SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थश्लोकवार्तिके संतानैकत्वसंसिद्धिनियमात्स कुतो मतः । प्रत्यासत्तेने संतानभेदेप्यस्याः समीक्षणात् ॥ १७५ ॥ व्यभिचारविनिमुक्ता कार्यकारणभावतः। पूर्वोत्तरक्षणानां हि संताननियमो मतः ॥ १७६ ॥ स च बुद्धेतरज्ञानक्षणानामपि विद्यते । नान्यथा सुगतस्य स्यात्सर्वज्ञत्वं कथंचन ॥ १७७ ॥ संतानैक्यात्पूर्ववासना प्रत्यभिज्ञाया हेतुर्न संतानांतरवासनेति चेत् । कुतः संतानैक्यं ? प्रत्यासत्तेश्वेत् , साप्यव्यभिचारी कार्यकारणभाव इष्टस्ततो बुद्धेतरक्षणानामपि स्यात् । न च तेषां स व्यभिचरति बुद्धस्यासर्वज्ञत्वापत्तेः । सकलसत्त्वानां तदकारणत्वे हि न तद्विषयत्वं स्यान्नाकारणं विषय इति वचनात् । सकलसत्त्वचित्तानामालंबनप्रत्ययत्वात् सुगतचित्तस्य न तदेकसंतानतेति चेन्न । पूर्ववचित्तैरपि सहैकसंतानतापायप्रसक्तेस्तदालंबनप्रत्ययत्वाविशेषात् । समनंतरप्रत्ययत्वात् खपूर्वचित्तानां तेनैकसंतानतेति चेत्, कुतस्तेषामिव समनंतरप्रत्ययत्वं न पुनः सकलसत्त्वचित्तानामपीति नियम्यते ? तेषामेकसंतानबर्तित्वादिति चेत् , सोऽयमन्योन्यसंश्रयः । सत्येकसंतानत्वे पूर्वापरसुगतचित्तानामव्यभिचारी कार्यकारणभावस्तस्मिन्सति तदेकसंतानत्वमिति । ततः पूर्वक्षणाभावेनुत्पत्तिरेवोत्तरक्षणस्याव्यभिचारी कार्यकारणभावोभ्युपगंतव्यः । स च खचित्तैरिव सकलसत्त्वचित्तैरपि सहास्ति सुगतचित्तस्येति कथं न तदेकसंतानतापत्तिः ॥ स्वसंवेदनमेवास्य सर्वज्ञत्वं यदीष्यते । संवेदनाद्वयास्थानाद्ता संतानसंकथा ॥ १७८ ॥ न यद्वये संतानो नाम लक्षणभेदे तदुपपत्तेः, अन्यथा सकलव्यवहारलोपात् प्रमाणप्रमेयविचारानवतारात् प्रलापमात्रमवशिष्यते । अभ्युगम्य वा व्यभिचारी कार्यकारणभावं सुगतेतरसंतानैकत्वापत्तेः संताननियमो निरस्यते । तत्त्वतस्तु स एव भेदवादिनोसंभवी केषांचिदेव क्षणानामव्यभिचारी कार्यकारणभाव इति निवेदयति ___कथं चाव्यभिचारेण कार्यकारणरूपता। केषांचिदेव युज्येत क्षणानां भेदवादिनः ॥ १७९ ॥ कालदेशभावप्रत्यासत्तेः कस्यचित्केनचिद्भावाद्भावेपि व्यभिचारान्न भेदैकांतवादिनामव्यभिचारी कार्यकारणभावो नाम । तथाहि कालानंतर्यमात्राचेत्सर्वार्थानां प्रसज्यते । देशानंतर्यतोप्येषा केन स्कंधेषु पंचसु ॥ १८० ॥ भावाः संति विशेषाचेत् समानाकारचेतसाम् । विभिन्नसंततीनां वै किं नेयं संप्रतीयते ॥ १८१॥ यतश्चैव सव्यभिचारेण कार्यकारणरूपता देशानंतर्यादिभ्यो नैकसंतानात्मकत्वामिमतानां क्षणानां व्यवतिष्ठते तस्मादेवमुपादानोपादेयनियमो द्रव्यप्रत्यासत्तेरेवेति परिशेषसिद्धं दर्शयतिः एकद्रव्यस्वभावत्वात्कथंचित्पूर्वपर्ययः। उपादानमुपादेयश्चोत्तरो नियमात्ततः॥ १८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy