________________
३०
तत्त्वार्थश्लोकवार्तिके
व्यतीतपींद्रियेऽर्थे च विकल्पज्ञानसंभवात् । न तद्धेतुत्वमेतस्य तस्मिन्सत्यप्यसंभवात् ॥ ११८ ॥ कायश्चेत्कारणं यस्य परिणामविशेषतः । सद्यो मृततनुः कस्मात्तथा नास्त्रीयतेमुना ॥ ११९ ॥ वायुविश्लेषतस्तस्य वैकल्याच्चेन्निबंधनम् । चैतन्यमिति संप्राप्तं तस्य सद्भावभावतः ॥ १२० ॥ सामग्रीजनिका नैकं कारणं किंचिदीक्ष्यते । विज्ञाने पिष्टतोयादिर्मदशक्ताविवेति चेत् ॥ १२१ ॥ संयुक्ते सति किं न स्यात्क्ष्मादिभूतचतुष्टये । चैतन्यस्य समुद्भूतिः सामग्र्या अपि भावतः ॥ १२२ ॥ तद्विशिष्टविवर्तस्यापायाच्चेत्स क इष्यते । भूतव्यक्त्यंतरासंग ः पिठिरादावपीक्ष्यते ॥ १२३ ॥ कालपर्युषितत्वं चेत्पिष्टादिवदुषेयते । तत्किं तत्र न संभाव्यं येन नातिप्रसज्यते ॥ १२४ ॥ भूतानि कतिचित्किंचित्कर्तुं शक्तानि केनचित् । परिणामविशेषेण दृष्टानीति मतं यदि ॥ १२५ ॥ तदा देहींद्रियादीनि चिद्विशिष्टानि कानिचित् । चिद्विवर्तसमुद्भूतौ तु शक्तानि सर्वदा ॥ १२६ ॥ तथा सति न दृष्टस्य हानिर्नादृष्टकल्पना । मध्यावस्थावदादौ च चिद्देहादेचिदुद्भवात् ॥ १२७ ॥ ततश्च चिदुपादानाच्चेतनेति विनिश्चयात् । न शरीरादयस्तस्याः संत्युपादानहेतवः ॥ १२८ ॥
तदेवं न शरीरादिभ्योभिव्यक्तिवदुत्पत्तिश्चैतन्यस्य घटते सर्वथा तेषां व्यंजकत्ववत्कारकत्वानुपपत्तेः ॥ एतेन देहचैतन्यभेदसाधनमिष्टकृत् । कार्यकारणभावेनेत्येतद्धस्तं निबुद्ध्यताम् ।। १२९ ॥
निरस्ते हि देहचैतन्ययोः कार्यकारणभावे व्यंग्यव्यंजकभावे च तेन तयोर्भेदसाधने सिद्धसाधनमित्येतन्निरस्तं भवति तत्त्वांतरत्वेन तद्भेदस्य साध्यत्वात् । न च यद्यस्य कार्यं तत्ततस्तत्त्वांतरमतिप्रसंगात् । नापि खात्मभूतं व्यंग्यं तत एव । व्यंजकाद्भिन्नं तत्तत्त्वांतरमिति चेन्न । अभ्यो रसनस्य तद्भावप्रसंगात् । रसनं हि व्यंग्यमद्भ्यो भिन्नं च ताभ्यो न च तत्त्वांतरं तस्याप्तत्त्वतर्भावात् । कार्यकारणयोः सर्वथा भेदात्तद्विशेषयोर्व्यग्यव्यंजकयोरपि भेद एवेति चेन्न । कयोश्चिदभेदोपलब्धेः । कथमन्यथा चैतन्यस्य देहोपादानत्वेपि तत्त्वांतरता न स्यात्, देहाभिव्यंग्यत्वे वा । येन कार्यकारणभावेन देहचैतन्य - योर्भेदे साध्ये सिद्धसाधनमुद्भाव्यते ॥
Jain Education International
देहस्य च गुणत्वेन बुद्धेर्या सिद्धसाध्यता ।
भेदे साध्येतयोः सापि न साध्वी तदसिद्धितः ॥ १३० ॥
For Private & Personal Use Only
www.jainelibrary.org