________________
तत्त्वार्थश्लोकवार्तिके तर्हि संयोगिविशेषात्संयोगे विशिष्टप्रत्ययोस्तु । शिथिलः संयोगो निबिडः संयोग इति प्रत्ययो यथा संयोगे तथा नित्यं समवायः कदाचित्समवाय इति समवायेपि । समवायिनो नित्यत्वकादाचित्कत्वाभ्यां समवाये तत्प्रत्ययोत्पत्तौ संयोगिनोः शिथिलत्वनिविडत्वाभ्यां संयोगे तथा प्रत्ययः स्यात् । खतः संयोगिनोर्निबिडत्वे संयोगोनर्थक इति चेत् , स्वतः समवायिनोनित्यत्वे समवायोनर्थकः किं न स्यात् । इहेदं समवेतमिति प्रतीतिः समवायस्यार्थ इति चेत् , संयोगस्येहेदं संयुक्तमिति प्रतीतिरर्थोस्तु । ततो न संयोगसमवाययोर्विशेषोन्यत्र विष्वग्भावाविष्वग्भावस्वभावाभ्यामिति तयोर्नानात्वं कथंचित्सिद्धं । समवायस्य नानात्वे अनित्यत्वप्रसंगः संयोगवदिति चेत् । न । आत्मभिर्व्यभिचारात् , कथंचिदनित्यत्वस्येष्टत्वाच्च । किं च
अनाश्रयः कथं चायमाश्रयैयुज्यतेजसा ।
तद्विशेषणता येन समवायस्य गम्यते ॥ ६६ ॥ येषामनाश्रयः समवाय इति मतं तेषामात्मज्ञानादिभिः समवायिभिः कथं संबध्यते ? संयोगेनेति चेन्न । तस्याद्रव्यत्वेन संयोगानाश्रयत्वात् । समवायेनेति चायुक्तं । स्वयं समवायांतरानिष्टेः । विशेषणभावेनेति चेत् , कथं समवायिभिरसंबद्धस्य तस्य तद्विशेषणभावो निश्चीयते ? समवायिनो विशेष्यात्समवायो विशेषणमिति प्रतीतेविशेषणविशेष्यभाव एव संबंधः समवायिभिः समवायस्येति चेत् । स तर्हि ततो यद्यभिन्नस्तद्वद्वा समवायिनां तादात्म्यसिद्धिरभिन्नादभिन्नानां तेषां तद्वद्भेदविरोधात् । भिन्न एवेति चेत् कथं तैर्व्यपदिश्यते? परस्माद्विशेषणविशेष्यभावादिति चेत्, स एव पर्यनुयोगोऽनवस्थानं च । सुदूरमपि गत्वा स्वसंबंधिभिः संबंधस्य तादात्म्योपगमे परमतप्रसिद्धेर्न समवायिविशेषणत्वं नाम ॥
विशेषणत्वे चैतस्य विचित्रसमवायिनाम् ।
विशेषणत्वे नानात्वप्राप्तिदंडकटादिवत् ॥ ६७ ॥ सत्यपि समवायस्य नानासमवायिनां विशेषणत्वे नानात्वप्राप्तिर्दडकटादिवत् । न हि युगपन्नानार्थविशेषणमेकं दृष्टं । सत्त्वं दृष्टमिति चेन्न । तस्य कथंचिन्नानारूपत्वात् । तदेकत्वैकांते घटः सन्निति प्रत्ययोत्पत्तौ सर्वथा सत्त्वस्य प्रतीतत्वात् सर्वार्थसत्त्वप्रतीत्यनुषंगात्कचित्सत्तासंदेहो न स्यात् । सत्त्वं सर्वात्मना प्रतिपन्नं न तु सर्वार्थास्तद्विशेष्या इति । तदा कचित्सत्तासंदेहे घटविशेषणत्वं सत्त्वस्यान्यदन्यदर्थातरविशेषणत्वमित्यायातमनेकरूपत्वं । नानार्थविशेषणत्वं नाना न पुनः सत्त्वं तस्य ततो भेदादितिचेत् । तर्हि घटविशेषणत्वाधारत्वेन सत्त्वस्य प्रतीतौ सर्वार्थविशेषणत्वाधारत्वेनापि प्रतिपत्तेः स एव संशयापायः सर्वार्थविशेषणत्वाधारत्वस्य ततोनीतरत्वात् । तस्यापि नानारूपस्य सत्त्वाद्भेदे नानार्थविशेषणत्वान्नानारूपादनर्थातरत्वसिद्धेः । सिद्धं नानाखभावं सत्त्वं सकृन्नानार्थविशेषणं । तद्वत्समवायोस्तु । द्रव्यत्वादिसामान्यं द्वित्वादिसंख्यानं पृथक्त्वाद्यवयविद्रव्यमाकाशादि विभुद्रव्यं च खयमेकमपि पुरा यदनेकार्थविशेषणमित्येतदनेन निरस्तं । सर्वथैकस्य तथाभावविरोधसिद्धेरिति न परपरिकल्पितस्वभावः समवायोस्ति, येनेश्वरस्य सदा ज्ञानसमवायितोपपत्तेर्जत्वं सिद्ध्येत् । कीदृशस्तर्हि समवायोऽस्तु ?
ततोऽर्थस्यैव पर्यायः समवायो गुणादिवत् ।
तादात्म्यपरिणामेन कथंचिदवभासनात् ॥ ६८ ॥ भ्रांतं कथंचिद्रव्यभेदेन प्रतिभासनं समवायस्येति न मतव्यं तद्भेदैकांतस्य ग्राहकाभावात् । न हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org