________________
तत्त्वार्थश्लोकवार्तिके
दर्शनाद्यभिमुखीभावो न तु रूपादिज्ञानपंचकमिति तदुत्पत्तेः पूर्वमन्यादृशानुसंधानदर्शनात्तासा नियमप्रतिनियतानुसंधानानां प्रतिनियतवासनाभिर्जन्यत्वात्तासां च प्रतिनियतप्रबोधकप्रत्ययायत्तप्रबोधत्वादिति चेत् । कथमेवमेकत्र पुरुषे नानानुसंधानसंताना न स्युः ? प्रतिनियतत्वेप्यनुसंधानानामेकसंतानत्वं विकल्पज्ञानत्वाविशेषादिति चेत् । किमेवं रूपादिज्ञानानामेतन्न स्यात् ? करणज्ञानत्वाविशेषात् । संतानांतरकरणज्ञानैर्व्यभिचार इति चेत्, तवापि संतानांतरविकल्पविज्ञानैः कुतो न व्यभिचारः ? एकसामग्र्यधीनत्वे सतीति विशेषणाच्चेत्, समानमन्यत्र । तथाक्षमनोज्ञानानामेक संतानत्वमेकसामग्र्यधीनत्वे सति खसंविदितत्वादिति कुतस्तेषां भिन्नसंतानत्वं येन रूपादिज्ञानपंचकस्य युगपद्भाविनः पूर्वेकविज्ञानोपादानत्वं न सिद्ध्येत् । तत्सिद्धौ च तस्यैक संतानात्मकत्वादेकत्वमिति सूक्तं दूषणं नीलाद्याभासमेकं चित्रज्ञानमिच्छतां रूपादिज्ञानपंचकमप्येकं चित्रज्ञानं प्रसज्येतेति ॥
३६
चित्राद्वैताश्रयाच्चित्रं तदप्यस्त्विति चेन्न वै । चित्रमद्वैतमित्येतदविरुद्धं विभाव्यते ॥ १६० ॥
चित्रं ह्यनेकाकारमुच्यते तत्कथमेकं नाम, विरोधात् ।
तस्य जात्यंतरत्वेन विरोधाभावभाषणे । तथैवात्मा सपर्यायैरनंतैरविरोधभाक् ।। १६१ ॥
नैकं नाप्यनेकं । किं तर्हि ? चित्रं चित्रमेव, तस्य जात्यंतरत्वादेकत्वानेकत्वाभ्यामित्यविरुद्धं चित्राद्वैतसंवेदनमात्रं बहिरर्थशून्यमित्युपगमे, पुंसि जात्यंतरे को विरोधः । सोपि हि नैक एव नाप्यनेक एव । किं तर्हि ? स्यादेकः स्यादनेक इति । ततो जात्यंतरं तथाप्रतिभासनादन्यथा सकृदप्यसंवेदनात् । इति नात्मनोनंत पर्यायात्मता विरुद्धा चित्रज्ञानस्य चित्रतावत् ॥
Jain Education International
भ्रांतेयं चित्रता ज्ञाने निरंशेऽनादिवासना |सामर्थ्यादवभासेत स्वप्नादिज्ञानवद्यदि ॥ १६२ ।। तदा भ्रांतेतराकारमेकं ज्ञानं प्रसिद्ध्यति । भ्रांताकारस्य वा सत्त्वे चित्तं सदसदात्मकम् ॥ १६३ ॥ तच्च प्रबाधतेऽवश्यं विरोधं पुंसि पर्ययैः ।
अक्रमैः क्रमवद्भिश्च प्रतीतत्वाविशेषतः ॥ १६४ ॥
चित्राद्वैतमपि माभूत् संवेदनमात्रस्य सकलविकल्पशून्यस्योपगमादित्यपरः । तस्यापि किमध्यारोप्य - माणो धर्मः कल्पना, मनोविकल्पमात्रं वा, वस्तुनः स्वभावो वा ? प्रथमद्वितीयपक्षयोः सिद्धसाधनमित्युच्यते
निःशेषकल्पनातीतं संचिन्मात्रं मतं यदि । तथैवांतर्बहिर्वस्तु समस्तं तत्त्वतोस्तु नः ॥ १६५ ॥ समस्ताः कल्पना हीमा मिथ्यादर्शन निर्मिताः । स्पष्टं जात्यंतरे वस्तुन्यप्रबाधं चकासति ॥ १६६ ॥ अनेकांते पोद्धारबुद्धयोनेकधर्मगाः । कुतश्चित्संप्रवर्ततेऽन्योन्यापेक्षाः सुनीतयः ॥ १६७ ॥ यस्मान्मिथ्यादर्शनविशेषवशान्नित्याद्येकांताः कल्पमानाः स्पष्टं जात्यंतरे वस्तुनि निर्बाधमवभास
For Private & Personal Use Only
www.jainelibrary.org