________________
प्रथमोऽध्यायः । प्रतिक्षिपतीति कथं मध्यस्थः । तत्र समाधानाक्षेपयोः समानत्वात् । नन्वनेकोपि चित्रज्ञानाकारोशक्यविवेचनत्वादेको युक्त इति चेत्
यद्यनेकोपि विज्ञानाकारोऽशक्यविवेचनः ।
स्यादेकः पुरुषोऽनंतपर्यायोपि तथा न किम् ॥ १५५ ॥ क्रमभुवामात्मपर्यायाणामशक्यविवेचनत्वमसिद्धमिति मानिश्चैषीः । यस्मात्
यथैकवेदनाकारा न शक्या वेदनांतरम् ।
नेतुं तथापि पर्याया जातुचित्पुरुषांतरम् ॥ १५६ ॥ ननु चात्मपर्यायाणां भिन्नकालतया वित्तिरेव शक्यविवेचनत्वमिति चेत्तर्हि चित्रज्ञानाकाराणां भिन्नदेशतया वित्तिर्विवेचनमस्तीत्यशक्यविवेचनत्वं माभूत् । तथाहि
भिन्नकालतया वित्तिर्यदि तेषां विवेचनम् ।
भिन्नदेशतया वित्तिानाकारेषु किं न तत् ॥ १५७ ॥ न हि चित्रपटीनिरीक्षणे पीताद्याकाराश्चित्रभेदनस्य भिन्नदेशा न भवंति ततो बहिस्तेषां भिन्नदेशताप्रतिष्ठानविरोधात् । न ह्यभिन्नदेशपीताद्याकारानुकारिणश्चित्रवेदनाद्भिन्नदेशपीताद्याकारो बहिरर्थश्चित्रः प्रत्येतुं शक्योऽपीताकारादपि ज्ञानात्पीतप्रतीतिप्रसंगात् ॥
पीताकारादिसंवित्तिः प्रत्येकं चित्रवेदना ।
न चेदनेकसंतानपीतादिज्ञानवन्मतम् ॥ १५८ ॥ चित्रपटीदर्शने प्रत्येकं पीताकारादिवेदनं न चित्रज्ञानं क्रमाद्भिन्नदेशविषयत्वात्तादृशानेकसंतानपीतादिज्ञानवदिति मतं यदि ।
सह नीलादिविज्ञानं कथं चित्रमुपेयते ।
युगपद्भाविरूपादिज्ञानपंचकवत्त्वया ॥ १५९ ॥ शक्यं हि वक्तुं शष्कुलीभक्षणादौ सहभाविरूपादिज्ञानपंचकमिव नीलादिज्ञानं सकृदपि न चित्रमिति । सहभावित्वाविशेषात् । तदविशेषेपि पीतादिज्ञानं चित्रमभिन्नदेशत्वाच्चित्रपतंगादौ न पुना रूपादिज्ञानपंचकं क्वचिदिति न युक्तं वक्तुं, तस्याप्यभिन्नदेशत्वात् । न हि देशभेदेन रूपादिज्ञानपञ्चकं सकृत् खस्मिन् वेद्यते, युगपज्ज्ञानोत्पत्तिवादिनस्तथानभ्युपगमात् । ननु चादेशत्वाच्चित्रचैतसिकानामभिन्नाभिन्नदेशत्वचिंता श्रेयसीति चेत्, कथं भिन्नदेशत्वाच्चित्रपटीपीतादिज्ञानानां चित्रत्वाभावः साध्यते, संव्यवहारात्तेषां तत्र भिन्नदेशत्वासिद्धेः । तत्साधने तत एव शष्कुलीभक्षणादौ रूपादिज्ञानानामभिन्नदेशत्वसिद्धेः, सहभाविस्वसिद्धेश्व। तद्वत्सकृदपि पीतादिज्ञानं चित्रमेकं माभूत् । यदि पुनरेकज्ञानतादात्म्येन पीताद्याभासानामनुभवनात्तद्वेदनं चित्रमेकमिति मतं, तदा रूपादिज्ञानपंचकस्यैकसंतानात्मकत्वेन संवेदनादेकं चित्रज्ञानमस्तु । तस्यानेकसंतानात्मकत्वे पूर्वविज्ञानमेकमेवोपादानं न स्यात् । पूर्वानेकविज्ञानोपादानमेकरूपादिज्ञानपंचकमिति चेत्, तर्हि भिन्नसंतानत्वात्तस्यानुसंधानविकल्पजनकत्वाभावः । पूर्वानुसंधान विकल्पवासना तज्जनिकेति चेत्, कुतोहमेवास्य दृष्टा स्पृष्टा घ्राता खादयिता श्रोतेत्यनुसंधानवेदनं? रूपादिज्ञानपंचकानंतरमेवेति नियमः संभाव्यतां, तस्य तद्वासनाप्रबोधकत्वादिति चेत् , कुतस्तदेव तस्याः प्रबोधकं ? तथा दृष्टत्वादिति चेन्न, अन्यथापि दर्शनात् । प्रागपि हि रूपादिज्ञानपंचकोत्पत्तेरहमस्य द्रष्टा भविष्यामीत्याद्यनुसंधानविकल्पो दृष्टः। सत्यं दृष्टः; स तु भविष्यदर्शनाद्यनुसंधानवासनात एव । तत्प्रबोधकश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org