________________
प्रथमोऽध्यायः । बृहस्पतिमतस्थित्या व्यभिचारो घटादिभिः।
न युक्तोतस्तदुच्छित्तिप्रसिद्धेः परमार्थतः ॥ १४४॥ यतश्चैवं परमार्थतो घटादीनामपि नित्यानित्यात्मकत्वं सिद्धं ततो वृहस्पतिमतानुष्ठानेनापि न सत्त्वस्य घटादिभिर्व्यभिचारो युक्तस्तेन तस्यानैकांतेनाबाधितत्वात् । न च प्रमाणासिद्धेन परोपगममात्रात् केनचिद्धेतोर्व्यभिचारचोदने कश्चिद्धेतुरव्यभिचारी स्यात् । वादिप्रतिवादिसिद्धेन तु व्यभिचारेण सत्त्वं कथंचिदनादिपर्यंतत्वे साध्ये व्यभिचारीति व्यर्थमस्याहेतुकत्वविशेषणं । अहेतुकत्वस्य हेतुकत्वे सत्त्वविशेषणवत् प्रागभावेन व्यभिचारस्य सत्त्वविशेषणेन व्यवच्छिद्यत इति तद्व्यर्थमिति चेत् । न । सर्वस्य तुच्छस्य प्रागभावत्वस्याप्रसिद्धत्वात् । भावांतरस्य भावस्य नित्यानित्यात्मकत्वाद्विपक्षतानुपपत्तेस्तेन व्यभिचारासंभवात् । ततो युक्तं सत्त्वस्याविशेषस्य हेतुत्वमहेतुकत्ववदिति । ततो भवत्येव साध्यसिद्धिः ॥
साध्यसाधनवैकल्यं दृष्टांतेपि न वीक्ष्यते ।
नित्यानित्यात्मतासिद्धिः पृथिव्यादेरदोषतः ॥ १४५ ॥ न ह्येकांतानाद्यनंतत्वमंतस्तत्त्वस्य साध्यं येन पृथिव्यादिषु तदभावात् साध्यशून्यमुदाहरणं । नापि तत्र सत्त्वमसिद्धं यतः साधनवैकल्यं । तदसिद्धौ मतांतरानुसरणप्रसंगात् । ततोऽनवद्यमनाद्यनंतत्वसाधनमात्मनस्तत्त्वांतरत्वसाधनवत् । सत्यमनाद्यनंतं चैतन्यं संतानापेक्षया न पुनरेकान्वयिद्रव्यापेक्षया क्षणिकचित्तानामन्वयानुपपत्तेरित्यपरः । सोप्यनात्मज्ञः । तदनन्वयत्वस्यानुमानबाधितत्वात् । तथाहि
एकसंतानगाश्चित्तपर्यायास्तत्त्वतोन्विताः।
प्रत्यभिज्ञायमानत्वात् मृत्पयोया यथेदृशाः॥१४६ ॥ मृत्क्षणास्तत्त्वतोन्विताः परस्यासिद्धा इति न मंतव्यं तत्रान्वयापह्नवे प्रतीतिविरोधात् । सकललोकसाक्षिका हि मृद्धेदेषु तथान्वयप्रतीतिः । सैवेयं पूर्व दृष्टा मृदिति प्रत्यभिज्ञानस्याविसंवादिनः सद्भावात् ॥
सादृश्यात् प्रत्यभिज्ञानं नानासंतानभाविनाम् ।
भेदानामिव तत्रापीत्यदृष्टपरिकल्पनम् ॥ १४७॥ यथा नानासंतानवर्तिनां मृझेदानां सादृश्यात् प्रत्यभिज्ञायमानत्वं तथैकसंतानवर्तिनामपीति ब्रुवतामदृष्टपरिकल्पनामात्रं प्रतिक्षणं भूयात्तथा तेषामदृष्टत्वात् । तदेकत्वमपि न दृष्टमेवेति चेन्नैतत्सत्यम् ।
तदेवेदमिति ज्ञानादेकत्वस्य प्रसिद्धितः।
सर्वस्याप्यस्खलद्रूपात् प्रत्यक्षाढ़ेदसिद्धिवत् ॥ १४८ ॥ यथैव हि सर्वस्य प्रतिपत्तुरर्थस्य चास्खलितात्प्रत्यक्षादेर्भेदसिद्धिस्तथा प्रत्यभिज्ञानादेरेकत्वसिद्धिरपीति दृष्टमेव तदेकत्वं । प्रत्यभिज्ञानमप्रमाणं संवादनाभावादिति चेत् । प्रत्यक्षमपि प्रमाणं मा भूत् तत एव । न हि प्रत्यभिज्ञानेन प्रतीते विषये प्रत्यक्षस्यावर्तमानात्तस्य संवादनाभावो न पुनः प्रत्यक्षप्रतीते प्रत्यभिज्ञानस्याप्रवृत्तेः प्रत्यक्षस्येत्याचक्षाणः परीक्षको नाम । न प्रत्यक्षस्य खार्थे प्रमाणांतरवृत्तिः संवादनं । किं तर्हि ? अबाधिता संवित्तिरिति चेत् ।
यथा भेदस्य संवित्तिः संवादनमबाधिता ।
तथैकत्वस्य निर्णीतिः पूर्वोत्तरविवर्तयोः॥ १४९ ॥ कथं पूर्वोत्तरविवर्तयोरेकत्वस्य संवित्तिरवाधिताया संवादनमिति चेत् । भेदस्य कथमिति समः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org