________________
प्रथमोऽध्यायः। विवादापन्नः पूर्वपर्यायः स्यादुपादानं कथंचिदुपादेयानुयायिद्रव्यखभावत्वे सति पूर्वपर्यायत्वात् , यस्तु नोपादानं स नैवं यथा तदुत्तरपर्यायः । पूर्वपूर्वपर्यायः कार्यश्च आत्मा वा तदुपादेयाननुयायिद्रव्यखभावो वा सहकार्यादिपर्यायो वा । तथा विवादापन्नस्तदुत्तरपर्याय उपादेयः कथंचित्पूर्वपर्यायानु
यायिद्रव्यखभावत्वे सत्युत्तरपर्यायत्वात् यस्तु नोपादेयः स नैवं यथा तत्पूर्वपर्यायः । तदुत्तरोत्तरपर्यायो वा । पूर्वपर्यायानुयायिद्रव्यखभावो वा तत्खात्मा वा तथा चासाविति नियमात् । ततः सिद्धमुपादानमुपादेयश्च, अन्यथा तत्सिद्धेरयोगात् ॥
एकसंतानवर्तित्वात्तथा नियमकल्पने । पूर्वापरविदोयंक्तमन्योन्याश्रयणं भवेत् ॥ १८३ ॥ कार्यकारणभावस्य नियमादेकसंततिः।
ततस्तनियमश्च स्यान्नान्यातो विद्यते गतिः ॥ १८४ ॥ संतानैक्यादुपादानोपादेयताया नियमे परस्पराश्रयणात्सैव माभूदित्यपि न धीरचेष्टितं, पूर्वापरविदोस्तत्परिच्छेद्ययोर्वा नियमेनोपादानोपादेयतायाः समीक्षणात् । तदन्यथानुपपत्त्या तव्याप्येकद्रव्यस्थितेरिति तद्विषयं प्रत्यभिज्ञानं तत्परिच्छेदकमित्युपसंहरति
तस्मात्स्वावृत्तिविश्लेषविशेषवशवर्तिनः। पुंसः प्रवर्तते खार्थकत्वज्ञानमिति स्थितम् ॥ १८५ ॥ संतानवासनाभेदनियमस्तु क लभ्यते।
नैरात्म्यवादिभिर्न स्यायेनात्मद्रव्यनिर्णयः॥ १८६ ॥ तस्मान्न द्रव्यनैरात्म्यवादिनां संतानविशेषाद्वासनाविशेषाद्वा प्रत्यभिज्ञानप्रवृत्तिस्तन्नियमस्य लब्धुमशक्तेः । किं तर्हि ? पुरुषादेवोपादानकारणात् स एवाहं तदेवेदमिति वा खार्थेकत्वपरिच्छेदकं प्रत्यभिज्ञानं प्रवर्तते खावरणक्षयोपशमवशादिति व्यवतिष्ठते । तस्माच्च मृत्पर्यायाणामिवैकसंतानवर्तिनां चित्पर्यायाणामपि तत्त्वतोन्वितत्वसिद्धेः सिद्धमात्मद्रव्यमुदाहरणस्य साध्यविकलतानुपपत्तेः ॥
सिद्धोप्यात्मोपयोगात्मा यदि न स्यात्तदा कुतः।
श्रेयोमार्गप्रजिज्ञासा खस्येवाचेतनत्वतः ॥ १८७॥ येषामात्मानुपयोगखभावस्तेषां नासौ श्रेयोमार्गजिज्ञासा वाचेतनत्वादाकाशवत् । नोपयोगखभावत्वं चेतनत्वं किंतु चैतन्ययोगतः स चात्मनोस्तीत्यसिद्धमचेतनत्वं न साध्यसाधनायालमिति शंकामपनुदति
चैतन्ययोगतस्तस्य चेतनत्वं यदीर्यते ।
खादीनामपि किं न स्यात्तद्योगस्याविशेषतः॥१८८ ॥ पुंसि चैतन्यस्य समवायो योगः स च खादिष्वपि समानः, समवायस्य खयमविशिष्टस्यैकस्य प्रतिनियमहेत्वभावादात्मन्येव ज्ञानं समवेतं नाकाशादिष्विति विशेषाव्यवस्थितेः ॥
मयि ज्ञानमपीहेदं प्रत्ययानुमितो नरि।
ज्ञानस्य समवायोस्ति न खादिष्वित्ययुक्तिकम् ॥ १८९॥ यथेह कुंडे दधीति प्रत्ययान्न तत्कुंडादन्यत्र तद्दधिसंयोगः शक्यापादानस्तथेह मयि ज्ञानमितीहेदं प्रत्ययान्नात्मनोऽन्यत्र खादिषु ज्ञानसमवाय इत्ययुक्तिकमेव योगस्य ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org