________________
प्रथमोऽध्यायः ।
२७३
•
भावि कृत्यमासीदित्य कालभेदेप्येकपदार्थमाहता यो विश्वं दृक्ष्यति सोपि पुत्रो जनितेति भविष्यत्कालेनातीतकालस्याभेदोभिमतः तथा व्यवहारदर्शनादिति । तत्र यः परीक्षाया मूलक्षतेः कालभेदेप्यर्थस्याभेदेतिप्रसंगात् रावणशंखचक्रवर्तिनोरप्यतीतानागतकालयोरेकत्वापत्तेः । आसीद्रावणो राजा शंखचक्रवर्ती भविष्यतीति शब्दयोर्भिन्नविषयत्वान्नैकार्थतेति चेत्, विश्वदृश्वा जनितेत्यनयोरपि मा भूत् तत एव । न हि विश्वं दृष्टवानिति विश्वदृशि त्वेतिशब्दस्य योर्थोतीतकालस्य जनितेति शब्दस्यानागतकालः पुत्रस्य भाविनोतीतत्वविरोधात् । अतीतकालस्याप्यनागतत्वाव्यपरोपादेकार्थताभिप्रेतेति चेत्, तर्हि न परमार्थतः कालभेदेप्यभिन्नार्थव्यवस्था । तथा करोति क्रियते इति कारकयोः कर्तृकर्मणोर्भेदेप्यभिन्नमर्थत एवाद्रियते स एव करोति किंचित् स एव क्रियते केनचिदिति प्रतीतेरिति । तदपि न श्रेयः परीक्षायां । देवदत्तः कटं करोतीत्यत्रापि कर्तृकर्मणोर्देवदत्तकटयोरभेदप्रसंगात् । तथा पुष्यं तारकेत्यव्यक्तिभेदेपि न कृतार्थमेकमाद्रियंते, लिंगमशिष्यं लोकाश्रयत्वादिति । तदपि न श्रेयः पटः कुटीत्यत्रापि पटकुट्योरेकत्वप्रसंगात् तल्लिंगभेदाविशेषात् । तथापोंभ इत्यत्र संख्याभेदेप्येकमर्थं जलाख्यमादृताः संख्याभेदस्योद्भेदकत्वात् गुर्वादिवदिति । तदपि न श्रेयः परीक्षायां । घटसंस्तव इत्यत्रापि तथाभावानुषंगात् संख्याभेदाविशेषात् । एहि मन्ये रथेन यास्यसि न हि यास्यसि स यातस्ते पिता इति साधनभेदेपि पदार्थमभिन्नमादृताः “प्रहासे मन्य वावि युष्मन्मन्यतेरस्मदेकवच्च" इति वचनात् । तदपि न श्रेयः परीक्षायां, अहं पचामि त्वं पचसीत्यत्रापि अस्मद्युष्मत्साघनाभेदेप्येकार्थत्वप्रसंगात् । तथा संतिष्ठते अवतिष्ठत इत्यत्रोपसर्गभेदेप्यभिन्नमर्थमादृता उपसर्गस्य धात्वर्थमात्रद्योतकत्वादिति । तदपि न श्रेयः । तिष्ठति प्रतिष्ठत इत्यत्रापि स्थितिगतिक्रिययोरभेदप्रसंगात् । ततः कालादिभेदाद्भिन्न एवार्थोऽन्यथातिप्रसंगादिति शब्दनयः प्रकाशयति तद्भेदेप्यर्थाभेदे दूषणांतरं च दर्शयति
तथा कालादिनानात्वकल्पनं निःप्रयोजनम् । सिद्धं कालादिनैकेन कार्यस्येष्टस्य तत्त्वतः ॥ ७३ कालादिभेदादर्थस्य भेदोस्त्विति हि तत्परिकल्पनं प्रयोजनवन्नान्यथा साधनास्तीति निःप्रयोजनमेव तत् । किं च—
कालाद्यन्यतमस्यैव कल्पनं तैर्विधीयतां । येषां कालादिभेदेपि पदार्थैकत्वनिश्चयः ॥ ७४ ॥ कालभेदेप्यभिन्नार्थः । कालकारकलिंग संख्यासाधनभेदेभ्यो भिन्नोऽर्थो न भवतीति स्वरुचिप्रकाशन - मात्रं ॥ कालादिभेदाद्भिन्नोर्थः इत्यत्रोपपत्तिमावेदयति ;
-
शब्दः कालादिभिर्भिन्नाभिन्नार्थप्रतिपादकः । कालादिभिन्नशब्दत्वात्तादृक्सिद्धान्यशब्दवत् ७५ सर्वस्य कालादिभिन्नशब्दस्यार्थप्रतिपादकत्वेनाभिमतस्य विवादाध्यासितत्वेन पक्षीकरणान्न केनचिद्धेतोर्व्यभिचारः । प्रमाणबाधितः पक्षः इति चेन्न, कालादिभिन्नशब्दस्याभिन्नार्थत्वग्राहिणः प्रमाणस्य भिन्नार्थग्राहिणा प्रमाणेन बाधितत्वात् ॥
समभिरूढमिदानीं व्याचष्टे ;
पर्यायशब्दभेदेन भिन्नार्थस्याधिरोहणात् । नयः समभिरूढः स्यात् पूर्ववच्चास्य निश्चयः ॥ ७६ ॥ विश्वदृश्वा सर्वश्वेति पर्यायभेदेपि शब्दो भिन्नार्थमभिप्रैति भविता भविष्यतीति च कालभेदाभिमननात् । क्रियते विधीयते करोति विदधाति पुष्यस्तिषाः तारको दुः आपो वाः अंभः सलिलमित्यादिपर्यायभेदेपि चाभिन्नमर्थं शब्दो मन्यते कारकादिभेदादेवार्थभेदाभिमननात् । समभिरूढः पुनः पर्यायभेदेपि भिन्नार्थानभिप्रैति ॥ कथं ?
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org