________________
प्रथमोऽध्यायः । ज्ञानं विशेषणं पूर्व गृहीत्वात्मानमेव च । विशेष्यं जायते बुद्धिानवानहमित्यसौ ॥ १९४ ॥ तद्गृहीतिः खतो नास्ति रहितस्य खसंविदा।।
परतश्चानवस्थानादिति तत्प्रत्ययः कुतः॥ २०१॥ । येषां नागृहीतविशेषणा विशेष्ये बुद्धिरिति मतं श्वेताच्छेते बुद्धिरिति वचनात्तेषां ज्ञानवानहमिति प्रत्ययो नागृहीते ज्ञानाख्ये विशेषणे विशेष्ये चात्मनि जातूत्पद्यते, स्वमतविरोधात् । गृहीते तस्मिन्नुस्पद्यते इति चेत्, कुतस्तद्गृहीतिः ? न तावत्वतः स्वसंवेदनानभ्युपगमात् । स्वसंविदिते ह्यात्मनि ज्ञाने च स्वतः सा प्रयुज्यते नान्यथा संतानांतरवत् । परतश्चेत्तदपि ज्ञानांतरं विशेष्यं नागृहीते ज्ञानत्वविशेषणे ग्रहीतुं शक्यमिति ज्ञानांतरात्तद्रहणेन भाव्यमित्यनवस्थानात् कुतः प्रकृतप्रत्ययः ॥
नन्वहंप्रत्ययोत्पत्तिरात्मज्ञप्तिर्निगद्यते । ज्ञानमेतदिति ज्ञानोत्पत्तिस्तद्ज्ञप्तिरेव च ॥ २०२॥ ज्ञानवानहमित्येष प्रत्ययस्तावतोदिता।
तद्ज्ञानावेदनेप्येवं नानवस्थेति केचन ॥ २०३ ॥ ज्ञानात्मविशेषणविशेष्यज्ञानाहितसंस्कारसामर्थ्यादेव ज्ञानवानहमिति प्रत्ययोत्पत्ते नवस्थेति केचिन्मन्यते
तेपि नूनमनात्मज्ञा ज्ञाप्यज्ञापकताविदः।
सर्वं हि ज्ञापकं ज्ञातं खयमन्यस्य वेदकम् ॥ २०४॥ विशेषणविशेष्ययोर्ज्ञानं हि तयोपिकं तत्कथमज्ञातं तौ ज्ञापयेत् । कारकत्वे तदयुक्तमेव । तदिमे
१ यत्पुस्तकमाश्रित्य मुद्रणाय प्रतिपुस्तकं कृतं तत्र चतुर्दशपृष्ठस्यैकविंशतितमपंक्त्याः प्रारम्भे “यदाप्तस्तदधिकरणस्य" इत्यस्य स्थाने अधोलिखितस्यास्य पाठस्यानुपलब्धलात् किंचित्कालानन्तरंतु पुस्तकान्तरेऽस्योपलब्धत्वेनेहोद्धृतिः कृता । अत एव चेह वार्तिकसंख्यापि वृद्धिं नीता। तत एव चैनं पाठं तत्स्थानीयं समुपगम्याध्ययनं विधास्यन्ति मयि क्षमापरायणाः सुधिय इत्याशासे। यदा च क्वचिदेकत्र तदेतनास्तितामतिः । नैवान्यत्र तदा सास्ति कैवं सर्वत्र नास्तिता ॥२४॥ प्रमाणांतरतोप्येषां न सर्वपुरुषग्रहः । तल्लिंगादेरसिद्धत्वात् सहोदीरितदूषणात् ॥ २५॥ तज्ज्ञापकोपलंभोपि सिद्धः पूर्वत्र जातुचित् । यस्य स्मृतौ प्रजायेत नास्तिताज्ञानमंजसा ॥ २६ ॥ तदेवं सदुपलंभकप्रमाणपंचकवदभावप्रमाणमपि न सर्वज्ञज्ञापकोपलंभस्य सर्वप्रमातृसंबंधिनो संभवसाधनं तत्र तस्योस्थानसामग्यभावात् । ननु च विवादापन्नेष्वशेषप्रमातृषु तदुपगमादेव सिद्धः सर्वज्ञज्ञापकोपलंभो नास्तीति साध्यते ततो नाभावप्रमाणस्य तत्रोत्थानसामय्यभाव इत्यारेकायां परोपगमस्य प्रमाणलाप्रमाणलयोर्दूषणमाह;परोपगमतः सिद्धस्स चेन्नास्तीति गम्यते । व्याघातस्तत्प्रमाणत्वेऽन्योन्यं सिद्धो न सोऽन्यथा ॥२७॥
न हि प्रमाणात्सिद्धे सर्वज्ञज्ञापकोपलंभे परोपगमोसिद्धो नाम यतस्तन्नास्तितासाधनेऽन्योन्यं व्याघातो न स्यात् । प्रमाणमंतरेण तु स न सिद्ध्यत्येवेति तत्सामग्यभाव एव ॥
न चैवं सर्वथैकांतः परोपगमतः कथम् । सिद्धो निषिध्यते जैनैरिति चोधं न धीमताम् ॥ २८ ॥ न हि सोपगमतः स्याद्वादिनां सर्वथैकांतः सिद्धोस्तीति निषेध्यो न स्यात् सर्वज्ञज्ञापकोपलंभवत् , तदेतदचोद्यम् । प्रतीतेनंतधर्मात्मन्यर्थे स्वयमबाधिते । को दोषः सुनयैस्तत्रैकांतोपप्लवबाधने ॥२९॥
सुनिश्चितासंभवबाधकप्रमाणेपि ह्यनेकांतात्मनि वस्तुनि दृष्टिमोहोदयात्सर्वथैकांतामिप्रायः कस्यचिदुपजायते । स चोपप्लवः सम्यग्नयैर्बाध्यते इति न कश्चिद्दोषः । प्रतिषेध्याधिकरणं प्रतिपत्तिलक्षणः प्रतिषेध्यासिद्धिलक्षणो वा मिथ्यादृशस्तद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org