________________
प्रथमोऽध्यायः ।
१९
यस्य सर्वथा निरतिशयः पुरुषस्तस्य ज्ञानसंसर्गादपि न ज्ञानस्वभावोसौ गगनवत् । कथमन्यथा चैतन्यं पुरुषस्य स्वरूपमिति न विरुध्यते ? ततो न कपिलो मोक्षमार्गस्य प्रणेता येन संस्तुत्यः स्यात् । एतेनैवेश्वरः श्रेयः पथप्रख्यापनेऽप्रभुः ।
व्याख्याdisarri aष ज्ञानादर्थांतरत्वतः ॥ ६० ॥
नेश्वरः श्रेयोमार्गोपदेशी स्वयमचेतनत्वादाकाशवत् । स्वयमचेतनोसौ ज्ञानादर्थांतरत्वात् तद्वत् । नात्राश्रयासिद्धो हेतुरीश्वरस्य पुरुषविशेषस्य स्याद्वादिभिरभिप्रेतत्वात् । नापि धर्मिग्राहकप्रमाणबाधितः पक्षस्तद्राहिणा प्रमाणेन तस्य श्रेयोमार्गोपदेशित्वेनाप्रतिपत्तेः । परोपगमतः साधनाभिधानाद्वा न प्रकृतचोद्यावतारः सर्वस्य तथा तद्वचनाप्रतिक्षेपात् ।
विज्ञानसमवायाच्चेच्चेतनोऽयमुपेयते ।
तत्संसर्गात्कथं न ज्ञः कपिलोपि प्रसिद्ध्यति ॥ ६१ ॥
यथेश्वरो ज्ञानसमवाया चेतनस्तथा ज्ञानसंसर्गात्कपिलोपि ज्ञोस्तु । तथापि तस्याज्ञत्वे कथमीश्वरश्चेतनो यतोSसिद्ध हेतुः स्यात् ।
प्रधानाश्रयि विज्ञानं न पुंसो ज्ञत्वसाधनम् ।
यदि भिन्नं कथं पुंसस्तत्तथेष्टं जडात्मभिः ॥ ६२ ॥
प्रधानाश्रितं ज्ञानं नात्मनो ज्ञत्वसाधनं ततो भिन्नाश्रयत्वात्पुरुषांतर संसर्गिज्ञानवदिति चेत् ? तर्हि न ज्ञानमीश्वरस्य ज्ञत्वसाधनं ततो भिन्नपदार्थत्वादनीश्वरज्ञानवदिति किं नानुमन्यसे । ज्ञानाश्रयत्वतो वेधा नित्यं ज्ञो यदि कथ्यते ।
तदेव किंकृतं तस्य ततो भेदेपि तत्त्वतः ॥ ६३ ॥
स्रष्टा ज्ञो नित्यं ज्ञानाश्रयत्वात् यस्तु न ज्ञः स न नित्यं ज्ञानाश्रयो यथा व्योमादिः, न च तथा स्रष्टा ततो नित्यं ज्ञ इति चेत् । किंकृतं तदा स्रष्टुर्ज्ञानाश्रयत्वं ज्ञानाद्भेदेपि वस्तुत इति चिंत्यम् । समवायकृतमितिचेत् । समवायः किमविशिष्टो विशिष्टो वा ? प्रथमविकल्पोनुपपन्नः ।
*
कस्मात् ;'
समवायो हि सर्वत्र न विशेषकृदेककः ।
कथं खादीनि संत्यज्य पुंसि ज्ञानं नियोजयेत् ॥ ६४ ॥
यस्मात् “सर्वेषु समवायिष्वेक एव समवायस्तत्त्वं भवेन व्याख्यातम्” इति वचनात् । तस्मात्तेषां विशेषकृन्न नाम येन पुंस्येव ज्ञानं नियोजयेदाकाशादिपरिहारेण इति बुद्ध्यामहे । सत्तावदेकत्वेपि समवायस्य प्रतिविशिष्टपदार्थविशेषणतया विशेषकारित्वमिति चेत्, तर्हि विशिष्टः समवायः प्रति विशेष्यं सत्तावदेव इति प्राप्तो द्वितीयः पक्षः । तत्र च——
विशिष्टः समवायोऽयमीश्वरज्ञानयोर्यदि ।
तदा नानात्वमेतस्य प्राप्तं संयोगवत्तकम् ॥ ६५ ॥
न हि संयोगः प्रतिविशेष्यं विशिष्टो नाना न भवति दंडपुरुषसंयोगात् पटधूपसंयोगस्याभेदाप्रतीतेः । संयोगत्वेनाभेद एवेति चेत्, तदपि ततो यदि भिन्नमेव तदा कथमस्यैकत्वे संयोगयोरेकत्वं ? तन्नाना संयोगोभ्युपेयोऽन्यथा स्वमतविरोधात् । तद्वत्समवायोनेकः प्रतिपद्यतां ईश्वरज्ञानयोः समवायः, पटरूपयोः समवाय इति विशिष्टप्रत्ययोत्पत्तेः । समवायिविशेषात्समवाये विशिष्टः प्रत्यय इति चेत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org