________________
प्रथमोऽध्यायः ।
२६७ शब्दार्थ इत्येकांतो विपर्ययः स्वरूपविधिमंतरेणान्यापोहस्यासंभवात् । वऋभिप्रायारूढस्यार्थस्य विधिरेवान्यापोह इत्थं इति चेत् , तथैव बहिरर्थस्य विधिरस्तु विशेषाभावात् । तेन शब्दस्य संबंधाभावान्न शब्दात्तद्विधिरिति चेत्, तत एव वक्रभिप्रेतस्याप्यर्थस्य विधिर्मा भूत् । तेन सह कार्यकारणभावस्य संबंधस्य सहायाच्छब्दस्य तद्विधायित्वमिति चेन्न, विवक्षामंतरेणापि सुप्ताद्यवस्थायां शब्दस्य प्रवृत्ति• दर्शनात्कार्यत्वाद्यवस्थानात् । प्रतिक्षिप्तश्चान्यापोहैकांतः पुरस्तादिति तर्कितं । नियोगो भावना धात्वर्थी विधियंत्रारूढादिरन्यापोहो वा यदा कैश्चिदेकांतेन विषयो वाक्यस्यानुमन्यते तदा तज्जनितं वेदनं श्रुताभासं प्रतिपत्तव्यं, तथा वाक्यार्थनिर्णीतेर्विधातुं दुःशकत्वादिति ।।
कः पुनरवधिविपर्यय इत्याह;• भवं प्रतीत्य यो जातो गुणं वा प्राणिनामिह । देशावधिः स विज्ञेयो दृष्टिमोहाद्विपर्ययः११३
सत्संयमविशेषोत्थो न जातु परमावधिः । सर्वावधिरपि व्यस्तो मनःपर्ययबोधवत् ॥११४ ॥
परमावधिः सर्वावधिश्च न कदाचिद्विपर्ययः सत्संयमविशेषोत्थत्वात् मनःपर्ययवदिति । देशावधिरेव कस्यचिन्मिथ्यादर्शनाविर्भावे विपर्ययः प्रतिपाद्यते । किं पुनः कर्तुं प्रमाणात्मकसम्यग्ज्ञानविधौ प्रकृते विपर्ययं ज्ञानमनेकधा मत्यादि प्ररूपितं सूत्रकारैरित्याह;
इति प्रमाणात्मविबोधसंविधौ विपर्ययज्ञानमनेकधोदितम् ।
विपक्षविक्षेपमुखेन निर्णयः सुबोधरूपेण विधातुमुद्यतः ॥ ११५ ॥ पूर्व सम्यगवबोधस्वरूपावधिरूपमुखेन निर्णयं विधाय विपक्षविक्षेपमुखेनापि तं विधातुमुद्यतैरनेकधा विपर्ययज्ञानमुदितं वादिनोभयं कर्तव्यं स्वपरपक्षसाधनदूषणमिति न्यायानुसरणात् , खविधिसामर्थ्यात् प्रतिषेधस्य सिद्धेस्तत्सामर्थ्याद्वा स्वपक्षविधिसिद्धेनौभयवचनमर्थवदिति प्रवादस्यावस्थापितुमशक्तेः, सर्वत्र सामर्थ्य सिद्धस्यावचनप्रसंगात् । खेष्टव्याघातस्यानुषंगात् । क्वचित्सामर्थ्यसिद्धस्यापि वचने स्याद्वादन्यायस्यैव सिद्धेः सर्व शुद्धम् ॥
इति तत्त्वार्थश्लोकवार्तिकालंकारे प्रथमस्याध्यायस्य चतुर्थमाह्निकम् ॥
नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवंभूता नयाः ॥ ३३ ॥ किं कृत्वाधुना किं च कर्तुमिदं सूत्रं ब्रवीतीत्याह;निर्देश्याधिगमोपायं प्रमाणमधुना नयान् । नयैरधिगमेत्यादि प्राह संक्षेपतोखिलान् ॥१॥
प्रमाणनयैरधिगम इत्यनेन प्रमाणं नयाश्चाधिगमोपाया इत्युद्दिष्टं । तत्र प्रमाणं तत्त्वार्थाधिगमोपायं प्रपंचतो निर्देश्याधुना नयांस्तदधिगमोपायानखिलान् संक्षेपतोन्यथा च व्याख्यातुमिदं प्राह भगवान् । कथं ? नयसामान्यस्य तल्लक्षणस्यैव संक्षेपतो विभागस्य विशेषलक्षणस्य च विस्तरतो नयविभागस्य अतिविस्तरतो नयप्रपंचस्य चात्र प्रतिपादनात् सर्वथा नयप्ररूपणस्य सूत्रितत्वादिति ब्रूमहे ।। तत्र सामान्यतो नयसंख्यां लक्षणं च निरूपयन्नाह;सामान्यादेशतस्तावदेक एव नयः स्थितः । स्याद्वादप्रविभक्तार्थविशेषव्यंजनात्मकः ॥२॥
सामान्यादेशात्तावदेक एव नयः स्थितः सामान्यस्यानेकत्वविरोधात् । स च स्याद्वादप्रविभक्तार्थविशेषव्यंजको नय इति वचनात् । ननु चेदं हेतुर्लक्षणवचनमिति केचित् । तदयुक्तं । हेतोः स्याद्वादेन प्रविभक्तस्यार्थस्य सकलस्य विशेषं व्यंजयितुमसमर्थत्वादन्यत्रोपचारात् । हेतुजनितस्य बोधस्य व्यंजकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org