________________
तत्त्वार्थश्लोकवार्तिके द्वैतप्रसक्तेः । कल्पितादनुमानादेः तत्साधने न तात्त्विकी सिद्धिर्यतो निरोधोत्पत्तिबद्धमोचकबंधमुक्तिरहितं प्रतिभासमात्रमास्थाय मार्गदेशना दूरोत्सारितैवेत्यनुमन्यते । तदेवं तत्त्वार्थशासनारंभेऽर्हन्नेव स्याद्वादनायकः स्तुतियोग्योऽस्तदोषत्वात् । अस्तदोषोऽसौ सर्ववित्त्वात् । सर्वविदसौ प्रमाणान्वितमोक्षमार्गप्रणायकत्वात् । ये तु कपिलादयोऽसर्वज्ञास्ते न प्रमाणान्वितमोक्षमार्गप्रणायकास्तत एवासर्वज्ञत्यान्नास्तदोषा इति न परीक्षकजनस्तवनयोग्यास्तेषां सर्वथेहितहीनमार्गत्वात् सर्वथैकांतवादिनां मोक्षमार्गव्यवस्थानुपपत्तेरित्युपसंह्रियते ॥
ततः प्रमाणान्वितमोक्षमार्गप्रणायकः सर्वविदस्तदोषः।
स्थाद्वादभागेव नुतेरिहार्हः सोऽर्हन्परे नेहितहीनमार्गाः ॥ १५ ॥ इति शास्त्रादौ स्तोतव्यविशेषसिद्धिः ॥
खसंवेदनतः सिद्धः सदात्मा बाधवर्जितात् ।
तस्य क्ष्मादिविवर्तात्मन्यात्मन्यनुपपत्तितः ॥१६॥ क्षित्यादिपरिणामविशेषश्चेतनात्मकः सकललोकप्रसिद्धमूर्तिरात्मा ततोन्यो न कश्चित्प्रमाणाभावादिति कस्य सर्वज्ञत्ववीतरागत्वे मोक्षो मोक्षमार्गप्रणेतृत्वं स्तुत्यता मोक्षमार्गप्रतिपित्सा वा सिद्ध्येत् । तदसिद्धौ च नादिसूत्रप्रवर्तनं श्रेय इति योप्याक्षिपति सोपि न परीक्षकः । खसंवेदनादात्मनः सिद्धत्वात् । खसंवेदनं भ्रांतमिति चेत् । न । तस्य सर्वदा बाधवर्जितत्वात् । प्रतिनियतदेशपुरुषकालबाधवर्जितेन विपरीतसंवेदनेन व्यभिचार इति न मंतव्यं, सर्वदेति विशेषणात् । न च क्ष्मादिविवर्तात्मके चैतन्यविशिष्टकायलक्षणे पुंसि खसंवेदनं संभवति, येन ततोर्थीतरमात्मानं न प्रसाधयेत् । खसंवेदनमसिद्धमित्यत्रोच्यते
स्वसंवेदनमप्यस्य बहिःकरणवर्जनात् ।
अहंकारास्पदं स्पष्टमबाधमनुभूयते ॥ ९७ ॥ न हीदं नीलमित्यादि प्रतिभासनं खसंवेदनं बाळेंद्रियजत्वादनहंकारास्पदत्वात् , न च तथाहं सुखीति प्रतिभासनमिति स्पष्टं तदनुभूयते । गौरोहमित्यवभासनमनेन प्रत्युक्तं, करणापेक्षत्वादहं गुल्मीत्यवभासनवत् । करणापेक्षं हीदं शरीरांतःस्पर्शनेंद्रियनिमित्तत्वात् । सुख्यहमित्यवभासनमिति तथास्तु तत एवेति चेत् । न । तस्याहंकारमात्राश्रयत्वात् । भ्रांतं तदिति हि चेन्न । अबाधत्वात् । नन्वहं सुखीति वेदनं करणापेक्षं वेदनत्वादहं गुल्मीत्यादिवेदनवदित्यनुमानबाधस्य सद्भावात्सबाधमेवेति चेत् । किमिदमनुमानं करणमात्रापेक्षत्वस्य साधकं बहिःकरणापेक्षत्वस्य साधकं वा ? प्रथमपक्षे न तत्साधकं खसंवेदनस्यांतकरणापेक्षस्थेष्टत्वात् । द्वितीयपक्षे प्रतीतिविरोधः खतस्तस्य बहिःकरणापेक्षत्वाप्रतीतेः । खरूपमात्रपरामर्शि वाहं सुखीत्यावेदनमित्यनुमानादपि तस्य तथाभावासिद्धेः । खात्मनि क्रियाविरोधात् खरूपपरामर्शणमस्यासिद्धमिति चेत् ।
तद्विलोपे न वै किंचित्कस्यचिद्व्यवतिष्ठते ।
खसंवेदनमूलत्वात्खेष्टतत्त्वव्यवस्थितेः ॥ ९८॥ पृथिव्यापस्तेजोवायुरिति तत्त्वानि, सर्वमुपप्लवमात्रमिति वा खेष्टं तत्त्वं व्यवस्थापयत्वसंवेदनं खीकर्तुमहत्येव, अन्यथा तदसिद्धेः । परपर्यनुयोगमात्रं कुरुते न पुनस्तत्त्वं व्यवस्थापयतीति चेत्, व्याहतमिदं तस्यैवेष्टत्वात् । परोपगमात् परपर्यनुयोगमानं कुरुते न तु स्वयमिष्टे येन तदेव तत्त्वं व्यवस्थापितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org