________________
२७१
प्रथमोऽध्यायः। तथैवावांतरान् भेदान् संगृयैकत्वतो बहुः । वर्ततेयं नयः सम्यक् प्रतिपक्षानिराकृतेः॥५६॥ खव्यक्त्यात्ममनैकांतस्तदाभासोप्यनेकधा । प्रतीतिबाधितो बोध्यो निःशेषोप्यनया दिशा ५७
द्रव्यत्वं द्रव्यात्मकमेव ततो तरभूतानां द्रव्याणामभावादित्यपरसंग्रहाभासः, प्रतीतिविरोधात् । तथा पर्यायत्वं पर्यायात्मकमेव ततो तरभूतपर्यायासत्त्वादिति तत्त्वं तत एव । तथा जीवत्वं जीवात्मकमेव, पुद्गलत्वं पुद्गलात्मकमेव, धर्मत्वं धर्मात्मकमेव, अधर्मत्वं अधर्मात्मकमेव, आकाशत्वं आकाशात्मकमेव, कालत्वं कालात्मकमेवेति चापरसंग्रहाभासाः । जीवत्वादिसामान्यानां खव्यक्तिभ्यो भेदेन कथंचित्प्रतीतेरन्यथा तदन्यतरलोपे सर्वलोपानुषंगात् । तथा क्रमभाविपर्यायत्वं क्रमभाविपर्यायविशेषास्मकमेव, सहभाविगुणत्वं तद्विशेषात्मकमेवेति वापरसंग्रहाभासौ प्रतीतिप्रतिघातादेव । एवमपरापरद्रव्यपर्यायभेदसामान्यानि खव्यक्त्यात्मकान्येवेत्यभिप्रायाः सर्वेप्यपरसंग्रहाभासाः प्रमाणबाधितत्वादेव बोद्धव्याः, प्रतीत्यविरुद्धस्यैवापरसंग्रहप्रपंचस्यावस्थितत्वात् ॥
व्यवहारनयं प्ररूपयति;संग्रहेण गृहीतानामर्थानां विधिपूर्वकः । योवहारो विभागः स्याम्यवहारो नयः स्मृतः॥५८॥ स चानेकप्रकारः स्यादुत्तरः परसंग्रहात् । यत्सत्तद्रव्यपर्यायाविति प्रागृजुसूत्रतः ॥ ५९॥ कल्पनारोपितद्रव्यपर्यायप्रविभागभाक् । प्रमाणबाधितोन्यस्तु तदाभासोऽवसीयताम् ॥६०॥
परसंग्रहस्तावत्सर्वं सदिति संगृह्णाति, व्यवहारस्तु तद्विभागमभिप्रैति यत्सत्तद्रव्यं पर्याय इति । यथैवापरसंग्रहः सर्वद्रव्याणि द्रव्यमिति संगृह्णाति सर्वपर्यायाः पर्याय इति । व्यवहारस्तद्विभजते यद्रव्यं तज्जीवादिषडिधं, यः पर्यायः स द्विविधः क्रमभावी सहभावी चेति । पुनरपि संग्रहः सर्वान् जीवादीन् संगृह्णाति जीवः पुद्गलो धर्मोऽधर्मः आकाशं काल इति, क्रमभुवश्च पर्यायान् क्रमभाविपर्याय इति, सहभाविपर्यायांस्तु सहभाविपर्याय इति । व्यवहारस्तु तद्विभागमभिप्रेति यो जीवः स मुक्तः संसारी च, यः पुद्गलः सोणुः स्कंधश्च, यो धर्मास्तिकायः स जीवगतिहेतुः पुद्गलगतिहेतुश्च, यस्त्वधर्मास्तिकायः स जीवस्थितिहेतुरजीवस्थितिहेतुश्च पर्यायतो द्रव्यतस्तस्यैकत्वात् । तथा यदाकाशं तल्लोकाकाशमलोकाकाशं च, यः कालः स मुख्यो व्यावहारिकश्चेति, यः क्रमभावी पर्यायः स क्रियारूपोऽक्रियारूपश्च, विशेषः यः सहभावी पर्यायः स गुणः, सदृशपरिणामश्च सामान्यमिति अपरापरसंग्रहव्यवहारप्रपंचः प्रागृजुसूत्रात्परसंग्रहादुत्तरः प्रतिपत्तव्यः, सर्वस्य वस्तुनः कथंचित्सामान्यविशेषात्मकत्वात् । न चैवं व्यवहारस्य नैगमत्वप्रसक्तिः संग्रह विषयप्रविभागपरत्वात् सर्वत्र नैगमस्य तु गुणप्रधानोभयविषयत्वात् । यः पुनः कल्पनारोपितद्रव्यपर्याय विभागमभिप्रेति स व्यवहाराभासः, प्रमाणबाधितत्वात् । तथाहि-न कल्पनारोपित एव द्रव्यपर्यायप्रविभागः खार्थक्रियाहेतुत्वादन्यथा तदनुपपत्तेः । वंध्यापुत्रादिवत् व्यवहारस्य मिथ्यात्वे तदानुकूल्येन प्रमाणानां प्रमाणता च न स्यात् , खप्नादिविभ्रमानुकूल्येनापि तेषां प्रमाणत्वप्रसंगात् । तदुक्तं । “व्यवहारानुकूल्येन प्रमाणानां प्रमाणता । नान्यथा बाध्यमानानां तेषां च तत्प्रसंगतः ॥” इति ॥ सांप्रतमजुसूत्रनयं सूत्रयति;ऋजुसूत्रं क्षणध्वंसि वस्तु सत्सूत्रयेदृजु । प्राधान्येन गुणीभावाव्यस्यानर्पणात्सतः ॥ ६१ ॥ निराकरोति यद्रव्यं बहिरंतश्च सर्वथा । स तदाभोऽभिमंतव्यः प्रतीतेरपलापतः ॥ ६२ ॥ कार्यकारणता चेति ग्राह्यग्राहकतापि वा । वाच्यवाचकता चेति कार्थसाधनदृषणं ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org