________________
तत्त्वार्थश्लोकवार्तिके
[सू० ३३
I
लोकसंवृत्तिसत्यं च सत्यं च परमार्थतः । कैवं सियेद्यदाश्रित्य बुद्धानां धर्मदेशना ॥ ६४ ॥ सामानाधिकरण्यं क विशेषणविशेष्यता । साध्यसाधनभावो वा काधाराधेयतापि च ॥ ६५ ॥ संयोगो विप्रयोगो वा क्रियाकारणसंस्थितिः । सादृश्यं वैसदृश्यं वा स्वसंतानेतरस्थितिः ||६६ समुदायः क्व च प्रेत्यभावादि द्रव्यनिह्नवे | बंधमोक्षव्यवस्था वा सर्वथेष्टाऽप्रसिद्धितः ॥ ६७॥ क्षणध्वंसिन एव बहिरंतश्च भावाः, क्षणद्वयस्थाष्णुत्वेपि तेषां सर्वदा नाशानुपपत्तेः कौटस्थ्यप्रसंगात् क्रमाक्रमाभ्यामर्थक्रियाविरोधादवस्तुतापत्तेः इति यो द्रव्यं निराकरोति सर्वथा सोत्रर्जुसूत्राभासो हि मंतव्यः प्रतीत्यतिक्रमात् । प्रत्यभिज्ञानप्रतीतिर्हि बहिरंतश्चैकं द्रव्यं पूर्वोत्तरपरिणामवर्ति साधयंती बाधविधुरा प्रसाधितैव पुरस्तात् । तस्मिन् सति प्रतिक्षणविनाशेस्येष्टत्वान्न विनाशानुपपत्तिर्न भावानां कौट - स्थ्यापत्तिः यतः सर्वथार्थक्रियाविरोधात् अवस्तुता स्यात् । योपि च मन्यते परमार्थतः कार्यकारणभावस्याभावान्न ग्राह्यग्राहकभावो वाच्यवाचकभावो वा यतो बहिरर्थः सिद्ध्येत् । विज्ञानमात्रं तु सर्वमिदं त्रैधातुकमिति, सोपि चर्जुसूत्राभासः खपरपक्षसाधनदूषणाभावप्रसंगात् । लोकसंवृत्त्या स्वपक्षस्य साधनात् परपक्षस्य बाधनात् दूषणाददोष इति चेन्न, लोकसंवृत्तिसत्यस्य परमार्थसत्यस्य च प्रमाणतोसिद्धेः तदाश्रयणेनापि बुद्धानपवर्णदेशनाद्दूषणद्वारेण धर्मदेशनानुपपत्तेः । एतेन चित्राद्वैतं संवेदनाद्वैतं क्षणिकमित्यपि मननमृजुसूत्राभासतामायातीत्युक्तं वेदितव्यं । किं च, सामानाधिकरण्याभावो द्रव्यस्योभयाधारभूतस्य निह्नवात् । तथा च कुतः शब्दादेर्विशेष्यता क्षणिकत्वकृतकत्वादेः साध्यसाधनधर्मकलापस्य च तद्विशेषणता सिद्ध्येत् ? तदसिद्धौ च न साध्यसाधनभावः साधनस्य पक्षधर्मत्वसपक्षत्वानुपपत्तेः । कल्पनारोपितस्य साध्यसाधनभावस्येष्टेरदोष इति चेन्न; बहिरर्थत्वकल्पनायाः साध्यसाधनधर्माधारानुपपत्तेः, कचिदप्याधाराधेयतायाः संभवाभावात् । किं च, संयोगविभागाभावो द्रव्याभावात् क्रियाविरहश्च ततो न कारकव्यवस्था यतः किंचित्परमार्थतोऽर्थक्रियाकारि वस्तु स्यात् । सदृशेतरपरिणामाभावश्च परिणामिनो द्रव्यस्यापवात् । ततः स्वपरसंतान व्यवस्थितिविरोधः सदृशेतरकार्यकारणानामत्यंतमसंभवात् । समुदायायोगश्च समुदायिनो द्रव्यस्यानेकस्या समुदायावस्थापरित्यागपूर्वक समुदायावस्थामुपाददानस्यापह्नवात् । तत एव न प्रेत्यभावः शुभाशुभानुष्ठानं तत्फलं च पुण्यं पापं बंधो वा व्यवतिष्ठते यतो संसारमोक्षव्यवस्था तत्र स्यात्, सर्वथापीष्टस्याप्रसिद्धेः । संवृत्या हि चेष्टस्य सिद्धिः संवृतेर्मृषात्वात् । नापि परमार्थतः पारमार्थिकैकद्रव्यसिद्धिप्रसंगात् तदभावे तदनुपपत्तेरिति परीक्षितमसकृद्विद्यानंदिमहोदयैः ॥
२७२
शब्दनयमुपवर्णयति;
कालादिभेदतोर्थस्य भेदं यः प्रतिपादयेत् । सोत्र शब्दनयः शब्दप्रधानत्वादुदाहृतः ॥ ६८ ॥ कालकारकलिंगसंख्यासाधनोपग्रह भेदाद्भिन्नमर्थं शपतीति शब्दो नयः शब्दप्रधानत्वादुदाहृतः । यस्तु व्यवहारनयः कालादिभेदेप्यभिन्नमर्थमभिप्रैति तमनूद्य दूषयन्नाह -
विश्वदृश्वास्य जनिता सूनुरित्येकमादृताः । पदार्थ कालभेदेपि व्यवहारानुरोधतः ॥ ६९ ॥ करोति क्रियते पुष्यस्तारका योंभ इत्यपि । कारकव्यक्तिसंख्यानां भेदेपि च परे जनाः ॥७० हि मन्ये रथेनेत्यादिकसाधनभिद्यपि । संतिष्ठेतावतिष्ठेतेत्याद्युपग्रहभेदने ॥ ७१ ॥ तन्न श्रेयः परीक्षायामिति शब्दः प्रकाशयेत् । कालादिभेदनेप्यर्थाभेदनेतिप्रसंगतः ॥ ७२ ॥ ये हि वैयाकरणव्यवहारनयानुरोधेन 'धातुसंबंधे प्रत्यया' इति सूत्रमारभ्य विश्वदृश्वास्य पुत्रो जनिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org