥ २२ ॥ प्राधान्येनोभयात्मानमर्थ गृह्णविवेदनम् । प्रमाणं नान्यदित्येतत्प्रपंचेन निवेदितम् ॥ २३ ॥ संग्रहे व्यवहारे वा नांतर्भावः समीक्ष्यते । नैगमस्य तयोरेकवस्त्वंशप्रवणत्वतः ॥२४॥ न सूत्रादिषु प्रोक्तहेतवो वेति षण्नयाः । संग्रहादय एवेह न वाच्याः प्रपरीक्षकैः ॥ २५ ॥ सप्तैते नियतं युक्ता नैगमस्य नयत्वतः । तस्य त्रिभेदव्याख्यानात् कैश्चिदुक्ता नया नव २६ तत्र पयोयगस्त्रेधा नैगमो द्रव्यगो द्विधा । द्रव्यपर्यायगः प्रोक्तश्चतुर्भेदो ध्रुवं ध्रुवैः ॥ २७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org