________________
तत्त्वार्थश्लोकवार्तिके शकृ तादृशा(?) शक्तिशक्तिमतोः कथंचिद्भेदप्रसिद्धेः । सर्वथा भेदस्य देहचैतन्ययोरप्यसाधनत्वात् । तथा साधने सद्रव्यत्वादिनापि भेदप्रसक्तेनॊभयोरपि सत्त्वद्रव्यत्वादयोरव्यवतिष्ठेरन् । यथा हि देहस्य चैतन्यात् सत्त्वेन व्यावृत्तौ सत्त्वविरोधस्तथा चैतन्यस्यापि देहात् । एवं द्रव्यत्वादिभिर्व्यावृत्तौ चोद्यं । भिन्नप्रमाणवेद्यत्वादेवेत्यवधारणाद्वा न केनचिट्यभिचारचोदना हेतोः संभवति येन विशेषणमेकेनेत्यादि प्रयुज्यते । संदिग्धविपक्षव्यावृत्तिकत्वमपि नास्य शंकनीयं, कुत्रचिदभिन्नरूपे भिन्नप्रमाणवेद्यत्वासंभवात् । तादृशः सर्वस्यानेकखभावत्वसिद्धेरन्यथार्थक्रियानुपपत्तेरवस्तुत्वप्रसक्तेः । यदप्यभ्यधायि ॥
क्षित्यादिसमुदायार्थाः शरीरेंद्रियगोचराः ।
तेभ्यश्चैतन्यमित्येतन्न परीक्षाक्षमेरितम् ॥ १०४॥ पृथिव्यापस्तेजोवायुरिति तत्त्वानि, तत्समुदायः शरीरेंद्रियसंज्ञाविषयः, तेभ्यश्चैतन्यमित्येतदपि न परीक्षाक्षमेरितं । शरीरादीनां चैतन्यव्यंजकत्वकारकत्वयोरयोगात् । कुतस्तदयोगः ?
व्यंजका न हि ते तावचितो नित्यत्वशक्तितः।
क्षित्यादितत्त्ववद ज्ञातुः कार्यत्वस्याप्यनिष्टितः ॥ १०६ ॥ नित्यं चैतन्यं शश्वदभिव्यंग्यत्वात् क्षित्यादितत्त्ववत् , शश्वदभिव्यंग्यं तत्कार्यतानुपगमात् । कदाचिकार्यत्वोपगमे वाभिव्यक्तिवादविरोधात् , तदभिव्यक्तिकाल एतस्याभिव्यंगत्वं नान्यथेत्यसिद्धं सर्वदाभिव्यंगत्वं न मंतव्यं, अभिव्यक्तियोग्यत्वस्य हेतुत्वात् । तत एव न परस्य घटादिभिरनैकांतिकं तेषां कार्यत्वे सत्यभिव्यंग्यत्वस्याशाश्वतिकत्वात् । स्याद्वादिनां तु सर्वस्य कथंचिन्नित्यत्वान्न केनचिद्व्यभिचारः ।
कुंभादिभिरनेकांतो न स्यादेव कथंचन ।
तेषां मतं गुरुत्वेन परैरिष्टः प्रतीतितः॥१०५॥ न ह्येकांतनश्वरा घटादयः प्रदीपादिभिरभिव्यंग्या नाम नाशकांतेऽभिव्यंग्याभिव्यंजकभावस्य विरोधानित्यैकांतवत् । जात्यंतरे तस्य प्रतीयमानत्वादिति प्रतिपक्षापेक्षया न घटादिभिरनेकांतः साधनस्य ! ततः कथंचिच्चैतन्यनित्यताप्रसक्तिभयान शरीरादयश्चित्ताभिव्यंजकाः प्रतिपादनीयाः । शब्दस्य ताल्वादिवत् तेभ्यश्चैतन्यमुत्पाद्यत इति क्रियाध्याहारामंजत इति क्रियाध्याहारस्य पौरंदरस्यायुक्तत्वात् कारका एव शरीरादयस्तस्येति चानुपपन्नं, तेषां सहकारित्वेनोपादानत्वेन वा कारकत्वायोगादित्युपदर्शयन्नाह
नापि ते कारका वित्तभवंति सहकारिणः।
खोपादानविहीनायास्तस्यास्तेभ्योऽप्रसूतितः ॥१०७॥ खोपादानरहिताया वित्तेः शरीरादयः कारकाः शब्दादेस्ताल्वादिवदिति चेन्न । असिद्धत्वात् । तथाहि---
नोपादानादिना शब्दो विद्युदादेः प्रवर्तते । कार्यत्वात्कुंभवद्यद्यदृष्टकल्पनमत्र ते ॥ १०८॥ क काष्ठांतर्गतादग्नेरग्यंतरसमुद्भवः ।
तस्याविशेषतो येन तत्त्वसंख्या न हीयते ॥ १०९ ॥ प्रत्यक्षतोऽप्रतीतस्य शब्दाद्युपादानस्यानुमानात्साधने परस्य यद्यदृष्टकल्पनं तदा प्रत्यक्षतोऽप्रतीतात्काष्ठांतर्गतादग्नेरनुमीयमानादम्यंतरसमुद्भवसाधने तददृष्टकल्पनं कथं न स्याद्भूतवादिनः सर्वथा विशेषाभावात् । काष्ठादेवानलोत्पत्तौ क तत्त्वसंख्याव्यवस्था काष्ठोपादेयस्यानलस्य काष्ठेतरत्वाभावात् पृथिवीत्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org