________________
प्रथमोऽध्यायः ।
तद्भावभाविता मात्रा तस्य ता इति चेन्मतम् । पिशाचादेस्तथैवैताः किं न स्युरविशेषतः ॥ ८९ ॥ तस्यादृश्यस्य तद्धेतुभावनिश्चित्यसंभवे । सुगतः किं नु दृश्यस्ते येनासौ तन्निबंधनम् ॥ ९० ॥ ततोनाश्वास एवैतदेशनासु परीक्षया ।
सतां प्रवर्तमानामिति कैश्चित्सुभाषितम् ॥ ९१ ॥
तदेवं न सुगतो मार्गस्योपदेष्टा प्रमाणत्वाभावादीश्वरवत् । न प्रमाणमसौ तत्त्वपरिच्छेदकत्वाभावातद्वत् । न तत्त्वपरिच्छेदकोसौ सर्वथार्थक्रियारहितत्वात्तद्वदेव । न वार्थक्रियारहितत्वमसिद्धं क्षणिकस्य क्रमाक्रमाभ्यां तद्विरोधान्नित्यवत् । स्यान्मतं । संवृत्त्यैव सुगतः शास्ता मार्गस्येप्यते न वस्तुतश्चित्राद्वैतस्य सुगतत्वादिति । तदसत् । सुतरां तस्य शास्तृत्वायोगात् । तथाहि
४
चित्राद्यद्वैतवादे च दूरे सन्मार्गदेशना ।
प्रत्यक्षादिविरोधश्च भेदस्यैव प्रसिद्धितः ॥ ९२ ॥
परमार्थतश्चित्राद्वैतं तावन्न संभवत्येव चित्रस्याद्वैतत्वविरोधात् । तद्वद्बहिरर्थस्याप्यन्यथा नानैकत्वसिद्धेः । स्यान्मतं । चित्राकाराप्येका बुद्धिर्बाचित्रविलक्षणत्वात् । शक्यविवेचनं हि बाह्यं चित्रमशक्यविवेचना बुद्धिनाद्याकारा इति । तदसत् । बाह्यद्रव्यस्य चित्रपर्यायात्मकस्याशक्य विवेचनत्वाविशेषाच्चित्रैकरूपतापत्तेः । यथैव हि ज्ञानस्याकारास्ततो विवेचयितुमशक्यास्तथा पुद्गलादेरपि रूपादयः । नानारत्नराशौ बाह्ये पद्मरागमणिरयं चंद्रकांत मणिश्चायमिति विवेचनं प्रतीतमेवेति चेत् । तर्हि नीलाद्याकारैकज्ञानेपि नीलाकारोयं पीताकारश्चायमिति विवेचनं किं न प्रतीतं ? चित्रप्रतिभासकाले तन्न प्रतीयत एव पश्चात्तु नीलाद्याभासानि ज्ञानांतराण्यविद्योदयाद्विवेकेन प्रतीयंत इति चेत् । तर्हि मणिराशिप्रतिभासकाले पद्मरागादिविवेचनं न प्रतीयत एव, पश्चात्तु तत्प्रतीतिरविद्योदयादिति शक्यं वक्तुं । मणिराशेर्देशभेदेन विभजनं विवेचनमिति चेत् । भिन्नज्ञानसंतानराशेः समं । एकज्ञानाकारेषु तदभाव इति चेत् । एकमण्याकारेष्वपि । मणेरेकस्य खंडने तदाकारेषु तदस्तीति चेत् । ज्ञानस्यैकस्य खंडने समानं । पराण्येव ज्ञानानि तत्खंडने तथेति चेत् । पराण्येव मणिखंडद्रव्याणि मणिखंडने तानीति समानम् । नन्वेवं विचित्रज्ञानं विवेचयन्नर्थे पततीति तदविवेचनमेवेति चेत् । तर्हि एकत्वपरिणतद्रव्याकारानेवं विवेचयन्नानाद्रव्याकारेषु पततीति तदविवेचनमस्तु । ततो यथैकज्ञानाकाराणामशक्यविवेचनत्वं तथैकपुद्गलादिद्रव्याकाराणामपीति ज्ञानवाह्यमपि चित्रं सिद्ध्यत्कथं प्रतिषेध्यं येन चित्राद्वैतं सिद्ध्येत् । न च सिद्धेपि तस्मिन् मार्गोपदेशनास्ति, तत्त्वतो मोक्षतन्मार्गादेरभावात् । संवेदनाद्वैते तदभावोऽनेन निवेदितः । प्रत्यक्षादिभिर्भेदप्रसिद्धेः । तद्विरुद्धं च चित्राद्यद्वैतमिति सुगतमतादन्य एवो - पशमविधेर्मार्गः सिद्धः । ततो न सुगतस्तत्प्रणेता ब्रह्मवत् ।
Jain Education International
२५
न निरोधो न चोत्पत्तिर्न बद्धो न च मोचकः । न बंधोति न वै मुक्तिरित्येषा परमार्थता ॥ ९३ ॥ न ब्रह्मवादिनां सिद्धा विज्ञानाद्वैतवत्स्वयम् । नित्यसर्वगतैकात्माप्रसिद्धेः परतोपि वा ॥ ९४ ॥
न हि नित्यादिरूपस्य ब्रह्मणः स्वतः सिद्धिः क्षणिकानंशसंवेदनवत् । नापि परतस्तस्यानिष्टेः । अन्यथा
For Private & Personal Use Only
www.jainelibrary.org