________________
•
प्रथमोऽध्यायः ।
तत्त्वार्थाधिगमभेदः ।
तत्त्वार्थाधिगमभेदमाह;
तत्त्वार्थाधिगमस्तावत्प्रमाणनयतो मतः । सर्वः स्वार्थः परार्थो वा ''''' अधिगच्छत्यनेन तत्त्वार्थानधिगमयत्यनेनेति वाधिगमः खार्थे ज्ञानात्मकः इति प्रत्येयम् ॥
Jain Education International
For Private & Personal Use Only
२७७
and ...
'सितः ॥ १ ॥
परार्थो वचनात्मक
परार्थाधिगमस्तत्रानुद्भवद्रागगोचरः । जिगीषुगोचरखेति द्विधा शुद्धधियो विदुः ॥ २ ॥ सत्यवाग्भिर्विधातव्यः प्रथमस्तत्त्ववेदिभिः । यथा कथंचिदित्येष चतुरंगो न संमतः ॥ ३ ॥ प्रवक्राज्ञाप्यमानस्य प्रसभज्ञानपेक्षया । तत्त्वार्थाधिगमं कर्तुं समर्थो .....
11 8 11
विश्रुतः'''' ...स्वयं प्रभुः । तादृशान्यभसामीता भावेपि प्रतिबोधकः ॥ ५ ॥ साभिमानजनारभ्यश्चतुरंगो निवेदितः । तज्ज्ञैरन्यतमापायेप्यर्थापरिसमाप्तितः ॥ ६ ॥ जिगीषयां विना तावन्न विवादः प्रवर्तते । ताभ्यामेव जयोन्योन्यं विधातुं न च शक्यते ७ वादिनो स्पर्द्धया वृद्धिरभिमानः प्रवृद्धितः । सिद्धे वात्राकलंकस्य महतो न्यायवेदिनः ॥ ८ ॥ स्वप्रजापरिपाकादिप्रयोजनेति केचन । तेषामपि विना मानाद्वयोर्यदि स संमतः ॥ ९ ॥ तदा तत्र भवेद्व्यर्थः सत्प्राश्निकपरिग्रहः ।
११ ॥
तयोरन्यतमस्य स्यादभिमानः कदाचन । तन्निवृत्त्यर्थमेवेष्टं सभ्यापेक्षणमत्र चेत् ॥ राजापेक्षणमप्यस्तु तथैव चतुरंगता | वादस्य भाविनीमिष्टामपेक्षां विजिगीषताम् ॥ सभ्यैरनुमतं तत्त्वज्ञानं दृढतरं भवेत् । इति ते वीतरागाभ्यामपेक्षा तत एव चेत् ॥ १२ ॥ तच्चेन्महेश्वरस्यापि स्वशिष्यप्रतिपादने । सभ्यापेक्षणमप्यस्तु व्याख्याने च भवादृशां ॥ १३ ॥ स्वयं महेश्वरः सभ्यो मध्यस्थस्तत्त्ववित्त्वतः । प्रवक्ता च विनेयानां तत्त्वख्यापनतो यदि ॥ १४ तदान्यपि प्रवक्तैवं भवेदिति वृथा तव । प्राश्निकापेक्षणं वा ॥ १५ ॥ यथा चैकः प्रवक्ता च मध्यस्थोभ्युपगम्यते । तथा सभापतिः किं न प्रतिपाद्यः स एव ते १६ मर्यादातिक्रमाभाव हेतुत्वाद्बोध्यशक्तितः । प्रसिद्धप्रभवा तादृग्विनेयजनवद्ध्रुवम् ॥ १७ ॥ स्वयं बुद्धः प्रवक्ता स्यात् बोध्यसंदिग्धधीरिह । तयोः कथं सहैकत्र सद्भाव इति चाकुलं ॥ १८ प्राश्निकत्वप्रवक्तृत्वसद्भावस्यापि हानितः । स्वपक्षरागौदासीनविरोधस्यानिवारणात् ।। १९ ।। पूर्व वक्ता बुधः पश्चात्सभ्यो न व्याहतो यदि । तदा प्रबोधको बोध्यस्तथैव न विरुध्यते २० वक्तृवाक्यानुवक्तादि स्वस्य स्यात्प्रतिपादकः । तदर्थे बुध्यमानस्तु प्रतिपाद्यो न मन्यताम् ॥ २१ तथैकांगोपि वादः स्याच्चतुरंगो विशेषतः । पृथक् सभ्यादिभेदानामनपेक्षाच्च सर्वदा || २२ || यथा वाद्यादयो लोके दृश्यंते तेन्यभेदिनः । तथा न्यायविदामिष्टा व्यवहारेषु ते यदि || २३ तदभावात्स्वयं वक्तुः सभ्या भिन्ना भवंतु ते । सभापतिश्च तद्बोध्यजनवंतश्च नेष्यते ॥ २४ ॥ जिगीषाविरहात्तस्य तत्त्वं बोधयतो जनान् । न सभ्यादिप्रतीक्षास्ति यदि वादे के सा भवेत् २५ ततो वादो जिगीषायां वादिनोः संप्रवर्तते । सभ्यापेक्षणतो जल्पवितंडावदिति स्फुटं ॥ २६ ॥ तदपेक्षा च तत्रास्ति जयेतर विधानतः । तद्वदेवान्यथा तत्र सा न स्याद विशेषतः ॥ २७ ॥ सिद्धो जिगीषतो वादश्चतुरंगस्तथा सति । स्वाभिप्रेतव्यवस्थानाल्लोकप्रख्यातवादवत् ॥ २८ ॥
१० ॥
www.jainelibrary.org