________________
प्रथमोऽध्यायः ।
१७
तस्य निःशेषतत्त्वार्थवेदिनः समुद्भूतरत्नत्रयस्यापि शरीरित्वेनावस्थानं स्वायुर्विशेषवशवर्तित्वात् । न हि तदायुरपवर्तनीयं येनोपक्रमवशात् क्षीयेत, तदक्षये च तदविनाभाविनामादिकर्मत्रयोदयोपि तस्यावतिष्ठते । ततः स्थितस्य भगवतः श्रेयोमार्गोपदेशित्वं कथमपि न विरुध्यते । कुतस्तर्हि तस्यायुःक्षयः शेषाघातिकर्मक्षयश्च स्याद्यतो मुक्तिरिति चेत् फलोपभोगादायुषो निर्जरोपवर्णनादघातिकर्मत्रयस्य च शेषस्याधिक स्थितेर्दडकपाटादिकरणविशेषादपकर्षणादिकर्मविशेषाद्वेति ब्रूमः । न चैवं रत्नत्रयहेतुता मुक्तेर्व्याहन्यते निश्चयनयादयोगिकेवलिचरमसमयवर्तिनो रत्नत्रयस्य मुक्तिहेतुत्वव्यवस्थितेः । ननु स्थितस्याप्यमोहस्य मोहविशेषात्मक विवक्षानुपपत्तेः कुतः श्रेयोमार्गवचनप्रवृत्तिरिति च न मंतव्यं । तीर्थकरत्वनामकर्मणा पुण्यातिशयेन तस्यागमलक्षणतीर्थ करत्वश्रियः संपादनात्तीर्थ करत्वनामकर्म तु दर्शन विशुद्ध्यादिभावनाबलभावि विभावयिष्यते । न च मोहवति विवक्षानांतरीयकत्वं वचन प्रवृत्तेरुपलभ्य प्रक्षीणमोहेपि तस्य तत्पूर्वकत्वसाधनं श्रेयः शरीरत्वादेः पूर्वसर्वज्ञत्वादिसाधनानुषंगात् वचोविवक्षानांतरीयकत्वासिद्धेश्चेति निरवद्यं सम्यग्दर्शनादित्रयहेतुकमुक्तिवादिनां श्रेयोमार्गोपदेशित्वम् ॥
ज्ञानमात्रात्तु यो नाम मुक्तिमभ्येति कश्चन । तस्य तन्न ततः पूर्वमज्ञत्वात्पामरादिवत् ॥ ४६ ॥ नापि पश्चादवस्थानाभावाद्वाग्वृत्त्ययोगतः । आकाशस्येव मुक्तस्य कोपदेशप्रवर्तनम् ॥ ४७ ॥
साक्षादशेषतत्त्वज्ञानात्पूर्वमागमज्ञानबलाद्योगिनः श्रेयोमार्गोपदेशित्वमविरुद्धमज्ञत्वासिद्धेरिति न मंतव्यं । सर्वज्ञकल्पनानर्थक्यात्, परमतानुसरणप्रसक्तेश्च । योगिज्ञानसमकालं तस्य तदित्यप्यसारं तत्त्व - ज्ञानपूर्वत्वविरोधात्तदुपदेशस्य तत्त्वज्ञानात्पश्चात्तु मुक्तेः खस्येव वाग्वृत्त्यघटनात् शरीरत्वेनावस्थानासंभवाद्दूरे सन्मार्गोपदेशः ॥
न हि तत्त्वज्ञानमेव संस्कारक्षये कारणमवस्थानविरोधस्य तदवस्थत्वात् । संस्कारस्यायुराख्यस्य परिक्षयनिबंधनम् । धर्ममेव समाधिः स्यादिति केचित्प्रचक्षते ॥ ४९ ॥ विज्ञानात्सोपि यद्यन्यः प्रतिज्ञाव्याहतिस्तदा ।
स चारित्रविशेषो हि मुक्तेर्मार्गः स्थितो भवेत् ॥ ५० ॥
संस्कारस्याक्षयात्तस्य यद्यवस्थानमिष्यते ।
तत्क्षये कारणं वाच्यं तत्त्वज्ञानात्परं त्वया ॥ ४८ ॥
तत्त्वज्ञानादन्यत एव संप्रज्ञातयोगात्संसारक्षये मुक्तिसिद्धिस्तत्त्वज्ञानान्मुक्तिरिति प्रतिज्ञा हीयते समाधिविशेषश्च चारित्रविशेषः स्याद्वादिनां मुक्तिमार्गों व्यवस्थितः स्यात् ॥
३
Jain Education International
ज्ञानमेव स्थिरीभूतं समाधिरिति चेन्मतम् । तस्य प्रधानधर्मत्वे निवृत्तिस्तत्क्षयाद्यदि ॥ ५१ ॥ तदा सोपि कुतो ज्ञानादुक्तदोषानुषंगतः । समाध्यंतरतश्चेन्न तुल्यपर्यनुयोगतः ॥ ५२ ॥ तस्य पुंसः स्वरूपत्वे प्रागेव स्यात्परिक्षयः । संस्कारस्यास्य नित्यत्वान्न कदाचिदसंभवः ॥ ५३ ॥
For Private & Personal Use Only
www.jainelibrary.org