________________
प्रथमोऽध्यायः। माने तत्त्वतो न संतीति खयमिष्टं, यतश्चानेकांते प्रमाणतः प्रतिपन्ने कुतश्चितामातुर्विवक्षामेदादपोद्धारकल्पनानि क्षणिकत्वाद्यनेकधर्मविषयाणि प्रवर्तते परस्परापेक्षाणि सुनयव्यपदेशभांजि भवंति । तस्मादशेषकल्पनातिक्रांतं तत्त्वमिति सिद्धं साध्यते । न हि कल्प्यमाना धर्मास्तत्त्वं तत्कल्पनमात्रं वा,
अतिप्रसंगात् । तेनांतर्बहिश्च तत्त्वं तद्विनिर्मुक्तमिति युक्तमेव । तृतीयपक्षे तु प्रतीतिविरोधः । । कथम्
परोपगतसंवित्तिरनंशा नावभासते ।
ब्रह्मवत्तेन तन्मानं न प्रतिष्ठामियर्ति नः ॥ १६८ ॥ वस्तुनः खभावाः कल्पनास्ताभिरशेषाभिः सुनिश्चितासंभवद्वाधाभी रहितं संविन्मानं तत्त्वमिति तु न व्यवतिष्ठते तस्यानंशस्य परोपवर्णितस्य ब्रह्मवदप्रतिभासनात् । नानाकारमेकं प्रतिभासनमपि विरोधादसदेवेति चेत्
नानाकारस्य नैकस्मिन्नध्यासोस्ति विरोधतः । ततो न सत्तदित्येतत्सुस्पष्टं राजचेष्टितम् ॥ १६९॥ संवेदनाविशेषेपि द्वयोः सर्वत्र सर्वदा ।
कस्यचिद्धि तिरस्कारे न प्रेक्षापूर्वकारिता ॥ १७॥ - नानाकारस्यैकत्र वस्तुनि नाध्यासो विरोधादिति ब्रुवाणो नानाकारं वा तिरस्कुर्वीतैकत्वं वा ? नानाकरं चेत्सुव्यक्तमिदं राजचेष्टितं, संविन्मात्रवादिनः खरुच्या संवेदनमेंकमनंशं स्वीकृत्य नानाकारस्य संवेद्यमानस्यापि सर्वत्र सर्वदा प्रतिक्षेपात् , तस्य प्रेक्षापूर्वकारित्वायोगात् ॥
तस्मादबाधिता संवित्सुखदुःखादिपर्ययैः ।
समाक्रांते नरे नूनं तत्साधनपटीयसी ॥१७१॥ न हि प्रत्यभिज्ञानमतिः सुखदुःखादिपर्यायात्मके पुंसि केनचिबाध्यते यतस्तत्साधनपटीयसी न स्यात् । ततो नाशेषखभावशून्यस्य संविन्मात्रस्य सिद्धिस्तद्विपरीतात्मप्रतीत्या बाधितत्वात् ॥
नीलवासनया नीलविज्ञानं जन्यते यथा । तथैव प्रत्यभिज्ञेयं पूर्वतद्वासनोद्भवा ॥ १७२ ॥ तद्वासना च तत्पूर्ववासनाबलभाविनी । सापि तद्वदिति ज्ञानवादिनः संप्रचक्षते ॥ १७३ ॥ तेषामप्यात्मनो लोपे संतानांतरवासना ।
समुद्भूता कुतो न स्यात्संज्ञाभेदाविशेषतः॥ १७४॥ यथा नीलवासनया नीलविज्ञानं जन्यते तथा प्रत्यभिज्ञेयं तदेवेदं तादृशमेतदिति वा प्रतीयमाना प्रत्यभिज्ञानवासनयोद्भाव्यते न पुनर्बहिर्भूतेनैकत्वेन सादृश्येन वा येन तद्राहिणी स्यात् । तद्वासना कुत इति चेत् , पूर्वतद्वासनातः, सापि पूर्वखवासनाबलादित्यनादित्वाद्वासनासंततेरयुक्तः पर्यनुयोगः । कथमन्यथा बहिरर्थेपि न संभवेत् । तत्र कार्यकारणभावस्यानादित्वादपर्यनुयोगे पूर्वापरवासनानामपि तत एवापर्यनुयोगोस्तु । कार्यकारणभावस्यानादित्वं हि यथा बहिस्तथांतरमपीति न विशेषः केवलं बहिरर्थोनर्थः परिहृतो भवेत् अशक्यप्रतिष्ठत्वात्तस्येति ज्ञानवादिनः । तेषामपि नेयं प्रत्यभिज्ञा पूर्वखवासनाप्रभवा वक्तुं युक्तान्वयिनः पुरुषस्याभावात् , संतानांतरवासनातोपि तत्प्रभवप्रसंगात्तन्नानात्वाविशेषात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org