________________
. .
२७० तत्त्वार्थश्लोकवार्तिके
[सू० ३३ अर्थपर्याययोस्तावद्गणमुख्यस्वभावतः । कचिद्वस्तुन्यभिप्रायः प्रतिपत्तुः प्रजायते ॥ २८॥ यथा प्रतिक्षणं ध्वंसि सुखसंविच्छरीरिणः । इति सत्तार्थपर्यायो विशेषणतया गुणः ॥२९॥ संवेदनार्थपर्यायो विशेष्यत्वेन मुख्यताम् । प्रतिगच्छन्नभिप्रेतो नान्यथैवं वचोगतिः ॥३०॥ सर्वथा सुखसंवित्योनानात्वेभिमतिः पुनः । स्वाश्रया चार्थपर्यायनैगमाभो प्रतीतितः ॥३१॥ कश्चिद्व्यंजनपर्यायो विषयीकुरुतेजसा । गुणप्रधानभावेन धर्मिण्येकत्र नैगमः ॥ ३२ ॥ सचैतन्यं नरीत्येवं सत्त्वस्य गुणभावतः । प्रधानभावतश्चापि चैतन्यस्याभिसिद्धितः ॥ ३३ ॥ तयोरत्यंतभेदोक्तिरन्योन्यं स्वाश्रयादपि । ज्ञेयो व्यंजनपर्यायनैगमाभो विरोधतः ॥ ३४ ॥ अर्थव्यंजनपर्यायौ गोचरीकुरुते परः । धार्मिके सुखजीवित्वमित्येवमनुरोधतः ॥ ३५ ॥ भिन्ने तु सुखजीवत्वे योभिमन्येत सर्वथा । सोर्थव्यंजनपर्यायनैगमाभास एव नः ॥ ३६॥ शुद्धद्रव्यमशुद्धं च तथाभिप्रैति यो नयः । स तु नैगम एवेह संग्रहव्यवहारजः ॥ ३७॥ सद्रव्यं सकलं वस्तु तथान्वयविनिश्चयात् । इत्येवमवगंतव्यस्त दोक्तिस्तु दुर्नयः ॥ ३८॥ यस्तु पर्यायवद्र्व्यं गुणवद्वेति निर्णयः । व्यवहारनयाज्जातः सोऽशुद्धद्रव्यनगमः ॥ ३९ ॥ तद्भेदैकांतवादस्तु तदाभासोनुमन्यते । तथोक्तेर्बहिरंतश्च प्रत्यक्षादिविरोधतः ॥४०॥ शुद्धद्रव्यार्थपर्यायनैगमोस्ति परो यथा । सत्सुखं क्षणिकं शुद्धं संसारेसिन्नितीरणम् ॥४१॥ सत्त्वं सुखार्थपर्यायाद्भिन्नमेवेति संमतिः । दुर्नीतिः स्यात्सबाधत्वादिति नीतिविदो विदुः४२ क्षणमेकं सुखी जीवो विषयीति विनिश्चयः । विनिर्दिष्टोर्थपर्यायाशुद्धद्रव्यगनैगमः ॥ ४३ ॥ सुखजीवभिदोक्तिस्तु सर्वथा मानवाधिता । दुर्नीतिरेव बोद्धव्या शुद्धबोधैरसंशयात् ॥४४॥ गोचरीकुरुते शुद्धद्रव्यव्यंजनपर्ययौ । नैगमोन्यो यथा सच्चित्सामान्यमिति निर्णयः ॥ ४५ ॥ विद्यते चापरोशुद्धद्रव्यव्यंजनपर्ययौ । अर्थीकरोति यः सोत्र नागुणीति निगद्यते ॥ ४६॥ भिदाभिदाभिरत्यंत प्रतीतेरपलापतः । पूर्ववन्नैगमाभासौ प्रत्येतव्यौ तयोरपि ॥४७॥ नवधा नैगमस्यैवं ख्यातेः पंचदशोदिताः । नयाः प्रतीतिमारूढाः संग्रहादिनयैः सह ॥४८॥
त्रिविधस्तावन्नैगमः । पर्यायनैगमः, द्रव्यनैगमः, द्रव्यपर्यायनैगमश्चेति । तत्र प्रथमस्त्रेधा । अर्थपर्यायनैगमो व्यंजनपर्यायनैगमोऽर्थव्यंजनपर्यायनैगमश्च इति । द्वितीयो द्विधा । शुद्धद्रव्यनैगमः, अशुद्धद्रव्यनैगमश्चेति । तृतीयश्चतुर्धा । शुद्धद्रव्यार्थपर्यायनैगमः, शुद्धद्रव्यव्यंजनपर्यायनैगमः, अशुद्धद्रव्यार्थपर्यायनैगमः अशुद्धद्रव्यव्यंजनपर्यायनैगमश्चेति नवधा नैगमः साभास उदाहृतः परीक्षणीयः । संग्रहादयस्तु वक्ष्यमाणा षडिति सर्वे पंचदश नयाः समासतः प्रतिपत्तव्याः ॥ सत्र संग्रहनयं व्याचष्टेएकत्वेन विशेषाणां ग्रहणं संग्रहो नयः । सजातेरविरोधेन दृष्टेष्टाभ्यां कथंचन ॥४९॥ समेकीभावसम्यक्त्वे वर्तमानो हि गृह्यते । निरुक्त्या लक्षणं तस्य तथा सति विभाव्यते॥५० शुद्धद्रव्यमभिप्रैति सन्मानं संग्रहः परः । स चाशेषविशेषेषु सदौदासीन्यभागिह ॥ ५१ ॥ निराकृतविशेषस्तु सत्ताद्वैतपरायणः । तदाभासः समाख्यातः सद्भिदृष्टेष्टबाधनात् ॥५२॥ अभिन्न व्यक्तिभेदेभ्यः सर्वथा बहुधानकं । महासामान्यमित्युक्तिः केषांचिदुनेयस्तथा।।५३।। शब्दब्रह्मेति चान्येषां पुरुषाद्वैतमित्यपि । संवेदनाद्वयं चेति प्रायशोन्यत्र दर्शितम् ॥ ५४ ॥ द्रव्यत्वं सकलद्रव्यव्याप्यभिप्रेति चापरः । पर्यायत्वं च निःशेषपर्यायव्यापिसंग्रहः ॥ ५५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org