________________
४०.
तत्त्वार्थश्लोकवार्तिके
खादयोपि हि किं नैव प्रतीयुस्तावके मते । ज्ञानमस्माविति कात्मा जडस्तेभ्यो विशेषभाक् ॥ १९० ॥
खादयो ज्ञानमस्मास्खिति प्रतीयंतु खयमचेतनत्वादात्मवत् । आत्मनो वा मैवं प्रतीयुस्तत एव खादिवदिति । जडात्मवादिमते सन्नपि ज्ञानमिहेदमिति प्रत्ययः प्रत्यात्मवेद्यो न ज्ञानस्यात्मनि समवायं नियमयति विशेषाभावात् । नन्विह पृथिव्यादिषु रूपादय इति प्रत्ययोपि न रूपादीनां पृथिव्यादिषु समवायं साधयेद्यथा खादिषु तत्र वा सत्त्वं साधयेत् पृथिव्यादिष्विवेति न क्वचित्प्रत्यय विशेषात्कस्यचिद्व्यवस्था | किंचित्साधर्म्यस्य सर्वत्र भावादिति चेत् । सत्यं । अयमपरोस्य दोषोस्तु, पृथिव्यादीनां रूपाद्यनात्मकत्वे खादिभ्यो विशिष्टतया व्यवस्थापयितुमशक्तेः । स्यान्मतं । आत्मानो ज्ञानमस्मास्खिति प्रतीयंति आत्मत्वात् ये तु न तथा ते नात्मानो यथा खादयः । आत्मानश्चैतेऽहंप्रत्ययग्राह्यास्तस्मात्तथेत्यात्मत्वमेव खादिभ्यो विशेष - मात्मानं साधयति पृथिवीत्वादिवत् । पृथिव्यादीनां पृथिवीत्वादियोगाद्धि पृथिव्यादयस्तद्वदात्मत्वयोगादात्मान इति । तदयुक्तम् । आत्मत्वादिजातीनामपि जातिमदनात्मकत्वे तत्समवायनियमासिद्धेः । प्रत्ययविशेषात्तत्सिद्धिरिति चेत्, स एव विचारयितुमारब्धः । परस्परमत्यंतभेदाविशेषेपि जातितद्वतामात्मत्वजातिरात्मनि प्रत्ययविशेषमुपजनयति न पृथिव्यादिषु पृथिवीत्वादिजातयश्च तत्रैव प्रत्ययमुत्पादयंति नात्मनीति को नियमहेतुः ? समवाय इति चेत्, सोऽयमन्योन्यसंश्रयः । सति प्रत्ययविशेषे जातिविशेषस्य जातिमति समवायः सति च समवाये प्रत्ययविशेष इति । प्रत्यासत्तिविशेषादन्यत एव तत्प्रत्ययविशेष इति चेत् । स कोऽन्योऽन्यत्र कथंचित्तादात्म्यपरिणामादिति स एव प्रत्ययविशेषहेतुरेषितव्यः । तदभावे तदघटनाज्जातिविशेषस्य क्वचिदेव समवायासिद्धेरात्मादिविभागानुपपत्तेरात्मन्येव ज्ञानं समवेतमिहेदमिति प्रत्ययं कुरुते न पुनः खादिष्विति प्रतिपत्तुमशक्तेर्न चैतन्ययोगादात्मनश्चेतनत्वं सिद्ध्येत् यतोऽसिद्धो हेतुः स्यात् ।
प्रतीतिः शरणं तत्र केनाप्याश्रीयते यदि । तदा पुंसश्चिदात्मत्वं प्रसिद्धमविगानतः ॥ १९१ ॥ ज्ञाताहमिति निर्णीतेः कथंचिच्चेतनात्मताम् । अंतरण व्यवस्थानासंभवात् कलशादिवत् ॥ ९९२ ॥
प्रतीतिविलोपो हि स्याद्वादिभिर्न क्षम्यते न पुनः प्रतीत्याश्रयणं । ततो निःप्रतिद्वन्द्वमुपयोगात्मकस्यात्मनः सिद्धेर्न हि जातुचित्खयमचेतनोहं चेतनायोगाच्चेतनोऽचेतने च मयि चेतनायाः समवाय इति प्रतीतिरस्ति । ज्ञाताहमिति समानाधिकरणतया प्रतीतेः । भेदे तथा प्रतीतिरिति चेन्न । कथंचित्तादात्म्याभावे तददर्शनात् । यष्टिः पुरुषः इत्यादिप्रतीतिस्तु भेदे सत्युपचाराद् दृष्टा न पुनस्तात्त्विकी । तथा चात्मनि ज्ञाताहमिति प्रतीतिः कथंचिचेतनात्मतां गमयति, तामंतरेणानुपपद्यमानत्वात् कलशादिवत् । न हि कलशादिरचेतनात्म को ज्ञाताहमिति प्रत्येति । चैतन्ययोगाभावादसौ न तथा प्रत्येतीति चेत्, चेतनस्यापि चैतन्ययोगाचेतनो हमिति प्रतिपत्तेर्निरस्तत्वात् । ननु च ज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्भेदोऽन्यथा धनवानिति प्रत्ययादपि धनतद्वतोर्भेदाभावानुषंगादिति कश्चित् । तदसत् । ज्ञानवानहमित्येष प्रत्ययोपि न युज्यते ।
Jain Education International
सर्वथैव जडस्यास्य पुंसोभिमनने तथा ॥ १९३ ॥
ज्ञानवानहमिति नात्मा प्रत्येति जडत्वैकांतरूपत्वाद् घटवत् । सर्वथा जडश्च स्यात् आत्मा ज्ञानवान - हमिति प्रत्येता च स्याद्विरोधाभावादिति मा निर्णैषीस्तस्य तथोत्पत्त्यसंभवात् । तथाहि
For Private & Personal Use Only
www.jainelibrary.org