________________
प्रथमोऽध्यायः ।
२०३ यथैव प्रतिषेधप्राधान्यादन्यथानुपपत्तिर्व्यतिरेक इतीप्यते तथाविधप्राधान्यात्तथोपपत्तिरेवान्वय इति किमनिष्टं स्याद्वादिभिस्तस्य हेतुलक्षणत्वोपगमात् । परोपगतस्तु नान्वयो हेतुलक्षणं पक्षधर्मत्ववत् नापि व्यतिरेकः । स हि विपक्षाव्यावृत्तिः विपक्षस्तद्विरुद्धस्तदन्यस्तदभावश्चेति त्रिविध एव । तत्र
तद्विरुद्धे विपक्षे च तदन्यत्रैव हेतवः । असत्यनिश्चितासत्त्वाः साकल्यानेष्टसाधनाः ॥१७६॥ • यथा साध्यादन्यस्मिन् विपक्षे निश्चितासत्त्वा अपि हेतवोग्मित्वादयो नेष्टाः सत्त्वादिसाधनास्तेषां साध्याभावलक्षणेपि पक्षे कुतश्चिदनिश्चितासत्त्वरूपत्वात् । तथा साध्याविरुद्धेपि विपक्षे निश्चितासत्त्वा अपि धूमादयो नेष्टा अम्यादिसाधनास्तेषामन्यभावे स्वयमसत्त्वेनानिश्चयात् । ननु च साध्यविरुद्धो विपक्षः साध्याभावरूप एव पर्युदासाश्रयणात् प्रसह्यप्रतिषेधाश्रयणे तु तदभावस्तद्विरुद्धादन्य इति साध्याभावविपक्ष एव विपक्षहेतोरसत्त्वनिश्चयो व्यतिरेको नान्य इत्यत्रोच्यते;
साध्याभावे विपक्षे तु योसत्त्वस्यैव निश्चयः । सोविनाभाव एवास्तु हेतो रूपात्तथाह च१७७ अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥ १७८॥
यथा चैवमन्यथानुपपन्नत्वनियमे सति हेतोर्न किंचित्रयेण पक्षधर्मत्वादीनामन्यतमेनैव पर्याप्तत्वात्तस्यैवान्यथानुपपन्नखभावसिद्धेरिति च तस्मिंस्तत्रयस्य हेत्वाभासगतस्येवाकिंचित्करत्वं युक्तं ॥
तद्धेतोस्त्रिषु रूपेषु निर्णयो येन वर्णितः । असिद्धविपरीतार्थव्यभिचारिविपक्षतः॥ १७९ ॥ तेन कृतं तु निर्णीतं हेतोलेक्षणमंजसा । हेत्वाभासाव्यवच्छेदि तद्वदेत्कथमन्यथा ॥ १८०॥
ननु च पक्षधर्मत्वे निर्णयश्चाक्षुषत्वादेरसिद्धप्रपंचस्य प्रतिपक्षत्वेन वर्णितः सपक्षसत्त्वे विरुद्धप्रपंचप्रतिपक्षत्वेन विपक्षासत्त्वे चानैकांतिकविस्तारप्रतिपक्षेणेति कथं हेत्वाभासाव्यवच्छेदि हेतोर्लक्षणं तेनोक्तं येन पारमार्थिक रूपं ज्ञानमितिचेत् अन्यथानुपपन्नत्वस्यैव हेतुलक्षणत्वेनाभिधानादिति ब्रूमः । तस्यैवासिद्धविरुद्धानेकांतिकहेत्वाभासप्रतिपक्षत्वसिद्धेः । न ह्यन्यथानुपपन्नत्वनियमवचनोसिद्धत्वादिसंभवो विरोधात् । न चैकेन सकलप्रतिपक्षव्यवच्छेदे सिद्धे तदर्थ त्रयमभिदधतां तदेकं समर्थ लक्षणं हेतोर्जातं भवति तदेव त्रिभिः खभावैरसिद्धादीनां त्रयाणां व्यवच्छेदकमतस्तानि त्रीणि रूपाणि निश्चितान्यनुक्तानि । तदवचने विशेषतो हेतुलक्षणसामर्थ्यस्यावचनप्रसंगात् । तदुक्तौ तु विशेषतो हेतुलक्षणं ज्ञातमेवेतिचेत् न, अबाधितविषयत्वादीनामपि वचनप्रसंगात् । तेषामनुक्तौ बाधितविषयत्वादिव्यवच्छेदासिद्धेः । निश्चितत्रैरूप्यस्य हेतोर्बाधितविषयत्वाद्यसंभवात्तद्वचनादेव तद्व्यवच्छेदसिद्धेनाबाधितविषयत्वादिवचनमिति चेत् न, हेतोः पंचभिः स्वभावैः पंचानां पक्षव्यापकत्वादीनां व्यवच्छेदकत्वाद्विशेषतल्लक्षणस्यैव कथनात् अन्यथा तदज्ञानप्रसंगात् । तद्विशेषविवक्षायां तु पंचरूपत्ववत् त्रिरूपत्वमिति न वक्तव्यं सामान्यतोन्यथानुपपन्नत्ववचनेनैव पर्याप्तत्वात् , रूपत्रयमंतरेण हेतोरसिद्धादित्रयव्यवच्छेदानुपपत्तेः । तत्र तस्य तद्भावादुपपन्नं वचनमिति चेत्
रूपत्रयस्य सद्भावात्तत्र तद्वचनं यदि । निश्चितत्वस्वरूपस्य चतुर्थस्य वचो न किम् ॥१८१॥ त्रिषु रूपेषु चेद्रूपं निश्चितत्वं न साधने । नाज्ञाता सिद्धता हेतो रूपं स्यात्तद्विपयेयः ॥१८२॥ पक्षधर्मत्वरूपं स्याज्ज्ञातत्वे हेत्वभेदिनः । हेतोरज्ञानतेष्टा चेनिश्चितत्वं तथा न किम्॥१८॥ हेत्वाभासेपि तद्भावात्साधारणतया न चेत् । धर्मातरमिवारूपं हेतोः सदपि संमतम् ॥१८४॥ हंतासाधारणं सिद्धं साधनस्सैकलक्षणं । तत्त्वतः पावकस्यैव सोष्णत्वं तद्विदां मतम् ॥१८५॥ यो यस्यासाधारणे निश्चितः खभावः स तस्य लक्षणं यथा पावकस्यैव सोष्णत्वपरिणामस्तथा च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.