________________
तत्त्वार्थश्लोकवार्तिके यथा जाग्रद्विज्ञानान्नष्टादपि प्रबुद्धविज्ञानं दृष्टं तथा नष्टायाः पूर्वविवक्षायाः सुगतस्य वाचोपि प्रवर्तमानाः संभाव्या इति चेत्
तेषां सवासनं नष्टं कल्पनाजालमर्थकृत् ।
कथं न युक्तिमध्यास्ते शुद्धस्यातिप्रसंगतः ॥ ८५॥ यत्सवासनं नष्टं तन्न कार्यकारि यथात्मीयाभिनिवेशलक्षणं कल्पनाजालं । सुगतस्य सवासनं नष्टं च ' विवक्षाख्यकल्पनाजालमिति न पूर्वविवक्षातोस्य वाग्वृत्तिर्युक्तिमधिवसति । जाग्रद्विज्ञानेन व्यभिचारी हेतुरिति चेत् । न । सवासनग्रहणात् । तस्य हि वासनाप्रबोधे सति स्वकार्यकारित्वमन्यथातिप्रसंगात् । सुगतस्य विवक्षा वासनाप्रबोधोपगमे तु विवक्षोत्पत्तिप्रसक्तेः कुतोऽत्यंतं कल्पनाविलयः । स्यान्मतं । सुगतवाचो विवक्षापूर्विका वाक्त्वादस्मदादिवाग्वत् । तद्विवक्षा च बुद्धदशायां न संभवति, तत्संभवे बुद्धत्वविरोधात् । सामर्थ्यात् पूर्वकालभाविनी विवक्षा वाग्वृत्तिकारणं गोत्रस्खलनवदिति । तदयुक्तम् । गोत्रस्खलनस्य तत्कालविवक्षापूर्वकत्वप्रतीतेः, तद्धि पद्मावतीतिवचनकाले वासवदत्तेतिवचनं । न च वासवदत्ताविवक्षा तद्वचनहेतुरन्यदा च तद्वचनमिति युक्तं । प्रथमं पद्मावती विवक्षा हि वत्सराजस्य जाता तदनंतरमाश्वेवात्यंताभ्यासवशाद्वासवदत्ताविवक्षा तद्वचनं चेति सर्वजनप्रसिद्धं । कथमन्यथान्यमनस्केन मया प्रस्तुतातिक्रमेणान्यदुक्तमिति संप्रत्ययः स्यात् । तथा च कथमतीतविवक्षापूर्वकत्वे सुगतवचनस्य गोत्रस्खलनमुदाहरणं येन विवक्षामंतरेणैव सुगतवाचो न प्रवर्तेरन् । सुषुप्तवचोवत् प्रकारांतरासंभवात् । न हि सुषुप्तस्य सुषुप्तदशायां विवक्षासंवेदनमस्ति तदभावप्रसंगात् । पश्चादनुमानांतरविवक्षासंवेदनमिति चेत् । न । लिंगाभावात् । वचनादि लिंगमिति चेत्, सुषुप्तवचनादिर्जाग्रद्वचनादिर्वा ? प्रथमपक्षे व्याप्त्यसिद्धिः, खतः परतो वा सुषुप्तवचनादेविवक्षापूर्वकत्वेन प्रतिपत्तुमशक्तेः । जाग्रद्वचनादिस्तु न सुषुप्तविवक्षापूर्वको दृष्ट इति तदगमक एव । सन्निवेशादिवजगत्कृतकत्वसाधने यादृशामभिनवकूपादीनां सन्निवेशादि धीमत्कारणकं दृष्टं तादृशामदृष्टधीमत्कारणानामपि जीर्णकूपादीनां तद्गमकं नान्यादृशानां भूधरादीनामिति ब्रुवाणा यादृशां जायदादीनां विवक्षापूर्वकं वचनादि दृष्टं तादृशामेव देशांतरादिवर्तिनां तत्तद्गमकं नान्यादृशां सुषुप्तादीनामिति कथं न प्रतिपद्यते । तथा प्रतिपत्तौ च न सुगतस्य विवक्षापूर्विका वाग्वृत्तिः साक्षात्परंपरया वा शुद्धस्य विवक्षापायादन्यथातिप्रसंगात् ।
सान्निध्यमात्रतस्तस्य चिंतारत्नोपमस्य चेत् ।
कुट्यादिभ्योपि वाचः स्युर्विनेयजनसंमताः ॥ ८६ ॥ सत्यं न सुगतस्य वाचो विवक्षापूर्विकास्तत्सन्निधानमात्रात् कुट्यादिभ्योपि यथा प्रतिपत्तुरभिप्रायं तदुद्भूतेश्चितारत्नोपमत्वात्सुगतस्य । तदुक्तं । “चिंतारनोपमानो जगति विजयते विश्वरूपोप्यरूपः" इति केचित् । ते कथमीश्वरस्यापि सन्निधानाजगदुद्भवतीति प्रतिषेधुं समर्थाः, सुगतेश्वरयोरनुपकारकत्वादिना सर्वथा विशेषाभावात् । तथाहि
किमेवमीश्वरस्यापि सांनिध्याजगदुद्भवत् । निषिध्यते तदा चैव प्राणिनां भोगभूतये ॥ ८७॥ सर्वथानुपकारित्वान्नित्यस्येशस्य तन्न चेत् । सुगतस्योपकारित्वं देशनासु किमस्ति ते ॥ ८८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org