________________
२६
प्रथमोऽध्यायः। चरमत्वस्य वासिद्धत्वात् । समानं हि तावद्धितैषित्वं खजिसुगतयोरात्मजगद्विषयं । सर्वविषयं हितैषित्वं खड्गिनो नास्त्येवेति चेत्, सुगतस्यापि कृतकृत्येषु तदभावात् । तत्र तद्भावे या सुगतस्य यत्किंचनकारित्वं प्रवृत्तिनैष्फल्यात् । यत्तु देशतोऽकृतकृत्येषु तस्य हितैषित्वं तत्खगिनोपि खचित्तेषूत्तरेप्वस्तीति न जगद्धितैषित्वाभावः सिद्धः । नापि चरमत्वं प्रमाणाभावात् । चरमं निरास्रवं खङ्गिचित्तं खोपादेयानारंभकत्वाद्वर्तिस्नेहादिशून्यदीपादिक्षणवदिति चेत् । न । अन्योन्याश्रयणात् । सति हि तस्य खोपादेयानारंभकत्वे चरमत्वस्य सिद्धिस्तत्सिद्धौ च खोपादेयानारंभकत्वसिद्धिरिति नाप्रमाणसिद्धविशेषणो हेतुर्विपक्षवृत्तिश्च । खगिसंतानस्यानंतत्वप्रतिषेधायालं येनोत्तरोत्तरैष्यचिंतापेक्षयात्मानं शमयिष्यामीत्यभ्यासविधानात्वचित्तैकस्य शमनेपि तत्संतानस्यापरिसमाप्तिसिद्धेर्निरन्वयनिर्वाणाभावः । सुगतस्येवानंतजगदुपकारस्य न व्यवतिष्ठेत तथापि कस्यचित्प्रशांतनिर्वाणे सुगतस्य तदस्तु । ततः सुष्टु गत एव सुगतः । स च कथं मार्गस्य प्रणेता नाम ॥
माभूत्तच्छांतनिर्वाणं सुगतोस्तु प्रमात्मकः ।
शास्तेति चेन्न तस्यापि वाक्प्रवृत्तिविरोधतः ॥ ८०॥ न कस्यचिच्छांतनिर्वाणमस्ति येन सुगतस्य तद्वत्तदापाद्यते निरास्रवचित्तोत्पादलक्षणस्य निर्वाणस्येष्टत्वात् । ततः शोभनं संपूर्ण वा गतः सुगतः प्रमात्मकः शास्ता मार्गस्येति चेत् । न । तस्यापि विधूतकल्पनाजालस्य विवक्षाविरहाद्वाचःप्रवृत्तिविरोधात् ॥
विशिष्टभावनोद्भतपुण्यातिशयतो ध्रुवम् ।
विवक्षामंतरेणापि वाग्वृत्तिः सुगतस्य चेत् ॥ ८१ ॥ बुद्धभावनोद्भुतत्वाद्बुद्धत्वं संवर्तकाद्धर्मविशेषाद्विनापि विवक्षाया बुद्धस्य स्फुटं वाग्वृत्तिर्यदि तदा स सान्वयो निरन्बयो वा स्यात् । किं चातः
सिद्धं परमतं तस्य सान्वयत्वे जिनत्वतः।
प्रतिक्षणविनाशित्वे सर्वथार्थक्रियाक्षतिः ॥ ८२ ॥ न सान्वयः सुगतो येन तीर्थकरत्वभावनोपात्तात्तीर्थकरत्वनामकर्मणोतिशयवतः पुण्यादागमलक्षणं तीर्थ प्रवर्तयतोऽर्हतो विवक्षारहितस्य नामांतरकरणात् स्याद्वादिमतं सियेत् । नापि प्रतिक्षणविनाशी सुगतः क्षणे शास्ता येनास्य क्रमयोगपद्याभ्यामर्थक्रियाक्षतिरापाद्यते । किं तर्हि ? सुगतसंतानः शास्तेति यो ब्रूयात्तस्यापि स संतानः किमवस्तु वस्तु वा स्यात् ? उभयत्रार्थक्रियाक्षतिपरमतसिद्धी तदवस्थे । तथाहि
संतानस्याप्यवस्तुत्वादन्यथात्मा तथोच्यताम् ।
कथंचिद्रव्यतादात्म्याद्विनाशस्तस्य संभवात् ॥ ८३ ॥ खयमपरामृष्टभेदाः पूर्वोत्तरक्षणाः संतान इति चेत् तर्हि तस्यावस्तुत्वादर्थक्रियाक्षतिः संतानिभ्यस्तत्त्वातत्त्वाभ्यामवाच्यत्वस्यावस्तुत्वेन व्यवस्थापनात् । संतानस्य वस्तुत्वे वा सिद्धं परमतमात्मनस्तथाभिधानात् । कथंचिद्र्व्यतादात्म्येनैव पूर्वोत्तरक्षणानां संतानत्वसिद्धेः प्रत्यासत्त्यंतरस्य व्यभिचारात्, तात्त्विकतानभ्युपगमाच ।
पूर्वकालविवक्षातो नष्टाया अपि तत्त्वतः । सुगतस्य प्रवर्तते वाच इत्यपरे विदुः॥ ८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org