________________
प्रथमोऽध्यायः।
२७५
कथं पुनर्नयवाक्यप्रवृत्तिरित्याह;नैगमाप्रातिकूल्येन न संग्रहः प्रवर्तते । ताभ्यां वाच्यमिहाभीष्टा सप्तभंगीविभागतः ॥ ९० ॥ नैगमव्यवहाराभ्यां विरुद्धाभ्यां तथैव सा । सा नैगमर्जुसूत्राभ्यां तादृग्भ्यामविगानतः॥९१॥ सा शब्दानिगमादन्याधुक्तात् समभिरूढतः । सैवंभूताच सा ज्ञेया विधानप्रतिषेधगा ॥९२॥ संग्रहादेश्च शेषेण प्रतिपक्षेण गम्यताम् । तथैव व्यापिनी सप्तभंगी नयविदां मता ॥९३॥ विशेषरुत्तरैः सर्वैर्नयानामुदितात्मनाम् । परस्परविरुद्धाथैद्ववृत्तेर्यथायथम् ॥ ९४ ॥ प्रत्येया प्रतिपर्यायमविरुद्धा तथैव सा । प्रमाणसप्तभंगी च तां विना नाभिवाग्गतिः॥९५॥
इह तावन्नैगमस्य संग्रहादिभिः सह षभिः प्रत्येकं षट् सप्तमंग्यः, संग्रहस्य व्यवहारादिभिः सह वचनात् पंच, व्यवहारस्यर्जुसूत्रादिभिश्चतस्रः, ऋजुसूत्रस्य शब्दादिभिस्तिस्रः, शब्दस्य समभिरूढादिभ्यां द्वे, समभिरूढस्यैवंभूतेनेका, इत्येकविंशतिमूलनयसप्तभंग्यः पक्षप्रतिपक्षतया विधिप्रतिषेधकल्पनयावगंतव्याः । तथा नवानां नैगमभेदानां द्वाभ्यां परापरसंग्रहाभ्यां सह वचनादष्टादश सप्तभंग्यः, परापरव्यवहाराभ्यां चाष्टादश, ऋजुसूत्रेण नव, शब्दभेदैः षडिः सह चतु:पंचाशत् , समरूढेन सह नव, एवंभूतेन च नव, इति सप्तदशोत्तरं शतं । तथा संग्रहादिनयभेदानां शेषनयभेदैः सप्तभंग्यो योज्याः । एवमुत्तरनयसप्तभंग्यः पंचसप्तत्युत्तरशतं । तथोत्तरोत्तरनयसप्तभंग्योपि शब्दतः संख्याताः प्रतिपत्तव्याः । इति पर्यायं सप्तभंगी बहुधा वस्तुन्येकत्राविरोधेन विधिप्रतिषेधकल्पना प्रागवदुक्ताचार्यैः नान्या व्यापिन्यतिव्यापिनी वा नाप्यसंभविनी तथा प्रतीतिसंभवात् । तद्यथा-संकल्पनामात्रग्राहिणो नैगमस्य तावदाश्रयणाद्विधिकल्पना, प्रस्थादिसंकल्पमात्र प्रस्थाद्यानेतुं गच्छामीति व्यवहारोपलब्धेः । भाविनि भूतवदुपचारात्तथा व्यवहारः तंदुलेवोदनव्यवहारवदिति चेन्न, प्रस्थादिसंकल्प्यस्य तदानुभूयमानत्वेन भावित्वाभावात् प्रस्थादिपरिणामाभिमुखस्य काष्ठस्य प्रस्थादित्वेन भावित्वात् तत्र तदुपचारस्य प्रसिद्धिः । प्रस्थादिभावाभावयोस्तु तत्संकल्प्यस्य व्यापिनोनुपचरितत्वात् । न च तद्व्यवहारो मुख्य एवेति तत्प्रतिसंग्रहाश्रयणात्प्रतिषेधकल्पना न प्रस्थादिसंकल्पमात्र प्रस्थादिसन्मात्रस्य तथा प्रतीतेः असतः प्रतीतिविरोधादिति व्यवहाराश्रयणात् द्रव्यस्य तथोपलब्धेरद्रव्यस्यासतः सतो वा प्रत्येतुमशक्तेः पर्यायस्य तदात्मकत्वादन्यथा द्रव्यांतरत्वप्रसंगादिति ऋजुसूत्राश्रयणात्पर्यायमात्रस्य प्रस्थादित्वेनोपलब्धेः, अन्यथा प्रतीत्यनुपपत्तेरिति शब्दाश्रयणात् कालादिभेदाद्भिन्नस्यार्थस्य प्रस्थादित्वादन्यथातिप्रसंगात् । इति समभिरूढाश्रयणात् पर्यायभेदेन भिन्नस्यार्थस्य प्रस्थादित्वात् अन्यथातिप्रसंगादिति, एवंभूताश्रयणात् प्रस्थादिक्रियापरिणतस्यैवार्थस्य प्रस्थादित्वादन्यथातिप्रसंगादिति । तथा स्यादुभयं क्रमार्पितोभयनयार्पणात् , स्थादवक्तव्यं सहार्पितोभयनयाश्रयणात् , अवक्तव्योत्तराः शेषास्त्रयो भंगा यथायोगमुदाहार्या, इत्येताः षट्सप्तभंग्यः । तथा संग्रहाश्रयतो विधिकल्पना स्यात् सदेव सर्वमसतोऽप्रतीतेः खरशृंगवदिति तत् प्रतिषेधकल्पना व्यवहाराश्रयणान्न स्यात् , सर्व सदेव द्रव्यत्वादिनोपलब्धेद्रादिरहितस्य सन्मात्रस्यानुपलब्धेश्चेति ऋजुसूत्राश्रयणात् प्रतिषेधकल्पना न सर्व स्यात् सदेव वर्तमानाद्रूपादन्येन रूपेणानुपलब्धेरन्यथा अनाद्यनंतसत्तोपलंभप्रसंगादिति शब्दाश्रयणात्प्रतिषेधकल्पना न सर्व स्यात्सदेव कालादिभेदेन भिन्नस्यार्थस्योपलब्धेरन्यथा कालादिभेदानर्थक्यप्रसंगादिति समभिरूढाश्रया प्रतिषेधकल्पना न सर्व सदेव स्यात् , पर्यायभेदेन भिन्नस्यार्थस्योपलब्धेरन्यथैकपर्यायत्वप्रसंगात् इति । एवंभूताश्रयात् प्रतिषेधकल्पना न सर्व सदेव तक्रियापरिणतस्यैवार्थस्य तथोपपत्तेरन्यथा क्रियासंकरप्रसंगात् इति । तथोभयनयक्रमाक्रमार्पणादुभयावक्तव्यकल्पना विधिनयाश्रयणात् सहोभयनयाश्रयणाच प्रतिषेधावक्तव्यकल्पना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org