________________
प्रथमोऽध्यायः । कथं देहगुणत्वेन बुद्धेरसिद्धिर्यतो बुद्धिदेहयोर्गुणगुणिभावेन भेदसाधने सिद्धसाधनमसाधीयः स्यादिति ब्रूमहे ।
न विग्रहगुणो बोधस्तत्रानध्यवसायतः।
स्पर्शादिवत्स्वयं तद्वदन्यस्यापि तथा गतेः॥१३१ ।। न हि यथेह देहे स्पर्शादय इति खस्य परस्य वाध्यवसायोस्ति तथैव देहे बुद्धिरिति येनासौ देहगुणः स्यात् । प्राणादिमति काये चेतनेत्यस्त्येवाध्यवसायः कायादन्यत्र तदभावादिति चेत् । न । तस्य बाधकसद्भावात्सत्यतानुपपत्तेः । कथम्
तद्गुणत्वे हि बोधस्य मृतदेहेपि वेदनम् ।
भवेत्त्वगादिवद्वाह्यकरणज्ञानतो न किम् ॥ १३२ ।। बायेंद्रियज्ञानग्राह्यो बोधोस्तु देहगुणत्वात् स्पर्शादिवद्विपर्ययो वा न च बोधस्य बाह्यकरणज्ञानवेद्यत्वमित्यतिप्रसंगविपर्ययौ देहगुणत्वं बुद्धेर्बाधेते ॥
सूक्ष्मत्वान्न कचिद्वाह्यकरणज्ञानगोचरः। परमाणुवदेवायं बोध इत्यप्यसंगतम् ॥ १३३ ॥ जीवत्कायपि तत्सिद्धेरव्यवस्थानुषंगतः।
खसंवेदनतस्तावद् बोधसिद्धौ न तद्गुणः ॥ १३४ ॥ न क्वचिद्वोधो बाह्यकरणज्ञानविषयः प्रसज्यतां देहगुणत्वात् तस्य देहारंभकपरमाणुरूपादिभिर्व्यभिचारातेषां बहिःकरणत्वाविषयत्वेपि देहगुणत्वस्य भावात् । न च देहावयवगुणा देहगुणा न भवंति सर्वथावययावयविनोर्भेदाभावादित्यसंगतं । जीवदेहेपि तत्सिद्धेर्व्यवस्थाभावानुषंगात् । तत्र तव्यवस्था हि इंद्रियजज्ञानात्वसंवेदनाद्वा ? न तावदाद्यः पक्षो, बोधस्याबाह्यकरणज्ञानगोचरत्ववचनात् । द्वितीयपक्षे तु न बोधो देहगुणः खसंवेदनवेद्यत्वादन्यथा स्पर्शादीनामपि खसंविदितत्वप्रसंगात् । यत्पुनर्जीवत्कायगुण एव बोधो न मृतकायगुणो येन तत्र बायेंद्रियाविषयत्वे जीवत्कायेपि बोधस्य तद्विषयत्वमापद्यतेति मतं । तदप्यसत् । पूर्वोदितदोषानुषंगात् । अभ्युपगम्योच्यते ॥
जीवत्कायगुणोप्येष यद्यसाधारणो मतः।
प्राणादियोगवन्नस्यात्तदानिंद्रियगोचरः॥ १३५ ॥ जीवत्काये सत्युपलंभादन्यत्रानुपलंभान्नायमजीवत्कायगुणोऽनुमानविरोधात् । किं तर्हि ? यथा प्राणादिसंयोगो जीवत्कायस्यैव गुणस्तथा बोधोपीति चेत् , तद्वदेवेंद्रियगोचरः स्यात् । न हि प्राणादिसंयोगः स्पर्शनेंद्रियागोचरः प्रतीतिविरोधात् । कश्चिदाह । नायं जीवच्छरीरस्यैव गुणस्ततः प्रागपि पृथिव्यादिषु भावादन्यथात्यंतासतस्तत्रोपादानायोगाद्गगनांभोजवत् , साधारणस्तु स्यात्तदोषाभावादिति । तदसत् ॥
साधारणगुणत्वे तु तस्य प्रत्येकमुद्भवः।।
पृथिव्यादिषु किं न स्यात् स्पर्शसामान्यवत्सदा ॥ १३६ ॥ जीवत्कायाकारेण परिणतेषु पृथिव्यादिषु बोधस्योद्भवस्तथा तेनापरिणतेष्वपि स्यादेवेति सर्वदानुद्भवो न भवेत् स्पर्शसामान्यस्येव साधारणगुणत्वोपगमात् । प्रदीपप्रभायामुष्णस्पर्शस्यानुद्भूतस्य दर्शनात् साध्यशून्यं निदर्शनमिति न शंकनीयं, तस्यासाधारणगुणत्वात्साधारणस्य तु स्पर्शमात्रस्य प्रत्येकं पृथिव्यादि भेदेष्वशेषेषुद्भवप्रसिद्धेः । परिणामविशेषाभावात् न तत्र चैतन्यस्योद्भूतिरिति चेत् , तर्हि परिणाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org