________________
तत्त्वार्थश्लोकवार्तिके ध्यवसायः प्रवृत्तिविषयोपदर्शकत्वात्प्रवर्तक इति चेत् , प्रत्यक्षपृष्टभावी विकल्पस्तथास्तु समारोपव्यवच्छेदकत्वादनुमानाध्यवसायस्य तथाभावे दर्शनोत्थाध्यवसायस्य किमतथाभावस्तदविशेषात् । प्रवृत्तस्यारोपस्य व्यवच्छेदोध्यवसायः प्रवर्तको न पुनः प्रवर्तिष्यमाणस्य व्यवच्छेदक इति ब्रुवाणः कथं परीक्षको नाम तत्त्वार्थवासनाजनिताध्यवसायस्य वस्तुविषयतायामनुमानाध्यवसायस्यापि सेप्टेति तदात्मिकाभावना न तत्त्वविषयतो नाविद्याप्रसूतिहेतुरविज्ञातो विद्योदयविरोधात् । नन्वविद्यानुकूलाया एवाविद्याया विद्याप्रसवनहेतुत्वं विरुद्धं न पुनर्विद्यानुकूलायाः सर्वस्य तत एव विद्योदयोपरमादन्यथा विद्यानादित्वप्रसक्तेः संसारप्रवृत्त्ययोगादिति चेत् । न । स्याद्वादिनां विद्याप्रतिबंधकाभावाद्विद्योदयस्येष्टेः । विद्याखभावो ह्यात्मा तदावरणोदये स्यादविद्या विवर्तः खप्रतिबंधकाभावे तु खरूपे व्यवतिष्ठत इति नाविद्यैवानादिविद्योदयनिमित्ता सकलविद्यामुपेयामपेक्ष्य देशविद्या तदुपायरूपा भवत्यविद्यैवेति चेत् । न । देशविद्याया देशतः प्रतिबंधकामावादविद्यात्वविरोधात् । या तु केनचिदंशेन प्रतिबंधकस्य सद्भावादविद्यात्मनः सापि न विद्योदयकारणं तदभाव एव विद्याप्रसूतेरिति न विद्यात्मिका भावना गुरुणोपदिष्टा साध्यमाना सुगतत्वहेतुर्यतः सुगतो व्यवतिष्ठते । भवतु वा सुगतस्य विद्यावतृष्ण्यसंप्राप्तिस्तथापि न शास्तृत्वं व्यवस्थानाभावात् । तथाहि । सुगतो न मार्गस्य शास्ता व्यवस्थानविकलत्वात् खड्गिवत् । व्यवस्थानविकलोसावविद्यातृष्णाविनिर्मुक्तत्वात्तद्वत् ।
जगद्धितैषितासक्तेर्बुद्धो यद्यवतिष्ठते ।
तथैवात्महितैषित्वबलात् खड्गीह तिष्ठतु ॥ ७२ ॥ बुद्धो भवेयं जगतो हितायेति भावनासामर्थ्यादविद्यातृष्णाप्रक्षयेपि सुगतस्य व्यवस्थाने खगिनोप्यात्मानं शमयिष्यामीति भावनाबलाब्यवस्थानमस्तु विशेषाभावात् ।
तथागतोपकार्यस्य जगतोऽनंतता यदि । सर्वदावस्थितौ हेतुर्मतः सुगतसंततेः ॥ ७३ ॥ खड्गिनोप्युपकार्यस्य वसंतानस्य किं पुनः। न स्यादनंतता येन तन्निरन्वयनिर्वृतिः ॥ ७४ ॥ स्वचित्तशमनात्तस्य संतानो नोत्तरत्र चेत् । नात्मानं शमयिष्यामीत्यभ्यासस्य विधानतः ॥ ७५ ॥ न चांत्यचित्तनिष्पत्तौ तत्समाप्तिर्विभाव्यते । तत्रापि शमयिष्यामीत्यष्यचित्तव्यपेक्षणात् ॥ ७६ ॥ चिंतांतरसमारंभि नात्यं चित्तमनास्रवम् ।। सहकारिविहीनत्वात्ताग्दीपशिखा यथा ॥ ७७ ।। इत्ययुक्तमनैकांताहुद्धचित्तेन तादृशा। हितैषित्वंनिमित्तस्य सद्भावोपि समो द्वयोः॥ ७८ ॥ चरमत्वविशेषस्तु नेतरस्य प्रसिद्ध्यति ।
ततोऽनंतरनिर्वाणसिद्ध्यभावात्प्रमाणतः॥ ७९ ॥ खगिनो निरासवं चित्तं चित्तांतरं नारभते जगद्धितैषित्वाभावे चरमत्वे च सति सहकारिरहितत्वात् तादृग्दीपशिखावदित्ययुक्तं, सहकारिरहितत्वस्य हेतोर्बुद्धचित्तेनानैकांतात् , तद्विशेषणस्य हितैषित्वाभावस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |