________________
तत्त्वार्थश्लोकवार्तिके विशिष्टभूतगुणो बोध इत्यसाधारण एवाभिमतः । तत्र चोक्तो दोषः । तत्परिजिहीर्षणावश्यमदेहगुणो बोधोऽभ्युपगंतव्यः । इति न देहचैतन्ययोर्गुणगुणिभावेन भेदः साध्यते येन सिद्धसाध्यता स्यात् , ततोऽनवद्यं तयोर्भेदसाधनं । किं च ।।
अहं सुखीति संवित्तौ सुखयोगो न विग्रहे । बहिःकरणवेद्यत्वप्रसंगानेंद्रियेष्वपि ॥ १३७ ॥ कर्तृस्थस्यैव संवित्तेः सुखयोगस्य तत्त्वतः । पूर्वोत्तरविदां व्यापी चिद्विवर्तस्तदाश्रयः॥ १३८ ॥ स्याद्गुणी चेत् स एवात्मा शरीरादिविलक्षणः।
कतानुभविता स्मतानुसंधाता च निश्चितः ॥ १३९॥ सुखयोगात्सुख्यहमिति संवित्तिस्तावत्प्रसिद्धा । तत्र कस्य सुखयोगो न विषयस्येति प्रत्येयं(?) ततः कर्तृरूपः कश्चित्तदाश्रयो वाच्यस्तदभावे सुख्यहमिति कर्तृस्थसुखसंवित्त्यनुपपत्तेः । स्यान्मतं । पूर्वोत्तरसुखादिरूपचैतन्य विवर्तव्यापी महाचिद्विवर्तः कार्यस्येव सुखादिगुणानामाश्रयः कर्ता, निराश्रयाणां तेषामसंभवात् । निरंशसुखसंवेदने चाश्रयाश्रयिभावस्य विरोधात्तस्य भ्रांतत्वायोगात् बाधकाभावात्तथा स्वयमनिष्टश्चेति । तर्हि स एवात्मा कर्ता शरीरेंद्रियविषयविलक्षणत्वात् । तद्विलक्षणोसौ सुखादेरनुभवितृत्वात् , तदनुभवितासौ तत्स्मर्तृत्वात् , तत्मासौ तदनुसंधातृत्वात् , तदनुसंधातसौ य एवाहं यं सुखमनुभूतवान् स एवाहं संप्रति हर्षमनुभवामीति निश्चयस्यासंभवबाधकस्य सद्भावात् । नन्वस्तु नाम कर्तृत्वादिखभावचैतन्यसामान्यविवर्तः कायादर्थातरसुखादिचैतन्यविशेषाश्रयो गर्भादिमरणपर्यतः सकलजनप्रसिद्धत्वात्तत्त्वांतरं, चत्त्वार्येव तत्त्वानीत्यवधारणस्याप्यविरोधात्तस्याप्रसिद्धतत्त्वप्रतिषेधपरत्वेन स्थितत्वात् , न पुनरनायंतात्मा प्रमाणाभावादिति वदंतं प्रति ब्रूमहे;
द्रव्यतोनादिपर्यंतः सत्त्वात् क्षित्यादितत्त्ववत् । स स्यान्न व्यभिचारोस्य हेतो शिन्यसंभवात् ॥ १४० ॥ कुंभादयो हि पर्यंता अपि नैकांतनश्वराः। शाश्वतद्रव्यतादात्म्यात्कथंचिदिति नो मतम् ॥ १४१॥ यथा चानादिपर्यंततद्विपर्ययरूपता। घटादेरात्मनोप्येवमिष्टा सेत्यविरुद्धता ॥ १४२॥ सर्वथैकांतरूपेण सत्त्वस्य व्यास्यसिद्वितः।
बहिरंतरनेकांतं तद्व्याप्नोति तथेक्षणात् ॥ १४३ ॥ द्रव्यार्थिकनयादनाद्यंतः पुरुषः सत्त्वात् पृथिव्यादितत्त्ववदित्यत्र न हेतोरनैकांतिकत्वं प्रतिक्षणविनश्वरे कचिदपि विपक्षेऽनवतारात् । कुंभादिभिः पर्ययैरनेकांत इति चेन्न । तेषां नश्वरैकांतत्वाभावात् । तेपि हि नैकांतनाशिनः, कथंचिन्नित्यद्रव्यतादात्म्यादिति स्याद्वादिनां दर्शनं । “नित्यं तत्प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा । क्षणिकं कालभेदात्ते बुद्ध्यसंचरदोषतः” इति वचनात् । नन्वेवं सर्वस्यानादिपर्यंततासादिपर्यंतताभ्यां व्याप्तत्वात् विरुद्धता स्यादिति चेन्न । आत्मनोनैकांतानादिपर्यंततायाः साध्यत्ववचनात् । यथैव हि घटादेरनाद्यनंततेतररूपत्वे सति सत्त्वं तथात्मन्यपीष्टमिति क विरुद्धत्वं? कथं तर्हि सत्त्वमनेकांतकांतेन व्याप्तं येनात्मनोनाद्यनंतेतररूपतया साध्यत्वमिष्यत इति चेत् । सर्वथैकांतरूपेण तस्य व्याप्त्यसिद्धेः । बहिरंतश्चानेकांततयोपलंभात् , अनेकांतं वस्तु सत्त्वस्य व्यापकमिति निवेदयिष्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org