________________
प्रथमोऽध्यायः ।
एकत्र शरीरे अनेकात्मानभ्युपगमात् । तस्याप्यहंप्रत्ययविषयत्वेऽपरकर्तृपरिकल्पनानुषंगादनवस्थानादेकात्मज्ञानापेक्षायामात्मनः प्रमातृत्वानुपपत्तेश्च नान्यः कर्ता संभवति यतो न विरोधः ॥
स्वस्मिन्नेव प्रमोत्पत्तिः स्वप्रमातृत्वमात्मनः । प्रमेयत्वमपि स्वस्य प्रमितिश्चेयमागता ॥ २०६ ॥
यथा घटादौ प्रमतेरुत्पत्तिस्तत्प्रमातृत्वं पुरुषस्य तथा स्वस्मिन्नेव तदुत्पत्तिः स्वप्रमातृत्वं यथा च घटादेः प्रमितौ प्रमेयत्वं तस्यैव तथात्मनः परिच्छित्तौ स्वस्यैव प्रमेयत्वं यथा घटादेः परिच्छित्तिस्तस्यैव प्रमिति - स्तथात्मनः परिच्छित्तिः खप्रमितिः प्रतीतिबलादागता परिहर्तुमशक्या ॥
४३
तथाचैकस्य नानात्वं विरुद्धमपि सिद्ध्यति ।
न चतस्रो विधास्तेषां प्रमात्रादिप्ररूपणात् ॥ २०७ ॥ प्रमात्रादिप्रकाराश्चत्वारोप्यात्मनो भिन्नास्ततो नैकस्यानेकात्मकत्वं विरुद्धमपि सिद्ध्यतीति चेत् न, तस्य प्रकारांतरत्वप्रसंगात् । कर्तृत्वादात्मनः प्रमातृत्वेन व्यवस्थानात् न प्रकारांतरत्वमिति चेत् । केयं कर्तृतानामात्मनः ? ॥
प्रमितेः समवायित्वमात्मनः कर्तृता यदि ।
तदा नास्य प्रमेयत्वं तन्निमित्तत्वहानितः ॥ २०८ ॥ प्रमाणसहकारी हि प्रमेयोर्थः प्रमां प्रति ।
निमित्तकारणं प्रोक्तो नात्मैवं स्वप्रमां प्रति ॥ २०९ ॥
प्रमीयमाणो ह्यर्थः प्रमेयः प्रमाणसहकारी प्रमित्युत्पत्तिं प्रति निमित्तकारणत्वादिति ब्रुवाणः कथमात्मनः खप्रमितिं प्रति समवायिनः प्रमातृतामात्मसात् कुर्वतः प्रमेयत्वमाचक्षीत विरोधात् । न चात्मा स्वप्रमां प्रति निमित्तकारणं समवायिकारणत्वोपगमात् । यदि पुनरात्मनः स्वप्रमितिं प्रति समवायित्वं निमित्तकारणत्वं चेष्यतेर्थप्रमितिं प्रति समवायिकारणत्वमेव तदा साधकतमत्वमप्यस्तु । तथा च स एव प्रमाता स एव प्रमेयः स एव च प्रमाणमिति कुतः प्रमातृप्रमेयप्रमाणानां प्रकारांतरता नावतिष्ठेत् । कर्तृकारकात् करणस्य भेदान्नात्मनः प्रमाणत्वमिति चेत्, कर्मकारकं कर्तुः किमभिन्नं यतस्तस्य प्रमेयत्वमिति नात्मा स्वयं प्रमेयः ॥
Jain Education International
नiतरप्रमेयत्वमनेनास्य निवारितम् ।
कस्यापि प्रमेयत्वेन्यप्रमातृत्वकल्पनात् ॥ २१० ॥ बाध्या केनानवस्था स्यात्स्वप्रमातृत्वकल्पने । यथोक्ताशेषदोषानुषंगः केन निवार्यते ॥ २११ ॥
विवक्षितात्मा आत्मांतरस्य यदि प्रमेयस्तदास्य खात्मा किमप्रमेयः प्रमेयो वा ? अप्रमेयश्चेत् तत्मांतरस्य प्रमेय इति पर्यनुयोगस्यापरिनिष्ठानादनवस्था केन बाध्यते । प्रमेयश्चेत् स एव प्रमाता स एव प्रमेय इत्यायातमेकस्य नैकत्वं विरुद्धमपि परमतसाधनं तद्वत् स एव प्रमाणं स्यात् साधकतमत्वोपपत्तेरिति पूर्वोक्तमखिलं दूषणमशक्यनिवारणम् ॥
स्वसंवेद्ये नरे नायं दोषोऽनेकांतवादिनाम् । नानाशक्त्यात्मनस्तस्य कर्तृत्वाद्यविरोधतः ॥ २१२ ॥ परिच्छेदकशक्त्या हि प्रमातात्मा प्रतीयते । प्रमेयश्च परिच्छेद्यशक्त्याकांक्षाक्षयात्स्थितिः ॥ २१३ ॥
For Private & Personal Use Only
www.jainelibrary.org