________________
तत्त्वार्थश्लोकवार्तिके
[सू० १३ योग्यताख्यश्च संबंधः सर्वसंबंधभेदगः । स्यादेकस्तद्वशाल्लिंगमेकमेवोक्तलक्षणम् ॥ १४२ ॥ विशेषतोपि संबंधद्वयस्यैवाव्यवस्थितेः । संबंधषवन्नातो लिंगेयत्ता व्यवस्थितेः ॥१४३॥ तद्विशेषविवक्षायामपि संख्यावतिष्ठते । न लिंगस्य परैरिष्टा विशेषाणां बहुत्वतः ॥ १४४ ॥ संबंधत्वसामान्यं सर्वसंबंधभेदानां व्यापकं न योग्यताख्यः संबंध इत्यचोद्यं, प्रत्यासत्तेरिह योग्यतायाः सामान्यरूपयोः खयमुपगमात् । सैवान्यथानुपपत्तिरित्यपि न मंतव्यं प्रत्यासत्तिमात्रे कचित्सत्यपि तदभावात् । न हि द्रव्यक्षेत्रकालभावप्रत्यासत्तयः सर्वत्र कार्यकारणभावसंयोगादिरूपाः सत्योप्यविनाभावरहिता न दृश्यते ततः संबंधवशादपि सामान्यतोन्यथानुपपत्तिरेकैवेति तल्लक्षणमेकं लिंगमनुमंतव्यं । विशेषतोपि संबंधद्वयस्य तादात्म्यतजन्माख्यस्याव्यवस्थानात् । संयोगादिसंबंधषटूवत्तदव्यवस्थाने च कुतो लिंगेयत्तानियम इति तद्विशेषविवक्षायामपि न परैरिष्टा लिंगसंख्यावतिष्ठते विशेषाणां बहुत्वात् । परेष्टसंबंधसंख्यामतिकामंतो हि संबंधविशेषास्तदिष्टलिंगसंख्यां विघटयंत्येव खेष्टविशेषयोः शेषविशेषाणामंतर्भावयितुमशक्तेः विषयस्य विधिप्रतिषेधरूपस्य भेदाल्लिंगभेदस्थितिरित्यपीष्टं तत्संख्याविरोध्येव । यस्मात्यथैवास्तित्वनास्तित्वे भिद्यते गुणमुख्यतः । तथोभयं क्रमेणेष्टमक्रमेण त्ववाध्यता ॥ १४५॥ अवक्तव्योत्तरा शेषास्त्रयो भंगाश्च तत्त्वतः । सप्त चैवं स्थिते च स्युस्तद्वशाः सप्तहेतवः ॥१४६॥ विरोधान्नोभयात्मादिरर्थश्चेन्न तथेक्षणात् । अन्यथैवाव्यवस्थानात्प्रत्यक्षादिविरोधतः ॥१४७॥ निराकृतनिषेधो हि विधिः सर्वात्मदोषभाक । निर्विधिश्च निषेधः स्यात्सर्वथा स्वव्यथाकरः१४८
ननु च यथा भावाभावोभयाश्रितस्त्रिविधो धर्मः शब्दविषयोनादिवासनोद्भूतविकल्पपरिनिष्ठित एव न बहिः खलक्षणात्मकस्तथा स्यादवक्तव्यादि परमार्थतोसन्नेवार्थक्रियारहितत्वान्मनोराज्यादिवत् न च सर्वथा कल्पितोर्थो मानविषयो नाम येन तद्भेदात्सप्तविधो हेतुरापाद्यते इत्यत्रोच्यते
नानादिवासनोद्भूतविकल्पपरिनिष्ठितः । भावाभावोभयाद्यर्थ स्पष्टं ज्ञानेवभासनात् ॥१४९॥
शब्दज्ञानपरिच्छेद्योपि पदार्थोस्पष्टतयावभासमानोपि नैकांततः कल्पनारोपितखार्थक्रियाकारित्वान्निधिमनुभूयते किं पुनरध्यक्षे स्पष्टमवभासमानो भावाभावोभयादिरर्थ इति परमार्थसन्नेव ॥
भावाभावात्मकोनार्थः प्रत्यक्षेण यदीक्षितः । कथं ततो विकल्पः स्याद्भावाभावावबोधनः१५० नीलदर्शनतः पीतविकल्पो हि न ते मतः । भ्रांतेरन्यत्र तत्त्वस्य व्यवस्थितिमदीप्सितः॥१५१॥ तद्वासनाप्रबोधाचेद्भावाभावविकल्पना । नीलादिवासनोबोधात्तद्विकल्पवदिष्यते ॥ १५२ ॥ भावाभावेक्षणं सिद्धं वासनोद्बोधकारणं । नीलादिवासनोद्धोधहेतुतदृष्टिवत्ततः ॥१५३ ॥
यथा नीलादिदर्शनं नीलादिवासनोबोधस्य कारणमिष्टं तथा भावाभावोभयाद्यर्थदर्शनं तद्वासनाप्रबोधस्य खयमेषितव्यमिति भावाद्यर्थस्य प्रत्यक्षतः परिच्छेदः सिद्धः ॥
यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता । कान्यथा स्यादनाश्वासाद्विकल्पस्य समुद्भवे ॥ १५४ ॥
यदि हि भावादिविकल्पवासनायाः प्रबोधकारणमाभोगायेव न पुनर्भावादिदर्शनं तदा नीलादिविकल्पवासनयापि न नीलादिदर्शनं प्रबोधनिबंधनमाभोगशब्दयोरेव तत्कारणत्वापत्तेः । एवं च नीलादौ दर्शनाभावेपि विकल्पवासनायाः संभवात् सर्वत्र प्रत्यक्षपृष्ठभाविनो विकल्पस्य सामर्थ्यात्प्रत्यक्षस्य प्रमाणतावस्थापनेऽनाश्वास एव स्यात् । खलक्षणदर्शनप्रभवो विकल्पस्तत्प्रमाणताहेतुर्न सर्व इति चेन्नान्योन्याश्रयप्रसंगात् । तथाहि-सिद्धे खलक्षणदर्शनप्रभवत्वे विकल्पस्य ततस्तद्दर्शनप्रमाणतासिद्धिः
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only