________________
२६६
तत्त्वार्थश्लोकवार्तिके
[सू० ३२ कार्य नियोग इत्यप्यसंभवि, नियोगाद्यसंभवे तद्विरोधात् । कार्यसहिता प्रेरणा नियोग इत्यप्यनेन निरस्तं । कार्यस्यैवोपचारतः प्रवर्तकत्वं नियोग इत्यप्यसारं; नियोज्यादिनिरपेक्षस्य कार्यस्य प्रवर्तकत्वोपचारायोगात्, कदाचित्कचित्परमार्थतस्तस्य तथानुपलंभात् । कार्यप्रेरणयोः संबंधो नियोग इति वचनमसंगतं, ततो भिन्नस्य संबंधस्य संबंधिनिरपेक्षस्य नियोगत्वेनाघटनात् । संबंधात्मनः संबंधस्य नियोगत्वमित्यपि दुरन्वयं, प्रेर्यमाणपुरुषनिरपेक्षयोः संबंधात्मनोरपि कार्यप्रेरणयोः नियोगत्वानुपपत्तेः । . समुदायनियोगवादोप्यनेन प्रत्याख्यातः । कार्यप्रेरणास्वभावनिर्मुक्तस्तु नियोगो न विधिवादमतिशेते । यत्पुनः खर्गकामः पुरुषोमिहोत्रादिवाक्यनियोगे सति यागलक्षणं विषयमारूढमात्मानं मन्यमानः प्रवर्तत इति यंत्रारूढनियोगवचनं तदपि न परमात्मवादे प्रतिकूलं, पुरुषाभिमानमात्रस्य नियोगत्ववचनात् तस्य चाविद्योदयनिबंधनत्वात् । भोग्यरूपो नियोग इति चायुक्तं, नियोक्तृप्रेरणाशून्यस्य भोग्यस्य तदभावानुपपत्तेः । पुरुषखभावोपि न नियोगो घटते, तस्य शाश्वतिकत्वेन नियोगस्य शाश्वतिकत्वप्रसंगात् । पुरुषमात्रविधेरेव तथा विधाने वेदांतवादिपरिसमाप्तेः । कुतो नियोगवादो नामेति ? तदेतदसारं, सर्वथा विधेरपि वाक्यार्थानुपपत्तेः । सोपि हि शब्दादेर्द्रष्टव्यतादिव्यवच्छेदेन रहितो यदीष्यते तदा न कदाचित्प्रवृत्तिहेतुः, प्रतिनियतविषयविधिनांतरीयकत्वात् प्रेक्षावत्प्रवृत्तेः तस्य वा तद्विषयपरिहाराविनाभावित्वात् कटः कर्तव्य इति यथा । न हि कटकर्तव्यताविधिरतव्यवच्छेदमंतरेण व्यवहारमार्यमवतारयितुं शक्यः । परपरिहारसहितो विधिः शब्दार्थ इति चेत् , तर्हि विधिप्रतिषेधात्मकः शब्दार्थ इति कुतो विध्येकांतवादप्रतिष्ठा प्रतिषेधैकांतवादवत् । स्यान्मतं, परपरिहारस्य गुणीभूताद्विधेरेव प्रवृत्त्यंगत्वे प्राधान्याद्विधिः शब्दार्थ इति । कथमिदानी शुद्धकार्यादिरूपनियोगव्यवस्थितिर्न स्यात् ? कार्यस्यैव शुद्धस्य प्रवृत्त्यंगतया प्रधानत्वोपपत्तेः, नियोज्यादेः सतोपि गुणीभावात् । तद्वप्रेरणादिखभावनियोगवादिनां प्रेरणादौ प्रधानताभिप्रायात् । तदितरस्य सतोपि गुणीभावाध्यवसायादुक्तो नियोगः शब्दार्थः । शुद्धकार्यप्रेरणादिषु खाभिप्रायात् कस्यचित्प्रधानभावेपि पराभिप्रायात्प्रधानत्वाभावादन्यतरस्यापि खभावस्याव्यवस्थितेनैकस्यापि शब्दार्थत्वमिति चेत् , तर्हि पुरुषाद्वैतवाद्याशयवशाद्विधेः प्रधानत्वेपि तथागतमताश्रयणादप्रधानताघटनात् सोपि न प्रतिष्ठामटाट्येत विप्रतिपत्तिसद्भावाविशेषात् । प्रमाणरूपश्च यदि विधिः तदा प्रमेयमन्यद्वाच्यं । तत्खरूपमेव प्रमेयमितिचेत् , कथमस्यार्थद्वयरूपता न विरुध्यते ? कल्पनयेतिचेत् , तमुन्यापोहः शब्दार्थः कथं प्रतिषिध्यते ? प्रमाणत्वव्यावृत्त्या विधेः प्रमाणत्ववचनादप्रमेयव्यावृत्त्या च प्रमेयत्वपरिकल्पनात् । पदार्थखरूपविधायकत्वमंतरेणान्यापोहमात्रविधायकस्य शब्दस्य कचित्प्रवर्तकत्वायोगादन्यापोहो न शब्दार्थ इतिचेत्, तर्हि पदार्थस्वरूपविधायकस्यापि शब्दस्यान्यापोहानभिधायिनः कथमन्यपरिहारेण कचित्प्रवृत्तिनिमित्तत्वसिद्धिः येन विधिमात्रं शब्दार्थः स्यात् । परमपुरुष एव विधिः स एव च प्रमाणं प्रमेयं चाविद्यावशादाभासते प्रतिभासमात्रव्यतिरेकेण व्यावृत्त्यादेरप्यसंभवादित्यपि दत्तोत्तरं, प्रतिभासव्यतिरिक्तस्य प्रतिभास्यस्यार्थस्य व्यवस्थापितात्वात् । प्रमेयरूपो विधिरिति वचनमयुक्तं, प्रमाणाभावे प्रमेयरूपत्वायोगात्तस्यैव च द्वयरूपत्वविरोधात् । कल्पनावशाद्विधेयरूपत्वे अन्यापोहवादानुषंगस्याविशेषात् । प्रमाणप्रमेयोभयरूपो विधिरित्यप्यनेन निरस्तं भवतु । अनुभयरूपोऽसावितिचेत् , खरशृंगादिवदवस्तुतापत्तिः कथमिव तस्य निवार्यतां? तथा यंत्रारूढो वाक्यार्थ इत्येकांतोपि विपर्यय एवान्यापोहमंतरेण तस्य प्रवर्तकत्वायोगाद्विधिवचनवत् । एतेन भोग्यमेव पुरुष एव वाक्यार्थ इत्यप्येकान्तो निरस्तः, योगविशेषतया च यंत्रारूढादेः प्रतिविहितत्वात् । न पुनस्तत्प्रतिविधानेतितरामादरोस्माकमित्युपरम्यते । तथान्यापोह एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |