________________
प्रथमोऽध्यायः ।
प्रसक्तेः । पार्थिवानां च मुक्ताफलानां खोपादाने जलेऽन्तर्भावाज्जलत्वापत्तेर्जलस्य च चंद्रकांतादुद्भवतः पार्थिवत्त्वानतिक्रमात् । यदि पुनः काष्ठादयोऽनलादीनां नोपादानहेतवस्तदानुपादानानलाद्युत्पत्तिः कल्पनीया । सा च न युक्ता प्रमाणविरोधात् । ततः स्वयमदृष्टस्यापि पावकाद्युपादानस्य कल्पनायां चितोप्युपादानमवश्यमभ्युपेयम् ।
सूक्ष्मो भूतविशेषश्चेदुपादानं चितो मतम् । स एवात्मास्तु चिजातिसमन्वितवपुर्यदि ॥ ११० ॥ तद्विजातिः कथं नाम चिदुपादानकारणम् । भवतस्तेजसोंभोवत्तथैवादृष्टकल्पना ॥ १११ ॥ सत्त्वादिना समानत्वाच्चिदुपादानकल्पने । क्ष्मादीनामपि तत्केन निवार्येत परस्परम् ॥ ११२ ॥ येन नैकं भवेत्तत्त्वं क्रियाकारकघाति ते । पृथिव्यादेरशेषस्य तत्रैवानुप्रवेशतः ॥ ११३ ॥
सूक्ष्मभूतविशेषश्चैतन्येन सजातीयो विजातीयो वा तदुपादानं भवेत् ? सजातीयश्चेदात्मनो नामांतरेणाभिधानात्परमतसिद्धिः । विजातीयश्चेत् कथमुपादानमर्जलवत् । सर्वथा विजातीयस्याप्युपादानत्वे सैवादृष्टकल्पना । गोमयादेर्वृश्चिकस्योत्पत्तिदर्शनान्नादृष्टकल्पनेति चेत्, न । वृश्चिकशरीरगोमययोः पुद्गलद्रव्यत्वेन सजातीयत्वात् तयोरुपादानोपादेयतापायाच्च । वृश्चिकशरीरारंभका हि पुद्गलास्तदुपादानं न पुनर्गोमयादिस्तस्य सहकारित्वात् । सत्त्वेन द्रव्यत्वादिना वा सूक्ष्मभूतविशेषस्य सजातीयत्वाचेतनोपादानत्वमिति, तत एव क्ष्मादीनामन्योन्यमुपादानत्वमस्तु निवारकाभावात् । तथा सति तेषां परस्परमनंतर्भावः तदंतर्भावो वा स्यात् ? प्रथमपक्षे चैतन्यस्यापि भूतेष्वंतर्भावाभावात् तत्त्वांतरत्वसिद्धिः । द्वितीयपक्षे तत्त्वमेकं प्रसिद्ध्येत् पृथिव्यादेः सर्वत्र तत्रैवानुप्रवेशनात् । तच्चायुक्तं क्रियाकारकघातित्वात् । तस्माद्रव्यांतरापोढखभावान्वयि कथ्यताम् ।
उपादानं विकार्यस्य तत्त्वभेदोऽन्यथा कुतः ॥ ११४ ॥
तत्त्वमुपादानत्वं विकार्यत्वं च तद्भेदो द्रव्यांतरव्यावृत्तेन स्वभावेनान्वयित्वे सत्युपादानोपादेययोर्युक्तोर्नान्यथातिप्रसंगादित्युपसंहर्तव्यं । तथा च सूक्ष्मस्य भूतविशेषस्याचेतनद्रव्यव्यावृतस्वभावेन चैतन्य - मनुगच्छतस्तदुपादानत्वमिति वर्णादिरहितः स्वसंवेद्योऽनुमेयो वा स एवात्मा पंचतत्त्वमनात्मज्ञस्य परलोकप्रतिषेधासंभवव्यवस्थापनपरतया प्रसिद्ध्यत्येवेति निगद्यते ॥
Jain Education International
२९
सूक्ष्मो भूतविशेषश्च वर्णादिपरिवर्जितः । स्वसंवेदन वेद्यो यमनुमेयोथवा यदि ॥ ११५ ॥ सर्वथा पंचमं भूतमनात्मज्ञस्य सिद्ध्यति । स एव परलोकीति परलोकक्षतिः कथम् ॥ ११६ ॥
नेदृशो भूतविशेषश्चैतन्यस्योपादानं किंतु शरीरादय एव तेषां सहकारित्वेन कारकत्वपक्षानाश्रयादिति चेत् ।
शरीरादय एवास्य यद्युपादानहेतवः ।
तदा तद्भावभावित्वं विज्ञानस्य प्रसज्यते ॥ ११७ ॥
For Private & Personal Use Only
www.jainelibrary.org