________________
तत्त्वार्थश्लोकवार्तिके
आविर्भावतिरोभावावपि नात्मस्वभावगौ । परिणामो हि तस्य स्यात्तथा प्रकृतिवच्च तौ ॥ ५४॥ ततः स्याद्वादिनां सिद्धं मतं नैकांतवादिनाम् ।
बहिरंतश्च वस्तूनां परिणामव्यवस्थितेः ॥ ५५॥ न स्थिरज्ञानात्मकः संप्रज्ञातो योगः संस्कारक्षयकारणमिष्यते यतस्तस्य प्रधानधर्मत्वात्तत्क्षयान्मुक्तिः । स्यात् । सोपि च तत्क्षयो ज्ञानादज्ञानाद्वा समाधेरिति पर्यनुयोगस्य समानत्वादनवस्थानमाशंक्यते । नापि पुरुषस्वरूपमात्रं समाधिर्येन तस्य नित्यत्वान्नित्यं मुक्तिरापाद्यते तदाविर्भावतिरोभावाभावादन्यथा प्रधानवत्पुं. सोपि परिणामसिद्धेः सर्वपरिणामीति स्याद्वादाश्रयणं प्रसज्येत । किं तर्हि ? विशिष्टं पुरुषखरूपमसंप्रज्ञातयोगः संस्कारक्षयकारणं । न च प्रतिज्ञाव्याघातस्तत्त्वज्ञानाज्जीवन्मुक्तेरास्थानांतकाले तत्त्वोपदेशघटनात्परमनिःश्रेयसस्य समाधिविशेषात्संस्कारक्षये प्रतिज्ञानादिति वदन्नंधसर्पबिलप्रवेशन्यायेन स्याद्वादिदर्शनं समाश्रयतीत्युपदर्यते ॥
मिथ्यार्थाभिनिवेशेन मिथ्याज्ञानेन वर्जितम् । यत्पुंरूपमुदासीनं तचेद्ध्यानं मतं तव ॥ ५६ ॥ हंत रत्नत्रयं किं न ततः परमिहेष्यते।
यतो न तन्निमित्तत्वं मुक्तेरास्थीयते त्वया ॥ ५७ ॥ ननु च मिथ्यार्थाभिनिवेशेन वर्जितं पुरुषस्य स्वरूपं न सम्यग्दर्शनं तस्य तत्त्वार्थश्रद्धानलक्षणत्वात् , नापि मिथ्याज्ञानेन वर्जितं तत्सम्यग्ज्ञानं तस्य खार्थावायलक्षणत्वात् , उदासीनं च न पुंरूपं सम्यक्चारित्रं तस्य गुप्तिसमितिव्रतभेदस्य बाह्याभ्यंतरक्रियाविशेषोपरमलक्षणत्वात् येन तथाभूतरत्नत्रयमेव मोक्षस्य कारणमस्माभिरास्थीयते । मिथ्याभिनिवेशमिथ्याज्ञानयोः प्रधानविवर्तितया समाधिविशेषकाले प्रधानसंसर्गाभावे पुरुषस्य तद्वर्जितत्वेपि खरूपमात्रावस्थानात् । तदुक्तं । "तदा द्रष्टुः खरूपेवस्थान"मिति कश्चित् । तदसत् । संप्रज्ञातयोगकालेपि तादृशः पुंरूपस्याभावात्परमनिःश्रेयसप्रसक्तेः । तदा वैराग्यतत्त्वज्ञानाभिनिवेशात्मकप्रधानसंसर्गासद्भावान्नासंप्रज्ञातयोगोस्ति, यतः परममुक्तिरिति चेत्तर्हि रत्नत्रयाजीवन्मुक्तिरित्यायातः प्रतिज्ञाव्याघातः परमतप्रवेशात् । तत्त्वार्थश्रद्धानतत्त्वज्ञानवैराग्याणां रत्नत्रयत्वात्ततो जीवन्मुक्तेराहत्यरूपायाः परैरिष्टत्वात् । यदपि द्रष्टुरात्मनः स्वरूपेवस्थानं ध्यानं परममुक्तिनिबंधनं तदपि न रत्नत्रयात्मकतां व्यभिचरति, सम्यग्ज्ञानस्य पुंरूपत्वात् , तस्य तत्त्वार्थश्रद्धानसह चरितत्वात् , परमौदासीन्यस्य च परमचारित्रत्वात् ॥ पुरुषो न ज्ञानस्वभाव इति न शक्यव्यवस्थं । तथाहि;
यद्यज्ञानखभावः स्यात्कपिलो नोपदेशकृत् ।
सुषुप्तवत्प्रधानं वाचेतनत्वाद् घटादिवत् ॥ ५८ ॥ यथैव हि सुषुप्तवत्तत्त्वज्ञानरहितः कपिलोऽन्यो वा नोपदेशकारी परस्य घटते तथा प्रधानमपि स्वयमचेतनत्वात्कुटादिवत् । तत्त्वज्ञानसंसगाद्योगी ज्ञानस्वभाव इति चेत् ;
ज्ञानसंसर्गतोप्येष नैव ज्ञानखभावकः। व्योम तद्वद्विशेषस्य सर्वथानुपपत्तितः ॥ ५९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org