________________
२७४
तत्त्वार्थश्लोकवार्तिके
[सू० ३३
इंद्रः पुरंदरः शक्र इत्याद्या भिन्नगोचराः । शब्दा विभिन्नशब्दत्वाद्वाजिवारणशब्दवत् ॥७७॥ ननु चात्र भिन्नार्थत्वे साध्ये विभिन्नशब्दत्वहेतोरन्यथानुपपत्तिरसिद्धेति न मंतव्यं, साध्यनिवृत्तौ साधननिवृत्तेरत्र भावात् । भिन्नार्थत्वं हि व्यापकं वाजिवारणशब्दयोर्विभिन्नयोरस्ति गोशब्दे वाभिन्ने पि तदस्ति विभिन्नशब्दत्वं तद्व्याप्यं साधनं विभिन्नार्थ एव साध्येस्ति नो भिन्नार्थत्वे, ततोन्यथानुपपत्तिरस्त्येव हेतोः ॥
संप्रत्येवंभूतं नयं व्याचष्टे ;
तत्क्रियापरिणामोर्थस्तथैवेति विनिश्चयात् । एवंभूतेन नीयेत क्रियांतरपराङ्मुखः ॥ ७८ ॥ समभिरूढो हि शकनक्रियायां सत्यामसत्यां च देवराज्यार्थस्य शक्रव्यपदेशमभिप्रैति, पशोर्गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत्तथारूढेः सद्भावात् । एवंभूतस्तु शकनक्रियापरिणतमेवार्थं तत्क्रियाकाले शक्रमभिप्रैति नान्यदा || कुत इत्याह
यो यं क्रियार्थमाचष्टे नासावन्यत्क्रियं ध्वनिः । पठतीत्यादिशब्दानां पाठाद्यर्थत्वसंजनात् ७९ न हि कश्चिदक्रियाशब्दस्यास्ति गौरव इति जातिशब्दाभिमतानामपि क्रियाशब्दत्वात् आशु गाम्यश्व इति, शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव । शुचिभवनाच्छुक्लः नीलनान्नील इति देवदत्त इति यदृच्छाभिः शब्दाभिमताः अपि क्रियाशब्दा एव देव एव देयादिति देवदत्तः यज्ञदत्त इति संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाभिमताः क्रियाशब्दा एव । दंडोस्यास्तीति दंडी, विषाणमस्यास्तीति विषाणीत्यादि पंचती तु शब्दानां प्रवृत्तिः व्यवहारमात्रान्न निश्चयादित्ययं मन्यते ॥
एवमेते शब्दसमभिरूढैवंभूतनयाः सापेक्षाः सम्यक्, परस्परमनपेक्षास्तु मिथ्येति प्रतिपादयति ;इतोन्योन्यमपेक्षायां संतः शब्दादयो नयाः । निरपेक्षाः पुनस्ते स्युस्तदाभासाविरोधतः ॥ ८० ॥ के पुनरत्र सप्तसु नयेष्वर्थप्रधाना के च शब्दप्रधाना नया: : इत्याह; - तत्रर्जुसूत्रपर्यंताश्चत्वारोर्थनया मताः । त्रयः शब्दनयाः शेषाः शब्दवाच्यार्थगोचराः ||८१ ॥ कः पुनरत्र बहुविषयः कश्चाल्पविषयो नय इत्याह ;
-
पूर्वपूर्वी नयो भूमविषयः कारणात्मकः । परः परः पुनः सूक्ष्मगोचरो हेतुमानिह ॥ ८२ ॥ तत्र नैगमसंग्रहयोस्तावन्न संग्रहो बहुविषयो नैगमात्परः । किं तर्हि, नैगम एव संग्रहात्पूर्व इत्याहसन्मात्रविषयत्वेन संग्रहस्य न युज्यते । महाविषयताभावाभावार्थान्नैगमान्नुयात् ॥ ८३ ॥ यथा हि सति संकल्पस्तथैवासति वेद्यते । तत्र प्रवर्तमानस्य नैगमस्य महार्थता ॥ ८४ ॥ संग्रहाद्व्यवहारो बहुविषय इति विपर्ययमपाकरोति;
संग्रहाद्व्यवहारोपि सद्विशेषावबोधकः । न भूमविषयोशेपसत्समृहोपदर्शितः ॥ ८५ ॥ व्यवहारादृजुसूत्रो बहुविषय इति विपर्यासं निरस्यति ;
-
नर्जुसूत्रप्रभूतार्थो वर्तमानार्थगोचरः । कालत्रितयवृत्त्यर्थगोचराव्यवहारतः ॥ ८६ ॥ ऋजुसूत्राच्छब्दो बहुविषय इत्याशंकामपसारयति ;कालादिभेदतोप्यर्थमभिन्नमुपगच्छतः । नर्जुसूत्रान्महार्थोत्र शब्दस्तद्विपरीतवत् ॥ ८७ ॥ शब्दात्समभिरूढो महाविषय इत्यारेकां हंति ;शब्दात्पर्यायभेदेनाभिन्नमर्थमभीप्सिनः । न स्यात्समभिरूढोपि महार्थस्तद्विपर्ययः ॥ ८८ ॥ समभिरूढादेवंभूतो भूमविषय इति चाकूतमपास्यति ;क्रियाभेदेपि चाभिन्नमर्थमभ्युपगच्छतः । नैवंभूतः प्रभूतार्थो नयः समभिरूढः ॥ ८९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org