________________
४२
तत्त्वार्थश्लोकवार्तिके तयोर्ज्ञानमज्ञातमेव ज्ञापकं ब्रुवाणा न ज्ञाप्यज्ञापकभावविद इति सत्यमनात्मज्ञाः । स्यान्मतं । विशेषणस्य ज्ञानं न ज्ञापकं नापि कारकं लिंगवच्चक्षुरादिवच्च । किं तर्हि ? ज्ञप्तिरूपं फलं । तच्च प्रमाणाज्ञातं चेतावतैवाकांक्षाया निवृत्तिः फलपर्यंतत्वात्तस्या विशेष्यज्ञानस्य ज्ञापकं तदित्यपि वार्त तस्य तत्कारकत्वात् । प्रमाणत्वात्तस्य ज्ञापकं तदित्यप्यसारं साधकतमस्य कारकविशेषस्य प्रमाणत्ववचनात् । न हि विशेषणज्ञानं प्रमाणं विशेष्यज्ञानं तत्फलमित्यभिदधानस्तत्तस्य ज्ञापकमिति मन्यते । किं तर्हि ? विशेष्यज्ञानोत्पत्ति- । सामग्रीत्वेन विशेषणज्ञानं प्रमाणमिति । तथा मन्यमानस्य च कानवस्था नामेति । तदेतदपि नाति विचारसहं । एकात्मसमवेतानंतरज्ञानग्राह्यमर्थज्ञानमिति सिद्धांतविरोधात् । यथैव हि विशेषणार्थज्ञानं पूर्व प्रमाणफलं प्रतिपत्तुराकांक्षानिवृत्तिहेतुत्वान्न ज्ञानांतरमपेक्षते तथा विशेषार्थज्ञानमपि विशेषणज्ञानफलत्वात्तस्य यदि पुनर्विशेषणविशेष्यार्थज्ञानस्य खरूपापरिच्छेदकत्वात्वात्मनि क्रियाविरोधादपरज्ञानेन वेद्यमानतेष्टा तदा तदपि तद्वेदकं ज्ञानमपरेण ज्ञानेन वेद्यमिष्यतामित्यनवस्था दुःपरिहरा । नन्वर्थज्ञानपरिच्छेदे तदनंतरज्ञानेन व्यवहर्तुराकांक्षाक्षयादर्थज्ञानपरिच्छित्तये न ज्ञानांतरापेक्षास्ति, तदाकांक्षया वा तदिष्यत एव यस्य यत्राकांक्षाक्षयस्तत्र तस्य ज्ञानांतरापेक्षानिवृत्तेस्तथा व्यवहारदर्शनात्ततो नानवस्थेति चेत् , तीर्थज्ञानेनार्थस्य परिच्छित्तौ कस्यचिदाकांक्षाक्षयात्तद्ज्ञानापेक्षापि माभूत् । तथेष्यत एवेति चेत्, परोक्षज्ञानवादी कथं भवता अतिशय्यते ? ज्ञानस्य कस्यचित् प्रत्यक्षत्वोपगमादितिचेत् , यस्याप्रत्यक्षतोपगमस्तेन परिच्छिन्नोर्थः कथं प्रत्यक्षः ? संतानांतरज्ञानपरिच्छिन्नार्थवत् प्रत्यक्षतया प्रतीतेरिति चेत् , तीप्रत्यक्षज्ञानवादिनोपि तत एवार्थः प्रत्यक्षोस्तु । तथा चानार्थका सर्वज्ञज्ञानस्य ज्ञानांतरप्रत्यक्षत्वकल्पना । यत्र यथा प्रतीतिस्तत्र तथेष्टिर्न पुनरप्रतीतिकं किंचित्कल्प्यत इति चेत् , स्वार्थसंवेदकताप्रतीतितो ज्ञानस्य तथेष्टिरस्तु । ज्ञाने खसंवेदकताप्रतीतेः । खात्मनि क्रियाविरोधेन बाधितत्वान्न तथेष्टिरिति चेत् । का पुनः खात्मनि क्रिया विरुद्धा परिस्पंदरूपा धात्वर्थरूपा वा ? प्रथमपक्षे असिज्ञाने तदभावात् । धात्वर्थरूपा तु न विरुद्धैव भवति तिष्ठतीत्यादिक्रियायाः खात्मनि प्रतीतेः। कथमन्यथा भवत्याकाशं तिष्ठति मेरुरित्यादि व्यवहारः सिद्ध्येत् ? सकर्मिका धात्वर्थरूपापि विरुद्धा स्वात्मनीति चेत् , तर्हि ज्ञानं प्रकाशते चकास्तीति क्रिया न खात्मनि विरुद्धा? ज्ञानमात्मानं जानातीति सकमिका तत्र विरुद्धेति चेन्न, आत्मानं हंतीत्यादेरपि विरोधानुषंगात् । कर्तृखरूपस्य कर्मत्वेनोपचारान्नात्र पारमार्थिकं कर्मेति चेत् , समानमन्यत्र । ज्ञाने कर्तरि वरूपस्यैव ज्ञानक्रियायाः कर्मतयोपचारात् । तात्त्विकमेव ज्ञाने कर्मत्वं प्रमेयत्वात्तस्येति चेत् , तद्यदि सर्वथा कर्तुरभिन्नं तदा विरोधः, सर्वथा भिन्नं चेत्कथं तत्र ज्ञानस्य जानातीति क्रिया खात्मनि स्यायेन विरुद्ध्येत् । कथमन्यथा कटं करोतीति क्रियापि कटकारस्य खात्मनि न स्याद्यतो न विरुध्यते । कर्तुः कर्मत्वं कथंचिद्भिन्नमित्येतस्मिंस्तु दर्शने ज्ञानस्यात्मनो वा खात्मनि क्रिया दूरोत्सारितैवेति न विरुद्धतामधिवसति । ततो ज्ञानस्य खसंवेदकताप्रतीतेः खात्मनि क्रियाविरोधो बाधकः प्रत्यस्तमितबाधकप्रतीत्यास्पदं चार्थसंवेदकत्ववत्खसंवेदकत्वं ज्ञानस्य परीक्षकैरेष्टव्यमेव । प्रतीत्यननुसरणेनवस्थानस्य खमतविरोधस्य वा परिहर्तुमशक्तेः । ततो न जडात्मवादिनां ज्ञानवानहमिति प्रत्ययः ज्ञाताहमिति प्रत्ययवत् पुरुषस्य ज्ञानविशिष्टस्य ग्राहकः ॥
किं चाहंप्रत्ययस्यास्य पुरुषो गोचरो यदि ।
तदा कर्ता स एव स्यात् कथं नान्यस्य संभवः ॥ २०५॥ ___ कश्चास्याहंप्रत्ययस्य विषय इति विचार्यते । पुरुषश्चेत् प्रमेयः प्रमाता न स्यात् । न हि स एव प्रमेयः स एव प्रमाता, सकृदेकस्यैकज्ञानापेक्षया कर्मत्वकर्तृतयोर्विरोधात् । ततोऽन्यः कर्तेति चेन्न,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org