________________
३४
तत्त्वार्थश्लोकवार्तिके
पर्यनुयोगः । तस्य प्रमाणांतरत्वादतद्विषयेण बाघनासंभवादवाधिता संवित्तिरिति चेत् । तर्ह्येकत्वस्य प्रत्यभिज्ञानविषयत्वस्याध्यक्षादेरगोचरत्वात्तेन बाधनासंभवादबाधिता संवित्तिः किं न भवेत् ? कथं प्रत्यभिज्ञानविषयः प्रत्यक्षेणापरिच्छेद्यः ? प्रत्यभिज्ञानविषयः कथमिति समानं । तथा योग्यताप्रतिनियमादिति चेतहि
वर्तमानार्थविज्ञानं न पूर्वापरगोचरम् ।
योग्यतानियमात्सिद्धं प्रत्यक्षं व्यावहारिकम् ॥ १५० ॥ यथा तथैव संज्ञानमेकत्वविषयं मतम् । न वर्तमानपर्यायमात्रगोचरमीक्ष्यते ॥ १५१ ॥
द्विषयतया प्रतीयते तत्तद्विषयमिति व्यवस्थायां वर्तमानार्थाकारविषयतया समीक्ष्यमाणं प्रत्यक्षं तद्विषयं, पूर्वापरविवर्तवर्त्येकद्रव्य विषयतया तु प्रतीयमानं प्रत्यभिज्ञानं तद्विषयमिति को नेच्छेत् । नन्वनुभूतानुभूयमानपरिणामवृत्तेरेकत्वस्य प्रत्यभिज्ञानविषयत्वेऽतीतानुभूताखिलपरिणामवर्तिनोऽनागत
परिणामवर्तिनश्च तद्विषयत्वप्रसक्तिः, भिन्नकालपरिणामवर्तित्वाविशेषात्, अन्यथानुभूतानुभूयमानपरिणामवर्तिनोपि तदविषयत्वापत्तेरिति चेत् । तर्हि सांप्रतिकपर्यायस्य प्रत्यक्षविषयत्वे कस्यचित्सकलदेशवर्तिनोप्यध्यक्षविषयता स्यादन्यथेष्टस्यापि तदभावः, सांप्रतिकत्वाविशेषात् । तदविशेषेपि योग्यताविशेषात् सांप्रतिकाकारस्य कस्यचिदेवाध्यक्ष विषयत्वं न सर्वस्येति चेत्तर्हि -
यथैव वर्तमानार्थग्राहकत्वेपि संविदः । सर्वसांप्रतिकार्थानां वेदकत्वं न बुद्ध्यते ॥ १५२ ॥ तथैवानागतातीतपर्यायैकत्ववेदिका ।
वित्तिर्नानादिपर्यंत पर्यायैकत्वगोचरा ॥ १५३ ॥
यथा वर्तमानार्थज्ञानावरणक्षयोपशमाद्वर्तमानार्थस्यैव परिच्छेदकमक्षज्ञानं तथा कतिपयातीतानागतपर्यायैकत्वज्ञानावरणक्षयोपशमात्तावदतीतानागतपर्यायैकत्वस्यैव ग्राहकं प्रत्यभिज्ञानमिति युक्तमुत्पश्यामः । तस्माच्चैकसंतानवर्तिघटकपालादिमृत्पर्यायाणामन्वयित्वसिद्धेर्नोदाहरणस्य साध्यसाधनविकलत्वं, येन चित्तक्षणसंतानव्याप्ये कोऽन्वितः पुमान्न सिद्ध्येत् । कथमेकः पुरुषः क्रमेणानंतान् पर्यायान् व्याप्नोति ? न तावदेकेन खभावेन सर्वेषामेकरूपापत्तेः । नानाखरूपैर्व्याप्तानां जलानलादीनां नानात्वप्रसिद्धेरन्यथानुपपत्तेः । सत्ताद्येकखभावेन व्याप्तानामर्थानां नानात्वदर्शनात् पुरुषत्वैकस्वभावेन व्याप्तानामप्यनंतपर्यायाणां नानात्वमविरुद्धमिति चायुक्तं, नानार्थव्यापिनः सत्त्वादेरेकखभावत्वानवस्थितेः । कथमन्यथैकस्वभावव्याप्तं किंचिदेकं सिद्ध्येत् । यदि पुनर्नानास्वभावैः पुमाननंतपर्यायान् व्याप्नुयात्तदा ततः स्वभावानामभेदे तस्य नानात्वं तेषां चैकत्वमनुषज्येत; भेदे संबंधासिद्धेर्व्यपदेशानुपपत्तिः । संबंधकल्पनायां किमेकेन स्वभावेन पुमान् स्वस्वभावैः संबध्यते नानाखभावैर्वा ? प्रथमकल्पनायां सर्वस्वभावानामेकतापत्तिः, द्वितीयकल्पनायां ततः स्वभावानामभेदे च स एव दोषः, अनिवृतखपर्यनुयोगः, इत्यनवस्थानात्, कुतोऽनंतपर्यायवृत्तिरात्मा व्यवतिष्ठेतेति केचित् । तेपि दूषणाभासवादिनः । कथम्—
क्रमतोऽनंतपर्यायानेको व्याप्नोति ना सकृत् ।
यथा नानाविधाकारांश्चित्रज्ञानमनंशकम् ॥ १५४ ॥
चित्रज्ञानमनंशमेकं युगपन्नानाकारान् व्याप्नोतीति खयमुपनयन् क्रमतोऽनंतपर्यायान् व्याप्नुवन्तमात्मानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org