________________
प्रथमोऽध्यायः ।
२१
प्रत्यक्षं तद्राहकं तत्रेदं द्रव्यमयं गुणादिरयं समवाय इति भेदप्रतिभासाभावात् । नाप्यनुमानं लिंगाभावात् । इहेदमिति प्रत्ययो लिंगमिति चेत् । न । तस्य समवायितादात्म्यस्वभावसमवायसाधकत्वेन विरुद्धत्वात् । नित्यसर्वगतैकरूपस्य समवायेनानांतरीयकत्वात् गुणादीनां द्रव्यत्वात्कथंचित्तादात्म्याभासनस्य द्रव्यपरिणामत्वस्य भावात्साधनशून्यं साध्यशून्यं च निदर्शनमिति चेन्न, अत्यंतभेदस्य ततस्तेषा - मनिश्चयात्तदसिद्धेः । गुणगुणिनौ क्रियातद्वंतौ जातितद्वतौ च परस्परमत्यंतं भिन्नौ भिन्नप्रतिभासत्वात् घटपटवदित्यनुमानमपि न तद्भेदैकांतसाधनं, कथंचिद्भिन्नप्रतिभासत्वस्य हेतोः कथंचित्तद्भेदसाधनतया विरुद्धत्वात् सिद्ध्यभावात् । न हि गुणगुण्यादीनां सर्वथा भेदप्रतिभासोति कथंचित्तादात्म्यप्रतिभासनात् । तथाहि । गुणादयस्तद्वृतः कथंचिदभिन्नास्ततोशक्यविवेचनत्वान्यथानुपपत्तेः । किमिदमशक्यविवेचनत्वं नाम? विवेकेन ग्रहीतुमशक्यत्वमितिचेदसिद्धं गुणादीनां द्रव्याद्भेदेन ग्रहणात् । तद्बुद्धौ द्रव्यस्याप्रतिभासनात् द्रव्यबुद्धौ च गुणादीनामप्रतीतेः । देशभेदेन विवेचयितुमशक्यत्वं तदिति चेत्, कालाकाशादिभिरनैकांतिकं साधनमिति कश्चित् । तदनवबोधविजूभितं । स्वाश्रयद्रव्याद्द्रव्यांतरं नेतुमशक्यत्वस्याशक्यविवेचनत्वस्य कथनात् । न च तदसिद्धमनैकांतिकत्वं साध्यधर्मिणि सद्भावाद्विपक्षाद्व्यावृत्तेश्च । तन्न गुणादीनां कथंचिद्रव्यतादात्म्यपरिणामेनावभासनमसिद्धं, नापि द्रव्यपरिणामत्वं येन साध्यशून्यं साधनशून्यं वा निदर्शनमनुमन्यते । समवायो वार्थस्यैव पर्यायो न सिद्ध्येत्, सिद्धेपि समवायस्य द्रव्यपरिणामत्वे नानात्वे च किं सिद्धमिति प्रदर्शयति ;
तदीश्वरस्य विज्ञानसमवायेन या ज्ञता ।
सा कथंचित्तदात्मत्वपरिणामेन नान्यथा ॥ ६९ ॥ तथानेकांतवादस्य प्रसिद्धिः केन वार्यते । प्रमाणबाधनाद्भिन्नसमवायस्य तद्वतः ॥ ७० ॥
तदेवं समवायस्य तत्त्वतो भिन्नस्य सर्वथा प्रत्यक्षादिबाधनात्तदबाधितद्रव्य परिणामविशेषस्य समवायप्रसिद्धेर्ज्ञानसमवायाद् ज्ञो महेश्वर इति कथंचित्तादात्म्यपरिणामादेवोक्तः स्यात् । स च मोक्षमार्गस्य प्रणेतेति भगवानर्हन्नेव नामांतरेण स्तूयमानः केनापि वारयितुमशक्यः । परस्तु कपिलादिवदज्ञो न तत्प्रणेता नाम ।
Jain Education International
सुगतोपि न मार्गस्य प्रणेता व्यवतिष्ठते । तृष्णाविद्याविनिर्मुक्तस्तत्समाख्यातखड्गिवत् ॥ ७१ ॥
योप्याह । अविद्यातृष्णाभ्यां विनिर्मुक्तत्वात्प्रमाणभूतो जगद्धितैषी सुगतो मार्गस्य शास्तेति । सोप न प्रेक्षावान् । तथा व्यवस्थित्यघटनात् । न हि शोभनं संपूर्ण वा गतः सुगतो व्यवतिष्ठते, क्षणिकनिरास्रवचित्तस्य प्रज्ञापारमितस्य शोभनत्व संपूर्णत्वाभ्यामिष्टस्य सिद्ध्युपायापायात् । भावनाप्रकर्षपर्यंतस्तसिद्ध्युपाय इति चेत् । न । भावनाया विकल्पात्मकत्वेनातत्त्व विषयायाः प्रकर्षपर्यंत प्राप्तायास्तत्त्वज्ञानवैतृष्ण्यस्वभावोदयविरोधात् । न हि सा श्रुतमयी तत्त्वविषया श्रुतस्य प्रमाणत्वानुषंगात् । तत्त्वविवक्षायां प्रमाणं सेति चेत् तर्हि चिंतामयी स्यात् । तथा च न श्रुतमयी भावना नाम । परार्थानुमानरूपा श्रुतमयी स्वार्थानुमानात्मिका चिंतामयीति विभागोपि न श्रेयान् । सर्वथा भावनायास्तत्त्वविषयत्वायोगात् । तत्त्वप्रापकत्वाद्वस्तुविषयत्वमिति चेत्, कथमवस्त्वालंबना सा वस्तुनः प्रापिका । तदध्यवसायात्तत्र प्रवर्तकत्वादिति चेत् । किं पुनरध्यवसायो वस्तु विषयीकुरुते यतोस्य तत्र प्रवर्तकत्वं । स्वलक्षणदर्शनवशप्रभावोऽ
For Private & Personal Use Only
www.jainelibrary.org