________________
प्रथमोऽध्यायः !
तत्सिद्धौ च स्वस्य खलक्षणदर्शनप्रभवत्वसिद्धिरिति नान्यतरस्यापि तयोर्व्यवस्था । स्वलक्षणदर्शनप्रभवत्वं नीलादिविकल्पस्य स्वसंवेदनादेव सिद्धं सर्वेषां विकल्पस्य प्रत्यात्मवेद्यत्वात् ततो नान्योन्याश्रय इति चेत्, तर्हि भावाभावोभयादिविकल्पस्याप्यलिंगजस्य शब्दजस्य च भावादिदर्शनप्रभवत्वं स्वसंवेदनादेव कुतो न सिद्ध्येत् ? सर्वथा विशेषाभावात् । तदयं नीलाद्यर्थं पारमार्थिकमिच्छता चाद्यमवितथोपगंतुमर्हत्येवेति तदनुमाने सप्त हेतवः स्युः । यतश्चैवं कृत्तिकोदयादेः कथंचित्प्रतीत्यतिक्रमेण खभावहेतुत्वं ब्रुवतः सर्वः स्वभावहेतुः स्यादेक एव । संबंधभेदात्तद्भेदं साधयतः सामान्यतो विशेषतश्च खेष्टलिंगसंख्याक्षतिः । विषयभेदाच्च तद्भेदमिच्छतः सप्तविधो हेतुरर्थस्यास्तित्वादिसप्त रूपतयानुमेयत्वोपपत्तेः ॥
तस्मात्प्रतीतिमाश्रित्य हेतुं गमकमिच्छता । पक्षधर्मत्वशून्योस्तु गमकः कृत्तिकोदयः ॥ १५५॥ पल्वलोदकनैर्मल्यं तदागस्त्युदये स च । तत्र हेतुः सुनिर्णीतः पूर्व शरदि सन्मतः ॥ १५६ ॥ चंद्रादौ जलचंद्रादि सोपि तत्र तथाविधः । छायादिपादपादौ च सोपि तत्र कदाचन । १५७ पर्णकोयं स्वसद्धेतुर्बलादाहेति दूरगे । कार्यकारणभावस्याभावेपि सहभाविता ।। १५८ ॥ पित्रोर्ब्राह्मणता पुत्रब्राह्मण्ये पक्षधर्मकः । सिद्धो हेतुरतो नायं पक्षधर्मत्वलक्षणः ।। १५९ ।।
२०१
नन्वाकाशकालादेर्धर्मित्वे भविष्यच्छकटोदय पल्वलोदकनैर्मल्यादेः साध्यत्वे कृत्तिकोदयत्वागस्त्युदयादेर्हेतुत्वे पक्षधर्मत्वयुक्तस्यैव हेतुत्वमतो नापक्षधर्मत्वलक्षणो हेतुः कश्चिदिति चेत्, किमेवं चाक्षुषस्वादिः शब्दानित्यत्वहेतुर्न स्यात् ? न हि जगतो वा धर्मचाक्षुषत्वं महानसधूमः पक्षधर्मः । तथाहिब्दानित्ययोगि जगच्चाक्षुषत्वयोगित्वात् महोदधि जगन् महानसधूमयोगित्वादिति कथं न चाक्षुषत्वं शब्दानित्यत्वं साधयेत् महानसधूमो वा महोदधौ वह्निं तथा त्वया संभवादिति चेत् कृत्तिकोदयादेः कुतोन्वयसंभवः पूर्वोपलब्धाकाशादेर्दृष्टांतस्य सद्भावादन्वयः सिद्ध्यतीति चेत्, पूर्वोपलब्धजगतो दृष्टांतस्य सिद्धेश्वाक्षुषत्वयोगित्वादेरन्वयोस्तु विशेषाभावात् तथाप्यस्याविनाभावासंभवाद्गमकत्वे विनाभावखभावमेव पक्षधर्मत्वं गमकत्वांगं लिंगस्य लक्षणं । तथा च न धर्मधर्मिसमुदायः पक्षो नापि तत्तद्धर्मी तद्धर्मत्वस्याविनाभावस्वभावत्वाभावात् । किं तर्हि, साध्य एव पक्ष इति प्रतिपत्तव्यं तद्धर्मत्वस्यैवाविनाभावित्वनियमादियुच्यते ॥
साध्यः पक्षस्तु नः सिद्धस्तद्धर्मो हेतुरित्यपि । तादृक्षपक्षधर्मत्वसाधनाभाव एव वै ॥ १६० ॥
कथं पुनः साध्यस्य धर्मस्य धर्मो हेतुस्तस्याधर्मित्वप्रसंगादिति चेत् न, तेनाविनाभावात्तस्य धर्म इत्यभिधानात् । न हि साध्याधिकरणत्वात्साध्यधर्मः हेतुर्येन साध्यधर्मा धर्मी स्यात् । ततः साध्याविनाभावी हेतुः पक्षधर्म इति स्याद्वादिनामेव पक्षधर्मत्वं हेतोर्लक्षणमविरुद्धं स्पष्टमविनाभावित्वस्यैव तथाभिधानात् । तच्च कृत्तिकोदयादिषु साध्यधर्मिण्यसत्स्वपि यथा प्रतीतिर्विद्यत एवेति किमाकाशादिधर्मपरिकल्पनया प्रतीत्यतिलंघनापरयातिप्रसंगिन्या । तथा च न परिकल्पितं पक्षधर्मत्वं हेतोर्लक्षणं नाप्यन्वय इत्यभि - धीयते ॥
निःशेषं सात्मकं जीवच्छरीरं परिणामिना । पुंसा प्राणादिमत्त्वस्य त्वन्यथानुपपत्तित: १६१ सपक्ष सत्त्वशून्यस्य हेतोरस्य समर्थनात् । नूनं निश्चीयते सद्भिर्नान्वयो हेतुलक्षणम् ।। १६२ ।। न चादर्शनमात्रेण व्यतिरेकः प्रसाध्यते । येन संशयहेतुत्वं रागादौ वक्तृतादिवत् ॥ १६३ ॥ आत्माभावो हि भस्मादौ तत्कार्यस्यासमीक्षणात् । सिद्धः प्राणाद्यभावश्च व्यतिरेकविनिश्चयः १६४
२६
Jain Education International
For Private & Personal Use Only
-श
www.jainelibrary.org