________________
२७
प्रथमोऽध्यायः । भवेदिति चेत् । स परोपगमो यापप्लुतस्तदा न ततः परपर्यनुयोगो युक्तः । सोनुपप्लुतश्चेत् कथं न खयमिष्टः । परोपगमांतरादनुपप्लुतो न वयमिष्टत्वादिति चेत् । तदपि परोपगमांतरमुपप्लुतं न वेद्यनिवृत्तेः पर्यनुयोगः । सुदूरमपि गत्वा कस्यचित्स्वयमिष्टौ सिद्धमिष्टतत्त्वव्यवस्थापनं खसंविदितं प्रमाणमन्वाकर्षत्यन्यथा घटादेरिव तव्यवस्थापकत्वायोगात् । न हि खयमसंविदितं वेदनं परोपगमेनापि विषयपरिच्छेदकं । वेदनांतरविदितं तदिष्टसिद्धिनिबंधनमिति चेन्न । अनवस्थानात् । तथाहि
संवेदनांतरेणैव विदिताद्वेदनाद्यदि । खेष्टसिद्धिरुपेयेत तदा स्यादनवस्थितिः॥ ९९ ॥ प्राच्यं हि वेदनं तावन्नार्थं वेदयते ध्रुवम् । यावन्नान्येन बोधेन वुद्ध्यं सोप्येवमेव तु ॥१०॥ नार्थस्य दर्शनं सिद्धयेत् प्रत्यक्षं सुरमंत्रिणः।
तथा सति कृतश्च स्यान्मतांतरसमाश्रयः ॥ १०१॥ अर्थदर्शनं प्रत्यक्षमिति वृहस्पतिमतं परित्यज्यैकार्थसमवेतानंतरज्ञानवेद्यमर्थज्ञानमिति ब्रुवाणः कथं चार्वाको नाम! परोपगमात्तथावचनमिति चेन्न । खसंविदितज्ञानवादिनः परत्वात् , ततोपि मतांतरसमाश्रयस्य दुर्निवारत्वात् । न च तदुपपन्नमनवस्थानात् । इति सिद्धं खसंवेदनं बाधवर्जितं सुख्यहमित्यादि कायात्तत्त्वांतरतयात्मनो भेदं साधयतीति किं नश्चिंतया ।
विभिन्नलक्षणत्वाच्च भेदश्चैतन्यदेहयोः।
तत्त्वांतरतया तोयतेजोवदिति मीयते ॥ १०२॥ चैतन्यदेही तत्त्वांतरत्वेन भिन्नौ भिन्नलक्षणत्वात् तोयतेजोवत् । इत्यत्र नासिद्धो हेतुः, खसंवेदनलक्षणत्वाचैतन्यस्य, काठिन्यलक्षणत्वात् क्षित्यादिपरिणामात्मनो देहस्य, तयोभिन्नलक्षणत्वस्य सिद्धेः । परिणामिपरिणामभावेन भेदसाधने सिद्धसाधनमित्ययुक्तं तत्त्वांतरतयेति साध्यदेहचैतन्ययोः तत्त्वान्तरतया भेदसाधनमस्ति विशेषणात् । कुटपटाभ्यां भिन्नलक्षणाभ्यां तत्त्वांतरत्वेन भेदरहिताभ्यामनेकांत इति चेन्न । तत्र परेषां भिन्नलक्षणत्वासिद्धेरन्यथा चत्त्वार्येव तत्त्वानीति व्यवस्थानुपपत्तेः । कुटपटादीनां भिन्नलक्षणत्वेपि तत्त्वांतराभावे क्षित्यादीनामपि तत्त्वांतराभावात् । धारणादिलक्षणसामान्यभे दात्तेषां तत्त्वांतरत्वं न लक्षणविशेषभेदायेन घटपटादीनां तत्प्रसंग इति चेत् , तर्हि खसंविदत्वेतरत्वलक्षणसामान्यभेदादेहचैतन्ययोस्तत्त्वांतरत्वसाधनात् कथं कुटपटाभ्यां तस्य व्यभिचारः? स्याद्वादिनां पुनर्विशेषलक्षणभेदाढ़ेदसाधनेपि न ताभ्यामनेकांतः, कथंचित्तत्त्वांतरतया तयोर्भदोपगमात् । सत्त्वादिसामान्यलक्षणभेदे हेतुरसिद्ध इति चेन्न । कथमन्यथा क्षित्यादिभेदसाधनेपि सोऽसिद्धो न भवेत् ? असाधारणलक्षणभेदस्य हेतुत्वान्नैवमिति चेत् , समानमन्यत्र, सर्वथा विशेषाभावात् ॥
भिन्नप्रमाणवेधत्वादित्यप्येतेन वर्णितम् ।
साधितं बहिरंतश्च प्रत्यक्षस्य विभेदतः॥ १०३ ॥ बहिरंतर्मुखाकारयोरिंद्रियजखसंवेदनयोर्भेदेन प्रसिद्धौ सिद्धमिदं साधनं वर्णनीयं देहचैतन्ये भिन्ने भिन्नप्रमाणवेद्यत्वादिति । करणजज्ञानवेद्यो हि देहः स्वसंवेदनवेद्यं चैतन्यं प्रतीतमिति सिद्धं साधनं स्वयं खसंवेदनवेद्येन परैरनुमेयेन भिन्नेन चैतन्येन व्यभिचारीति न युक्तं, स्वसंवेद्यानुमेयस्वभावाभ्यां तस्य भेदात् । तत एवैकस्य प्रत्यक्षानुमानपरिच्छेद्येनामिना न तदनैकांतिकं, नापि मारणशक्त्यात्मकविषद्रव्येण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org