________________
२७६ तत्त्वार्थश्लोकवार्तिके
[सू० ३३ क्रमाक्रमोभयनयाश्रयणात्तदुभयावक्तव्यकल्पनेति पंचसप्तभंग्यः । तथा व्यवहारनयाद्विधिकल्पना सर्व द्रव्याद्यात्मकं प्रमाणप्रमेयव्यवहारान्यथानुपपत्तेः कल्पनामात्रेण तद्व्यवहारे खपरपक्षव्यवस्थापननिराकरणयोः परमार्थतोनुपपत्तेरिति तं प्रति तावदृजुसूत्राश्रयाप्रतिषेधकल्पना, न सर्व द्रव्याद्यात्मकं पर्यायमात्रस्योपलब्धेरिति । शब्दसमभिरूद्वैवंभूताश्रयात् प्रतिषेधकल्पना न सर्व द्रव्याद्यात्मकं, कालादिभेदेन पर्यायभेदेन क्रियाभेदेन च भिन्नस्यार्थस्योपलब्धेः इति । प्रथमद्वितीयभंगौ पूर्ववदुत्तरे भंगा इति चतस्रः सप्तभंग्यः । प्रतिपत्तव्याः । तथर्जुसूत्राश्रयाद्विधिकल्पना सर्व पर्यायमात्रं द्रव्यस्य क्वचिदवस्थितेरिति तं प्रति शब्दाश्रयात्प्रतिषेधकल्पना । समभिरूढैवंभूताश्रयाच न सर्व पर्यायमानं कालादिभेदेन पर्यायभेदेन क्रियाभेदेन च भिन्नस्य पर्यायस्योत्पत्तिमत्त्वादिति । द्वौ भंगौ क्रमाक्रमार्पितोभयनयास्तृतीयचतुर्थभंगाः त्रयोन्ये प्रथमद्वितीयतृतीया एवावक्तव्योत्तरा यथोक्तनययोगादवसेया इति तिस्रः सप्तभंग्यः । तथा शब्दनयाश्रयात् विधिकल्पना सर्व कालादिभेदाद्भिन्नं विवक्षितकालादिकस्यार्थस्याविवक्षितकालादित्वानुपपत्तेरिति । तं प्रति समभिरूद्वैवंभूताश्रया प्रतिषेधकल्पना न सर्व कालादिभेदादेव भिन्नं पर्यायभेदात् क्रियाभेदाच भिन्नस्यार्थस्य प्रतीतेः इति मूलभंगद्वयं पूर्ववत् परे पंच भंगाः प्रत्येया इति द्वे सप्तमंन्यौ । तथा समभिरूढ्याश्रया विधिकल्पना सर्व पर्यायभेदाद्भिन्नं विवक्षितपर्यायस्याविवक्षितपर्यायत्वेनानुपलब्धेरिति तं प्रत्येवंभूताश्रया प्रतिषेधकल्पना न सर्व पर्यायभेदादेव भिन्नं क्रियाभेदेन पर्यायस्य भेदोपलब्धेरिति । एतत्संयोगजाः पूर्ववत्परे पंचभंगाः प्रत्येतव्या इत्येका सप्तभंगी ! एवमेता एकविंशतिसप्तभंग्यः वैपरीत्येनापि तावत्यः प्रपंचतोभ्यूह्या । तथोत्तरनयसप्तभंग्यः सर्वाः परस्परविरुद्धार्थयोर्द्वयोर्नवभेदयोरेकतरस्य खविषयविधौ तत्प्रतिपक्षस्य नयस्यावलंबनेन तत्प्रतिषेधे मूलभंगद्वयकल्पनया यथोदितन्यायेन तदुत्तरभंगकल्पनया च प्रतिपर्यायमवगंतव्याः । पूर्वोक्तप्रमाणसप्तभंगीवत्तद्विचारश्च कर्तव्यः । प्रतिपादितनयसप्तभंगीष्वपि प्रतिभंगं स्यात्कारस्यैवकारस्य च प्रयोगसद्भावात् । तासां विकलादेशत्वादे..."सप्तभंगीतः सकलादेशात्मिकाया व्यवस्थापनात् । येन च कारणेन सर्वनयाश्रयाः सप्त वा वचनमार्गाः प्रवर्तते ॥
सर्वे शब्दनयास्तेन परार्थप्रतिपादने । स्वार्थप्रकाशने मातुरिमे ज्ञाननयाः स्थिताः ॥९६॥ वै नीयमानवस्त्वंशाः कथ्यंतेर्थनयाश्च ते । त्रैविध्यं व्यवतिष्ठते प्रधानगुणभावतः ॥९७ ॥ किं पुनरमीषां नयानामेकस्मिन्नर्थे प्रवृत्तिराहोखिप्रतिविशेषोस्तीत्याह;यत्र प्रवर्तते स्वार्थे नियमादुत्तरो नयः । पूर्वपूर्वो नयस्तत्र वर्तमानो न वार्यते ॥ ९८ ॥ सहस्रं च शती यद्वत्तस्यां पंचशती मता । पूर्वसंख्योत्तरत्वाभ्यां संख्यायामविरोधतः ॥९९॥ परः परः पूर्वत्र पूर्वत्र कस्मान्नयो न प्रवर्तत इत्याह;पूर्वत्र नोत्तरा संख्या यथायातानुवर्त्यते । तथोत्तरनयः पूर्वनयार्थसकले सदा ॥ १००॥ प्रमाणनयानामपि परस्परविषयगमनविशेषेण विशेषितश्चेति शंकायामिदमाह;नयार्थेषु प्रमाणस्य वृत्तिः सकलदेशिनः । भवेन्न तु प्रमाणार्थे नयानामखिलेषु सा॥१०१॥ किमेवं प्रकारा एव नयाः सर्वेप्याहुस्तद्विशेषाः संति ? अपरेपीत्याह;संक्षेपेण नयास्तावब्याख्यातास्तत्र सूचिताः । तद्विशेषाः प्रपंचेन संचिंत्या नयचक्रतः॥१०२॥ एवमधिगमोपायभूताः प्रमाणनयाः व्याख्याताः (य) ।
इति नयसूत्रस्य व्याख्यानं समाप्तं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org