________________
२०२ तत्त्वार्थश्लोकवार्तिके
[सू० १३ वाकक्रियाकारभेदादेरत्यंताभावनिश्चितः । निवृत्तिनिश्चिता तज्ज्ञैः चिंता व्यावृत्तिसाधनी १६५
सर्वकार्यासमर्थस्य चेतनस्य निवर्तनं । ततश्चेत्केन साध्येत कूटस्थस्य निषेधनम् ॥ १६६ ॥ __ यथा हि सर्वकारणासमर्थ चैतन्यं कार्याभावाद्भस्मादौ निषेद्धुमशक्यं तथा कूटस्थमपि क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् ॥ - क्षणिकत्वेन न व्याप्तं सत्त्वमेवं प्रसिद्ध्यति । संदिग्धव्यतिरेकाच ततोसिद्धिः क्षणक्षये ॥१६७॥
चेतनाचेतनार्थानां विभागश्च न सिद्ध्यति । चित्तसंताननानात्वं निजसंतान एव वा ॥१६८॥ न वेद्यवेदकाकारविवेकोतः स्वसंविदः । सर्वकार्येष्वशक्तस्य स त्वसंभवभाषणे ॥ १६९ ।। न संति चेतनेप्वचेतनास्तद्वेदनादिकार्यासत्त्वात् । तथा न संत्यचेतनार्थेषु चेतनास्तित एवेति चेतनाचेतनविभागो न सिद्ध्यत्येव सर्वकार्यकरणासमर्थानां तेषां तत्र निषेद्धुमशक्तेः । चेतनार्था एव संतु तथा विज्ञानवादावताराजडस्य प्रतिभासयोगादिति चेन्न, तथा विज्ञानसंतानानां नानात्वाप्रसिद्धेः । क्वचिच्चित्तसंततेः संतानांतराणां सर्वकार्यकरणासमर्थानां खकार्यासत्त्वेपि सत्त्वाविरोधात् । मा भूत्संतानांतरसिद्धिस्तथेष्टेरितिचेन्न, निजसंतानस्याप्यसिद्धिप्रसंगात् । वर्तमानचित्तक्षणे संवेद्यमाने पूर्वोत्तरचित्तक्षणानामनुभवमात्रमप्यकुर्वतां प्रतिषेद्भुमशक्यत्वादेकचित्तक्षणात्मकत्वापत्तेः । न चैकः क्षणः संतानो नाम तत एव संवेदनाद्वैतमस्तु उत्तमं पानद्वयमिति वचनात् । नेदमपि सिद्ध्यति वेद्यवेदकाकारविवेकस्याव्यवस्थानात् । संवेदने वेद्यवेदकाकारौ न स्तः स्वयमप्रतिभासनादिति न शक्यं वक्तुमप्रतिभासमानयोः सत्त्वविरोधात् । ततः क्वचित्कस्यचित्प्रतिभासनादेः स्वकार्यस्याभावादभावसाधने भस्मादौ चैतन्यस्य खकार्यनिवृत्तिनिश्चयादभावो निश्चेतव्य इति विपक्षे बाधकप्रमाणादेव प्राणादिमत्त्वस्य व्यतिरेकः साध्यते न पुनरदर्शनमात्रेण यतः संशयहेतुत्वं रागादौ वक्तृत्वादेरिव स्यात् । न चैवमपरिणामिनात्मना सात्मकं जीवच्छरीरस्य सिध्यति । यतः- परिणामिनमात्मानमंतरेण क्रमाक्रमौ । न स्यातां तदभावे च न प्राणादिक्रिया कचित्१७०
तत्रैकांतात्मना जीवच्छरीरं सात्मकं भवेत् । निष्कलस्य सहानेकदेशदेहास्तिहानितः॥१७१॥ निष्कलः सकृदनेकदेशदेहं व्यामोत्यात्मेति कः श्रद्दधीत ? परममहत्त्वाट्यामोत्येवेति चेयाहतमिदं निरंशः परममहान् वेति परमाणोरपि परममहत्त्वप्रसंगात् । यदि पुनः खारंभकावयवाभावान्निरवयवत्वमात्मनो गगनत्वादिवदिति मतं तदा परमतसिद्धिः सर्वथा निरवयवत्वासिद्धेः परमाणुप्रमीयमाणखात्मभूतावयवानामात्मनोप्रतिषेधादिति समर्थयिष्यते ।।
अनेकांतात्मकं सर्व सत्त्वादित्यादि साधनं । सम्यगन्वयशून्यत्वेप्यविनाभावशक्तितः॥१७२।। नित्यानित्यात्मकः शब्दः श्रावणत्वात्कथंचन । शब्दत्वाद्वान्यथाभावाभावादित्यादिहेतवः१७३ हेतोरन्वयवेधुर्ये व्यतिरेको न चेन वै । तेन तस्य विनैवेष्टेः सवानित्यत्वसाधने ॥ १७४ ॥
निश्चितो व्यतिरेक एव ह्यविनाभावः साधनस्य नान्यः स चोपदर्शितस्य सर्वस्य हेतोरन्वयासंभवेन सिद्ध्यत्येव । सत्येवाग्नौ धूम इत्यन्वयनिश्चयेन्यभावे न कचिद्धम इति व्यतिरेकनिश्चयस्य दृष्टत्वात् । संदिग्धेन्वयव्यतिरेकसंदेहाचेति न वै मंतव्यं सर्वे भावाः क्षणिकाः सत्त्वादित्यस्यान्वयासत्त्वेपि व्यतिरेकनिश्चयस्य स्वयमिष्टेरन्यथा तस्य गमकत्वायोगात् । नन्वत्र सत्येव क्षणिकत्वे सत्त्वमिति निश्चयमेवान्वयोस्तीति चेत् । अत्रोच्यतेसाध्ये सत्येव सद्भावनिश्चयः साधनस्य यः । सोन्वयश्चेत्तथैवोपपत्तिः स्वेष्टा परोऽफलः॥१७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org